अष्टावक्र गीता · अध्याय 11
भावाभावविकारश् च स्वभावाद् इति निश्चयी
निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ॥
ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी
अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते ॥
आपदः सम्पदः काले दैवाद् एवेति निश्चयी
तृप्तः स्वस्थेन्द्रियो नित्यं न वाञ्छति न शोचति ॥
सुखदुःखे जन्ममृत्यू दैवाद् एवेति निश्चयी
साध्यादर्शी निरायासः कुर्वन्न् अपि न लिप्यते ॥
चिन्तया जायते दुःखं नान्यथेहेति निश्चयी
तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः ॥
नाहं देहो न मे देहो बोधो ऽहम् इति निश्चयी
कैवल्यम् इव संप्राप्तो न स्मरत्य् अकृतं कृतम् ॥
आब्रह्मस्तम्बपर्यन्तम् अहम् एवेति निश्चयी
निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः ॥
नानाश्चर्यम् इदं विश्वं न किंचिद् इति निश्चयी
निर्वासनः स्फूर्तिमात्रो न किंचिद् इव शाम्यति ॥
मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0