भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 2.3

2.3.1

अथातो गर्भोपचरणीयमध्यायं व्याख्यास्यामः ।
इति हस्माहुरात्रेयादयो महर्षयः ॥

2.3.2

प्रथमे मासि गर्भिणी क्षीरमनुपसंस्कृतं मात्रावच्छीतं काले काले पिवेत् ।
तस्मिन्नपि चाद्यं द्वादशरात्रं क्षीरोद्भवं सर्पिश्शालिपर्णीपलाशाभ्यां शृतं कनकरजतक्वथितं शीतोदकानुपानं पिबेत् ।
स्वादु शीतं द्रवप्रायं सात्म्यं च सायंप्रातराहारयेत् ।
न चाभ्यङ्गोद्वर्तनानि सेवेत ।
यथोक्तानि च दोषकराणि परिहरेदापञ्चमान्मासाद्विशेषेण ॥

2.3.3

द्वितीये मधुरौषधसिद्धं पयः पिबेत् ।
तृतीये तदेव सर्पिर्मधुभ्याम् ।
चतुर्थे ऽक्षमात्रनवनीतयुक्तम् ।
पञ्चमे क्षीरसर्पिः ।
षष्ठे तदेव मधुरौषधसिद्धम् ।
सप्तमे च ।
तस्मिंस्तु गर्भस्य केशोत्पत्त्या मातुर्विदाहो भवतीति स्त्रियो भाषन्ते ।
नेति भगवानात्रेयः ।
गर्भोत्पीडनात्तु दोषा हृदयं प्राप्य विदहन्ति ततः कण्डूर्जायते कण्ड्वा किक्किसम् ॥

2.3.4

तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रमस्यै दद्यात् ।
चन्दनमृणालकल्कैश्च स्तनोदरं मृद्नीयात् ।
शिरीषधातकीसर्षपमधुकचूर्णैर्वा ।
कुटजार्जकबीजमुस्ताहरिद्राकल्कैर्वा ।
निम्बकोलसुरसमञ्जिष्ठाकल्कैर्वा ।
शशहरिणपृषतरुधिरयुक्तया वा त्रिफलया ।
करवीरकरञ्जपत्रकल्कसिद्धेन च तैलेनाभ्यङ्गः ।
परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भसा ।
कण्डूयनं वर्जयेत् ।
त्वग्भेदवैरूप्यपरिहारार्थं स्नानोद्वर्तनं च शीलयेत् ।
मधुरं चाहारमल्पमल्पस्नेहलवणमल्पोदकानुपानं भुञ्जीत ॥

2.3.5

अष्टमे क्षीरयवागूं सर्पिष्मतीं पिबेत् ।
नेति खण्डकाप्यः गर्भस्य पैङ्गल्याबाधभयात् ।
अस्तु पैङ्गल्याबाधस्तथाप्येवं कुर्वीत ।
नीरुजं बलवर्णसत्वसंहननसम्पदुपेतं ज्ञातीनामग्रगण्यमपत्यं जनयतीति भगवानात्रेयः ॥

2.3.6

बदरोदकेन पललपयोदधिमस्तुतैललवणफलघृतमधुयुक्तेनास्थापयेत् ।
पुराणविड्विशुध्यर्थं मधुकादिमधुरौषधसिद्धेन च तैलेनानुवासयेदनुलोमनाय वायोः ।
अनुलोमे हि मारुते सा सुखमनुपद्रवा प्रसूते ॥

2.3.7

गर्भिणीं तु न्युब्जामास्थापयेदनुवासयेद्वा ।
तथास्या विवृतमार्गतया सम्यगौषधमनुप्रविशति ॥

2.3.8

तत ऊर्ध्वं स्निग्धाभिर्यवागूभिर्जाङ्गलरसैश्चोपाचरेदाप्रसवकालादिति भगवान् धन्वन्तरिः ॥

2.3.9

नवमे तु तत एवानुवासनतैलात् पिचुं योनौप्रणयेद्गर्भमार्गाशययोः स्नेहनार्थमिति ।
अनेन प्रथममासादाराभ्य क्रमेण गर्भिण्याः प्रसवकाले गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं मृदु भवति ।
वायुश्चानुलोमः सम्पद्यते ।
मूत्रपुरीषं च प्रकृतिभूतं जरायुश्च मार्गं प्रतिपद्यते ।
पुत्रं चेष्टं कल्यमायुष्मन्तं सुखिनं सुखेन काले बलवती प्रसूते ॥

2.3.10

बिल्वकार्पासीपफ्फणापाटलीपिचुमन्दाग्निमन्थमासीवर्धमानकपत्रभङ्गक्वाथेन शीतेन सर्वगन्धोदकेन वा गर्भिण्याः प्रत्यहं स्नानमुपदिशेत् ॥

2.3.11

प्राक् चैवास्या नवमान्मासादपहृतास्थिशर्कराकपाले प्रशस्ते देशे वास्तुविद्याप्रशस्तं सर्वर्तुसुखमुपहृतसर्वोपकरणं सन्निहितज्वलनं प्राग्द्वारमुदग्द्वारं वा सूतिकागारं कारयेत् ॥

2.3.12

तत्रानुकूलेषु नक्षत्रादिषु पुण्याहशब्देन गोब्राह्मणवृद्धान् नत्वाआवर्तमाना प्रदक्षिणं प्रविश्य बहुशः प्रसूताभिरनुरक्ताभिरविषादाभिः क्लेशक्षमाभिः परिवृता स्वस्त्ययनपरानुलोमनैराहारविहारैरनुलोमितवातमूत्रपुरीषा प्रसवकालमुदीक्षेत ।
स्वल्पे ऽपि च विण्मूत्रविबन्धे फलवर्तीः प्रणिदद्यात् ॥

2.3.13

तत्रासन्नप्रसवायाः क्लमो ग्लानिर्मुक्तबन्धने इवाक्षिणी निष्ठीविका मूत्रपुरीषबाहुल्यं शिथिलकुक्षिताधोगुरुत्वमन्नानभिलाषो वेदनोदरहृदयकटीबस्तिवङ्क्षणेषु तोदभेदशूलस्फुरणस्रवणानि च योन्यां भवन्ति ।
तदनन्तरमावीनां प्रादुर्भावो गर्भोदकप्रवाहश्च ॥

2.3.14

अथैनामुपस्थितगर्भां कृतकौतुकमङ्गलां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तां सघृतां यवागूं पाययेत् ।
ततः सुरक्तार्षभचर्मप्रच्छदे मृदुनि भूमिशयने शयानामुत्तानामाभुग्नसक्थिपृष्ठामहतवाससो ऽशङ्कनीयाः प्रियदर्शनाः परिणतवयसः प्रजननकुशलाः प्रगल्भाः कृत्तनखाः स्त्रियः सूतिकां सूनृताभिर्वाणीभिराश्वासयन्त्यः पर्युपासीरन् ॥

2.3.15

अथास्यै दद्यात् कुष्ठैलालाङ्गलीवचाचव्यचित्रकचिरिबिल्वचूर्णमुपाघ्रातुं मुहुर्मुहुः ।
तथा भूर्जपत्रशिंशपासर्जरसान्यतमधूममन्तरान्तरा च पार्श्वपृष्ठकटीसक्थिदेशान् कोष्णेन तैलेनाभ्यज्यानुसुखमस्या मृद्नीयात् ॥

2.3.16

एकमवाक् परिवर्तते गर्भः ।
तस्य लक्षणम् ।
विमुच्य हृदयमुदरमाविशति ।
बस्तिशिरो ऽवगृह्णाति ।
त्वरयन्त्येनामाव्यः ।
न चेदेवं परिवर्तते ततो मुहुर्मुहुर्जृम्भणं चङ्क्रमणं च कारयितव्यानन्तरोक्तं विधिम् ॥

2.3.17

अन्ये तु मुसलेनोलूखलं धान्यपूर्णमाहननीयमित्याहुः ।
तत्तु न सम्यक् ।
दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुपदिश्यते ।
विशेषतश्च प्रसवकाले प्रचलितसर्वधातुदोषायाः सौकुमार्यत्वान्नार्या मुसलव्यायामेनेरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यादिति ॥

2.3.18

अथ परिवृत्तगर्भां पर्यङ्कमेनामारोप्य कुशला स्त्री पादतो ऽस्या निषण्णाया योनिमनुलोममनुसुखमभ्यज्ज्य स्फिजौ पादाभ्यां पीडयेत् ।
योनिं च पुनः पुनः प्रसाधयेत् ।
ब्रूयाच्च सुभगे शनैश्शनैः प्रवाहयस्व सुप्रसन्नस्ते मुखवर्णः पुत्रं जनयिष्यतीति ॥

2.3.19

अन्या तु वामकर्णे ऽस्या मन्त्रमिमं जपेत् ॥

2.3.20

क्षितिर्जलं वियत्तेजो वायुर्विष्णुः प्रजापतिः ।
सगर्भां त्वां सदा पातु वैशल्यं वा दधात्वपि ॥

2.3.21

प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने ।
कार्तिकेयद्युतिं पुत्रं कार्तिकेयादिरक्षितमिति ॥

2.3.22

तथा---
इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि ।
उच्चैश्श्चवाश्च तुरगो मन्दिरे निवसन्तु ते ॥

2.3.23

इदममृतमपां समुद्वृतं वै तव लघुगर्भमिमं प्रमुञ्चतु स्त्री ।
तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिमिति ॥

2.3.24

तथा परा ऽनुशिष्यात् अनागतायां वेदनायां मा प्रवाहिष्ठाः ।
अकालप्रवाहणं हि विण्मूत्रादिवेगानामिवोदीरणमनर्थकरमहितं च गर्भस्य श्वासकासशोषकुब्जतादिकारित्वात् ।
तथा तेषामेव विधारणमिव वेदनायामप्रवाहणमुपघाताय ततो यथोक्तं कुरुष्व ॥

2.3.25

शनैश्शनैश्च पूर्वं प्रवाहिष्ठाः ।
निर्गमे बाढं गर्भस्य योनिमुखप्रतिपत्तौ बाढतरमाप्रसवादिति ।
तस्यास्तु प्रवाहमानायाः स्त्रियः शब्दं कुर्युः प्रजाता प्रजाता धन्यं धन्यं पुत्रमिति ।
तथास्या हर्षेण प्राणा आप्यायन्ते ॥

2.3.26

गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्पनिर्मोकेन ।
पिण्डीतकेन वा ।
बध्नीयाच्च हिरण्यपुष्पीमूलं हस्तपादे धारयेच्च सुवर्चलां विशल्यां वा ॥

2.3.27

अथ प्रसूताया न चेदपरा पतति ततो दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवदुपपीड्य अन्येन पृष्ठत उपसङ्गृह्य विधुनुयात् ॥

2.3.28

पार्ष्ण्या वा श्रोणीमाकोटयेत् ।
स्फिजौ वोपसंगृह्य सुपीडितं निपीडयेत् ।
वेण्याङ्गुल्या वा केशवेष्टितया च कण्ठतालू परामृशेत् ॥

2.3.29

भूर्जपत्रकाचमणिसर्पनिर्मोकैश्च योनिं धूपयेत् ।
भूर्जगुग्गुलुभ्यां वा ।
शालिमूलसिद्धेन वा सर्पिषा योनिमभ्यज्य कटुकालाबुजालिनीनिम्बसर्पनिर्मोकैर्धूपयेत् ।
अनभ्यक्तां वा कटुतैलमिश्रैः कल्कीकृतैर्वा तैलाक्तैरालिम्पेत् ।
गुडनागरकल्केन वा ।
तदेव वा भक्षयेत् ।
लाङ्गलीमूलकल्केन वा पाणिमुदरं चालिम्पेत् ।
महावृक्षक्षीरं वा मूर्धन्यनुषेचयेत् ॥

2.3.30

कुष्ठतालीसकल्कं बिल्वबल्वजयूषमैरेयासवसुरामण्डान्यतमेन व्योषतीक्ष्णोष्णेन वाम्लेन कुलत्थरसेन मधुकपिप्पलीसम्पाकेन वा पाययेत् ।
पिप्पल्येलाकोलविबिडचव्यचित्रकोपकुञ्चिकाकल्कं वा ।
खरस्य वृषभस्य वा जीवतो दक्षिणं कर्णमुद्धृत्य बिल्वकुलत्थबल्वजयूषादीनामाप्लावनानामन्यतमे प्रक्षिप्य मुहूर्तस्थितमुद्धृत्य तदाप्लावनं पाययेत् ॥

2.3.31

कुष्ठैलाकल्कं वा सुरया ।
अर्कालर्ककषायं वा प्रजातां सुरोन्मिश्रम् ।
कुष्ठलाङ्गलिकीमूलककल्कं वा मद्यमूत्रान्यतमेन ।
वत्सकादिचूर्णं वा मद्येन ।
शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य च तैलस्य पिचुं ग्राहयेत् ।
ततश्चैनामनुवासनकाले ऽनुवासयेत् ॥

2.3.32

बिल्वबल्बजयूषाद्याप्लावनैश्च फलजीमूतकेक्ष्वाकुधामार्गवकुटजार्ककृतवेधनहस्तिपर्ण्यभीरूपहितैरास्थापयेत् ।
सिद्धार्थककुष्ठलाङ्गलिकीमहावृक्षक्षीरमिश्रेण वा सुरामण्डेन ।
शाल्मलीवृन्तानि वा स्विन्नान्यापोथ्य पञ्चमूलकषाये विमर्दयेत् ।
तेन च पूतेन स्नेहवता फलादियुक्तेन ॥

2.3.33

यथोक्तास्थापनद्रव्यसिद्धेन कटुतैलोत्तरबस्तिं दद्यात् ।
शिग्रुसुमुखमरिचाजाजीचित्रककल्कक्षीरगोमूत्रसिद्धेन वा कटुतैलेनानुवासयेत् ।
उमाशाल्मलीपिच्छया वा सघृतया योनिं पूरयित्वा विधुनुयात् ।
स्निग्धेन वा कृत्तनखेन पाणिना नालानुसारतो ऽपहरेत् ॥

2.3.34

प्रजातायां चेद्बस्तिमूर्धोदरेषु शूलं मक्कलाख्यं स्यात्तत्र यवक्षारचूर्णं सर्पिषा सुखोष्णोदकेन वा पिबेत् ।
वरणादिं वा सपञ्चकोलमेलाप्रतीवापम् ॥

2.3.35

अथवा वीरतरादिमूषरादिप्रतीवापम् ।
लवणचूर्णं वा वत्सकादिनिर्यूहेण ।
वत्सकादिं वा मदिरया ।
अंशुमतीद्वयक्वाथेन वा मरिचभद्रदारुकल्कम् ।
भार्ङ्गीनागरदेवदारुकल्कं वोष्णाम्भसा ।
पुराणगुडं वा त्रिकटुत्रिजातकधनिकाचूर्णसंसृष्टं भक्षयेत् ॥

2.3.36

तस्याश्चेत् स्वस्थानतो योनिर्भ्रश्येत् ।
ततो यस्य कस्यचिच्छोणितेनाभ्यज्य योनिं यथास्थानं कुशला स्त्री निवेशयेत् ।
निविष्टां चाशोकरोहिणीबर्हिषोशीरप्रियङ्गुदेवदारुकल्कविपक्वेन तैलेन बहुशः स्वेदयेत् पूरयेत् ब्रूयाच्च गच्छ सुभगे स्वस्थानमिति ॥

2.3.37

तद्वच्चान्यतमा स्त्री जातमात्रमेव बालं बालोपचरणीयेन विधिनोपपादयेत् ।
तमुपदेक्ष्यते तूतारेषु ।
अथ सूतिकां बलातैलेनाभ्यज्यात् ।
बुभुक्षितां च पञ्चकोलचूर्णेन यवान्युपकुञ्चिकाचव्यचित्रकव्योषसैन्धवचूर्णेन वा युक्तामहःपरिणामिनीं यथासात्म्यं स्नेहमात्रां पाययेत् ।
स्नेहायोग्यां वातहरौषधक्वाथं ह्रस्वपज्चमूलक्वाथं वा ॥

2.3.38

पीतवत्याश्च यमकेनाभ्यज्य वेष्टयेदुदरं वस्त्रेण ।
तथा न वायुरुदरविकृतिमुत्पादयेदयेदनवकाशत्वात् ।
जीएणे तु स्नेहे पूर्वैषधैरेव सिद्धां विदार्यादिगणक्वाथेन क्षीरेण वा यवागूं सुस्विन्नां द्रवां मात्रया पाययेत् ।
प्राक् स्नेहयवागूपानाभ्यां चोभयकालमुष्णोदकेन परिषेचयेत् ॥

2.3.39

एवं त्रिरात्रं पञ्चरात्रं सप्तरात्रं वानुपाल्य ततो यवकोलकुलत्थयूषेण लघुना चान्नपानेन ।
द्वादशरात्रात् परं जाङ्गलरसादिभिश्च क्रमादाप्याययेदग्निबलादीन्यपेक्ष्य ।
क्वथितशीतं च तोयं पाययेत् ।
तथा जीवनीयबृंहणीयमधुरवातहरसिद्धैरभ्यङ्गोद्वर्तनपरिषेकावगाहैरन्नपानैश्च हृद्यैरुपाचरेत् ।
एवं हि गर्भवृद्धिक्षपितशिथिलसर्वशरीरधातुप्रवाहणवेदनाक्लेदरक्तनिस्स्रुतिविशेषशून्यशरीराच्च पुअर्नवीभवति ॥

2.3.40

अत एव च सूतिकाया व्याधिः कृच्छ्रसाध्यो भवत्यसाध्यो वा ।
तस्मात्तां यथोक्तेन विधिना प्रयत्नेनोपचरेत् ।
एवं साध्यर्धमासमुपसंस्कृता क्रमेण विमुक्ताहारविहारयन्त्रणा विगतसूतिकाभिघाना स्यात् पुनरार्तवदर्शनादित्येके ॥

2.3.41

इत्याद्यं मासमादाय यावद्गर्भक्षमा पुनः ।
स्त्री स्यात्तावद्विधिः सर्वः सर्वथा साधु दर्शितः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc