भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 3.1

3.1.1

अथातः सर्वरोगनिदानं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

3.1.2

इह कृतयुगे विगतरागद्वेषादिद्वन्द्वा जितलोभक्रोधश्रमक्लमालस्यभया निष्परिग्रहाः पुरुषा बभूवुः ।
तेषां पुण्यबलेन पृथिव्यादीनां सर्वगुणसमुदायादचिन्त्यरस वीर्यादिसमुदितानि सस्यान्योषधयश्चासन् ।
ते तानि जितेन्द्रियत्वात् काले मात्रया चोपयुञ्जानाः सत्यार्जवानृशंस्यादिगुणयोगाच्च सुरसदृशतेजसो रूपाकृतिप्रमाणप्रसादोपचयसंहननसत्त्वसारसम्पन्ना दीर्घायुषो नीरुजश्च बभूवुः ॥

3.1.3

भ्रश्यन्ति तु कृतयुगे युगस्वभावात् क्रमेण परिहीयमाणसर्वगुणेषु पृथिव्यादिषु शरीरेषु च धर्मातिक्रमात् पुरुषेष्ववश्यम्भाविनो निरपेक्षरूक्षाभिरुपेक्षिता देवताभिर्ज्वरादयः प्रादुरभूवन्निति सर्वरोगाणां सामान्यतः सम्भवः ॥

3.1.4

ज्वरस्तु स्थाणुशापात् प्राचेतसत्वमुपागतस्य प्रजापतेः क्रतौ भागमपरिकल्पयतस्तद्विनाशार्थं पूर्वजन्मावमानितया रुद्राण्या प्रेरितस्य पशुपतेर्दिव्यमब्दसहस्रं परिरक्षितवतः क्रोधमतिचिरकालसम्भृतो व्रतान्ते रोषाग्निः किङ्कररूपेण किल पिण्डितमूर्तिर्वीरभद्रनामा भस्मप्रहरणस्त्रिशिरोक्षिबाहुपादः पिङ्गललोचनो दर्ष्ट्री शङ्कुकर्णः कृष्णतनुरुत्तमाङ्गान्निश्चचार ।
स देवीविनिर्मितया सह भद्रकाल्या प्रतिरोमकूपमभिनिःसृतैर्विविधविकृताकृतिभिरनन्तैर्भयानकवाक्यक्रियावपुर्भिरनुचरैः परिवृतश्चतुर्युगान्तकरकालाम्भोदसहस्रनिनदो ऽनुनादयन् रोदसी ज्वालागर्भेण परीतः कलकलारावेण महाभूतसम्प्लवकारिणा विधाय दानववधमश्वमेधाध्वरविध्वंसनं च प्राञ्जलिर्विज्ञापयामास शिवम् ।
शिवीभूतो ऽसि देवदेव
देवैः पितामहप्रभृतिभिर्जगतः पित्रा च धात्राभिष्टूयमानः ।
सम्प्रत्यहं किं करवाणीति ।
तं शूली क्रोधमादिदेश ।
यस्मात् त्रिदशैरप्यजय्य मत्क्रोध व्रतविघ्नं चिकीर्षुदत्यसैन्यं दक्षो दक्षहव्यं च त्वया जीर्णमतो जगतो ऽस्य सस्थावरस्य ज्वरयिता ज्वरो भवान् भवतु ।
त्वं हि सर्घरोगाणां प्रथमः प्रवरो जन्ममरणेषु तमोमयतया महामोहः प्राग्जन्मनो विस्मारयितापचारान्तरेषु चोष्मायमाणत्वात् सन्तापात्मा द्वयेष्वपि ध्रुवो ज्वरो भवेति ।
सो ऽयमेवमुमापतिनानुगृहीतो नानानामभिः सर्वतो ऽनुभुवि विचरति ।
तद्यथा ।
पाकलो गजेष्वभितापो वाजिष्वलर्कः कक्कुरेष्विन्द्रमदो जलजेषु ज्योतिरोषधीषु चूर्णको धान्येष्वप्सु नीलिका भूमावूषरो मनुष्येषु ज्वर इति ॥

3.1.5

तत्सहजाश्चारोचकाङ्गमर्दशिरोव्यथाभ्रमक्लमग्लानितृष्णासन्तापादयः ।
तत्सन्तापाच्च रक्तपित्तम् ।
तत्रैव च यज्ञे क्रोधभयाभिभूतानां परितो विद्रवतां लङ्घनप्लवनाद्यैर्देहविक्षोभणैर्गुल्मविद्रधिवृद्धिजठरादयो
हविःप्राशान्मेहकुष्ठार्शःशोफातीसारादयो
भयोत्त्रासशोकाशुचिसंस्पर्शैरुन्मादापस्मारग्रहादयो
रोहिण्यतिप्रसङ्गाच्छेषदुहित्रसम्भोगकृताच्च प्रजापतिक्रोधान्नक्षत्रराजस्य राजयक्ष्मा तत्सहोद्भवाश्च कासश्वासादयः ।
सो ऽपि हि न विना ज्वरेणानुबध्नातीति सकलो ऽपि रोगग्रामो ज्वरपूर्वको ज्वरशब्दवाच्यो वा ॥

3.1.6

ज्वरस्तमो विकार आतङ्कः पाप्मा गदो व्याधिराबाधो दुःखमामयो यक्ष्मा रोग इत्यनर्थान्तरम् ।
तत्र रुजतीति रोगः ।
तस्योपलब्धिर्निदानपूर्वरूपरूपोपशयसम्प्राप्तिभिः ॥

3.1.7

तत्र निदानं वाय्वादिप्रकोपः ।
तस्य पुनरहिताहारविहारसेवा ।
निदानपर्यायास्तु हेतुर्निमित्तमायतनं कारकः कर्ता कारणं प्रत्ययः समुत्थानं मूलं योनिरिति ॥

3.1.8

पूर्वरूपं नाम येन भाविव्याधिविशेषो विज्ञायते न तु दोषविशेषः ।
तद्ध्युत्पत्स्यमानस्य व्याधेरल्पत्वादव्यक्तं रूपम् ॥

3.1.9

स्पष्टं पुना रूपम् ।
तस्य शब्दान्तराणि लिङ्गमाकृतिर्लक्षणं चिह्नं संस्थानं व्यञ्जनमिति ॥

3.1.10

उपशयो हेतुव्याधिविपरीतैर्विपरीतार्थकारिभिश्चचौषधाहारविहारैः सुखानुबन्धः ।
स हि व्याधिसात्म्यसंज्ञः ।
तद्विपरीतो ऽनुपशयः ।
एतेन देशकालौ व्याख्यातौ ॥

3.1.11

सम्प्राप्तिः पुनरेवंदुष्टो दोषस्तेन चैवमारब्धो व्याधिस्तत्पर्याया जातिरागतिर्निर्वृत्तिर्निष्पत्तिरिति ॥

3.1.12

सा सङ्ख्याविकल्पप्राधान्यबलकालविशेषैर्भिद्यते ।
तत्र सङ्ख्या तावदष्टौ ज्वरास्त्रिविधं रक्तपित्तं पञ्च कासा इति ।
विकल्पः समवेतानां दोषाणामंशांशकल्पना ।
प्राधान्यं व्याधिनामनुबन्ध्यानुबन्धकभेदात्तरतमयोगाद्वा दोषाणाम् ।
बलाबलविशेषो हेत्वादिकार्त्स्न्यावयवविभावनया ।
कालविशेषः पुनर्दोषाणामृत्वहोरात्र्याहारसमयनियतः प्रकोप इति ।
एतावतैव समासतः कथितो निदानार्थः ।
विस्तरेण तु यथास्वं प्रतिरोगमुपदेक्ष्यते ॥

3.1.13

अथ तिक्तकटुकषायरूक्षलघुशीतविष्टम्भिविरूढकतृणधान्यकलायचणककरीरतुम्बकालिङ्गचिर्भिटबिसशालूकजाम्बवतिन्दुकहीनशुष्कप्रमिततृषिताशनक्षुधिताम्बुपानासृक्क्षयविरेचनादिकर्मातियोगवेगविधारणोदीरणरात्रिजागरणप्रवातव्यवायज्यायामबलवद्युद्धनिग्रहातिखरचापकर्षणात्युच्चविषमलङ्घनाध्वाध्ययनधावनसलिलतरणाभिघातदम्यगोवाजिगजनिग्रहाश्मशिलालोहकाष्ठोत्क्षेपविक्षेपभ्रमणचालनगाढोच्छादनपराघातनादिसाहसभयशोकोत्कण्ठादिभिरतिसेवितैर्ग्रीष्मवर्षापराह्णापररात्राहारपरिणामान्तेषु च वायुः प्रकोपमापद्यते ॥

3.1.14

कट्वम्ललवणक्षारोष्णतीक्ष्णविदाहिशुक्तशाण्डाकीमद्यमूत्रमस्तुदधिधान्याम्लतैलकुलत्थमाषनिष्पावतिलान्नकट्वरकुठेरकादिवर्गामाम्रातकाम्लीकापीलुभल्लातकास्थिलाङ्गलिकामरिचातपाग्निरजोधूमक्रोधेर्ष्याजीर्णमैथुनोपगमनादिभिर्वर्षाशरन्मध्यन्दिनार्धरात्राहारविदाहकालेषु च पित्तम् ॥

3.1.15

मधुराम्ललवणस्निग्धगुरुशीतपिच्छिलाभिष्यन्दि नवान्नपिष्टपृथुकस्थूलभक्ष्यशष्कुल्यामक्षीरकीलाटमोरटकूचीकातक्रपिण्डकपीयुषेक्षुरसफाणितगुडानूपपिशितमोचखर्जूरभव्यनारिकेलनिशाम्बुपानात्यम्बुपानातिसन्तर्पणभुक्तमात्रदिवास्वप्नकालातिस्वप्नकायवाङ्मनो व्यापारानारम्भानुपधानशयनावश्यायहर्षच्छीर्दविघातविरेचनाद्ययोगादिभिः शिशिरवसन्तपूर्वाह्णप्रदोषभुक्तमात्रेषु च श्लेष्मा ॥

3.1.16

द्वयसंसर्गात् संसर्गः ।
सर्वेषां तु मिश्रीभावात्तथाध्यशनसमशनविषमाशनविरुद्धाशनसङ्कीर्णाशनव्यापन्नाम्बुमद्यमन्दकदधियावकयवसुरापिण्याकाममूलकसर्षपशुष्कशाकवल्लूरकृशपिशितलकुचामफलमृत्तिकाभ्यवहारान्नपरिवर्तर्तुव्यापदसात्म्यौषधिगन्धाघ्राणविषपिटकाविषगराभ्यवहारानार्तवदुर्दिनग्रहपीडाग्रहावेशपुरोवातपर्वतोपश्लेषरसायनस्नेहस्वेदविरेचनादिमिथ्यायोगेभ्यः पापानां च कर्मणामभ्यासात् पूर्वकृतानां च परिणामात् स्त्रीणां विषमप्रसवात् प्रसूतानां च मिथ्योपचारात् सन्निपातः ॥

3.1.17

इति सामान्यतः सर्वेषु रोगेषु दोषप्रकोपहेतुरुक्त इति ।
भवन्ति चात्र ॥

3.1.18

प्रतिरोगमिति क्रुद्धा रोगाधिष्ठानगामिनीः ।
रसायनीः प्रपद्याशु दोषा देहे विकुर्वते ॥

3.1.19

आधानजन्मनिधनप्रत्यराख्यविपत्करे ।
नक्षत्रे व्याधिरुत्पन्नः क्लेशाय मरणाय वा ॥

3.1.20

ज्वरस्तु जातः षड्रात्रादश्विनीषु निवर्तते ।
भरणीषु तु पञ्चाहात् सप्ताहात् कृत्तिकासु तु ॥

3.1.21

त्रिः सप्तरात्रादथवा रोहिण्यामष्टरात्रतः ।
एकादशाद्वा दिवसान्मृगे षण्णवरात्रयोः ॥

3.1.22

पञ्चाहान्मृत्युरार्द्रायां त्रिपक्षे संशयो ऽथवा ।
पुनर्वसौ प्रवृत्तस्तु ज्वरो ऽपैति त्रयोदशात् ॥

3.1.23

दिवसात् सप्तविंशाद्वा द्व्यहात् सप्ताहतो ऽथवा ।
पुष्ये श्लेषासु मरणं चिरेणापि मघासु तु ॥

3.1.24

अवश्यं स्वास्थ्यमाप्नोति द्वादशाहान्मृतो न चेत् ।
फाल्गुन्योः पूर्वयोर्मृत्युरन्यथोश्च दिने ऽष्टमे ॥

3.1.25

नव्मे ऽग्न्येकविंशे वा ज्वरः सौम्यत्वमृच्छति ।
हस्तेन सप्तमे शान्तिश्चित्रायामष्टमे ऽथवा ॥

3.1.26

पुनश्चित्रागमे स्वातौ दशाहादथ वा त्रिभिः ।
पक्षैर्मृत्युं विशाखासु द्वाविंशे ऽहनि निर्दिशेत् ॥

3.1.27

नवमे ऽह्नि न चेच्छान्तिर्मैत्रे मृत्युस्ततः परम् ।
ज्येष्ठायां पञ्चमे मृत्युरूर्ध्वं वा द्वादशात् सुखम् ॥

3.1.28

स्वास्थ्यं दशाहान्मूले तु त्रिसप्ताहे ऽथ वा गते ।
पूर्वाषाढासु नवमे ततो ऽन्यासु तु मासतः ॥

3.1.29

अष्टाभिरथवा मासैर्नव्भिर्वा भवेच्छिवम् ।
आज्येष्ठाहाद्धनिष्ठासु द्वादशाद्वारुणेषु तु ॥

3.1.30

षडहे द्वादशाहे वा मृत्युर्भाद्रपदासु तु ।
उत्तरासु त्रिसप्ताहात् प्रशमो रेवतीषु च ॥

3.1.31

चतूरात्रे ऽष्टरात्रे वा क्षेममित्याह गौतमः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc