अष्टाङ्गसंग्रह · अध्याय 2.2
अथातो गर्भावक्रान्तिं शारीरं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
गते पुराणे रजसि नवे ऽवस्थिते शुद्धे गर्भस्याशये मार्गे च बीजात्मना शुक्रमविकृतमविकृतेन वायुना प्रेरितमन्यैश्च महाभूतैरनुगतमार्तवेनाभिमूर्च्छितमन्वक्षमेव रागादिक्लेशवशानुवर्तिना स्वकर्मचोदितेन मनोजवेन जीवेनाभिसंसृष्टं गर्भाशयमुपयाति ॥
कार्याणा च कारणानुविधायित्वात्तत्सभागतां प्रतिपद्यते ।
तत एव च शुक्रस्य बाहुल्यात् पुमानार्तवस्य बाहुल्यात् स्त्री तयोः साम्येन नपुंसकम् ।
शुक्रार्तवे ऽनिलेन खण्डशो भिन्ने यथाविभागमपत्यानामुत्पत्तिः ।
विकृते वियोन्याकृतीनां च ॥
अथ नार्याः सद्योगृहीतगर्भायाश्च लिङ्गं योन्या बीजग्रहणं तृप्तिर्गरिमा स्फुरणं शुक्रार्तवयोरनुबन्धश्च ।
तथा प्रहर्षो हृल्लासस्तन्द्राङ्गसादः प्रसेको हृदयव्यथा ग्लानिः पिपासा च ।
क्रमेण तु व्यक्तगर्भायाः कुक्षिमात्रगौरवं क्षामनेत्रस्वरता योनिरोमसंलुलनं निद्रा जृम्भणं मूर्च्छा छर्दिररुचिः पादशोफो ऽम्ले ऽभिलाषस्तेषु तेषु चोच्चावचेषु भावेष्विति ॥
तस्याश्च रजोवाहिनां स्रोतसां वर्त्मान्युपरुध्यन्ते गर्भेण ।
तस्मात्ततः परमार्तवं न दृश्यते ।
ततस्तदधः प्रतिहतमपरमपरं चोपचीयमानमपरेत्याहुः ।
जरायुरित्यन्ये स्थिते रक्ते रोमराजिः प्रादुर्भवति ॥
जरायुशेषं चोर्ध्वमसृक् प्रतिपद्यते ।
तस्मात् पीनकपोलपयोधरता कृष्णौष्ठचूचुकत्वं च ।
स्तनाश्रयमेव च कफोपरञ्जितं स्तन्यतामुपगतं प्रसूतायाः पूनराहाररसेनाप्यायते ॥
तत्र प्रथमे मासे कललं जायते ।
द्वितीये घनः पेश्यर्बुदं वा तेभ्यः क्रमात् पुंस्त्रीनपुंसकानि ।
तृतीये पञ्चधा प्ररोहति ।
तद्यथा सक्थिनी बाहू शिरश्च ।
सक्थ्यादिप्ररोहैककालमेव च सर्वमङ्गावयवेन्द्रियाणि युगपत्सम्भवन्त्यन्यत्र जन्मोत्तरकालजेभ्यो दन्तादिभ्यः ।
क्रमेण तु स्फुटीभवन्ति ।
एषा प्रकृतिः ।
विकृतिरतो ऽन्यथा ॥
यथास्वं च गर्भस्य पुंस्त्रीनपुंसकान्यतमलिङ्गानुरूपा भावा मनसि शरीरे च सन्तिष्ठन्ते ।
वैशेषिकलिङ्गसङ्करे तु यतो भूयस्त्वं ततो ऽन्तरा भावाः ॥
तद्यथा ।
क्लैब्यं भीरुत्वमवैशारद्यं मोहो ऽनवस्थानमधोगुरुत्वमसंहननं शैथिल्यं मार्दवं गर्भाशयबीजभागस्तथायुक्ताश्चापरे स्त्रीकरा भावाः ।
ततो विपरीताः पुंस्कराः सङ्कीर्णा नपुंसकराः ॥
तदा चास्य वेदना प्रव्यक्ता भवति ।
ततश्च तत्प्रभृति स्पन्दते ऽभिलाषं पञ्चेन्द्रियार्थेषु करोति ॥
मातृजं ह्यस्य हृदयं तद्रसहारिणीभिर्धर्मनीभिर्मातृहृदयेनाभिसम्बद्धं भवति ।
तस्मात्तयोस्ताभिः श्रद्धा सम्पद्यते ।
तथा च द्विहृदयां नारीं दौहृदिनीत्याचक्षते ।
अन्ये तु पक्षत्रयात् प्रभृत्यापञ्चमान्मासाद्दौहृदकालमाहुः ॥
प्रार्थनायां च तीव्रायां काममहितमप्यस्यै हितोपसंहितं दद्यात् ।
दौहृदविमाननाद्धि वायुः प्रकुपितो ऽन्तश्शरीरमनुचरन् गर्भस्य विनाशं वैरूप्यं वा कुर्यात् ।
लब्धदौहृदा तु वीर्यवन्तं चिरायुषं च पुत्रं प्रसूते ॥
चतुर्थे ऽङ्गप्रत्यङ्गविभागः प्रव्यक्तो गर्भश्च स्थिरो भवति ।
पञ्चमे मनः प्रतिबुद्धतरं भवति मांसशोणितोपचयश्च षष्ठे केशरोमनखास्थिस्नाय्वादीन्यभिव्यक्तानि बलवर्णोपचयश्च ।
सप्तमे सर्वाङ्गसम्पूर्णता ॥
अष्टमे गर्भश्च मातृतो गर्भतश्च माता रसहारिणीभिर्वाहिनीभिर्मुहर्मुहुरोजः परस्परमाददाते तस्मात्तदा गर्भिणी मुहुर्मुदिता भवति मुहुर्ग्लाना तथा गर्भः ।
एवं गर्भस्य जन्म व्यापत्तिमत्तदा भवति ओजसो ऽनवस्थितत्वात् ।
तथा ह्यस्य निष्क्रमणोन्मुखस्य परिवर्तनादीन्यनुभवत एवौजसा वियोगः ।
यद्यपि च किञ्चित्कालमस्योच्छ्वसनं स्यात्तच्छिन्नस्येवाङ्गस्यौजस्संस्कारानुवृत्तिकृतम् ।
जनन्यास्तु स्थिरौजस्कतयैकदेशेन रसे सङ्क्रान्ते ग्लानिरेवेति ॥
अन्ये पुनराहुः ।
नैरृतभागत्वात्तत्र गर्भस्य मरणम् ।
तस्मात् प्रसवप्रतिषेधार्थं स्त्री स्नाता शुचिर्ब्रह्मचारिणी देवताराधनपरा स्यात् ।
मांसौदनबालिं चात्र निर्वपेत् ।
तस्मिन्नेकदिवसातिक्रान्ते ऽपि प्रसवकालमाहुरासंवत्सरात् ।
अतः परं विकारी भवति ॥
गर्भस्तु मातुः पृष्ठाभिमुखो ललाटे कृताञ्जलिः सङ्कुचिताङ्गो गर्भष्ठे दक्षिणपार्श्वमाश्रित्यावतिष्ठते पुमान् ।
वामं स्त्री मध्यं नपुंसकम् ।
तत्र स्थितश्च गर्भो मातरि स्वपन्त्यां प्रबुद्धायां प्रबुध्यते ।
परतन्त्रवृत्तेश्च गर्भस्य ।
निषेकात् प्रभृति गर्भाशयोपस्नेहोपस्वेदौ वर्तनम् ॥
ततो व्यक्तीभवदङ्गप्रत्यङ्गस्यास्य नाभ्यां प्रतिबद्धानाडी नाड्यामपरा तस्यां मातृहृदयम् ।
ततो मातृहृदयादाहाररसो धमनीभिः स्यन्दमानो ऽपरामुपैति ।
ततः क्रमान्नाभिम् ।
ततश्च स पुनर्गर्भस्य पक्वाशये स्वकायाग्निना पच्यमानः प्रसादबाहुल्याद्धात्वादिपुष्टिकरः सम्पद्यते तथारोमकूपैरुपस्नेहो रस एव च पयोभूतः ॥
अजातस्य साक्षादन्नपानाननुप्रवेशादमलत्वाच्च रसस्य गर्भस्य स्थूलमलासम्भवः एवं जठरस्थो गर्भो जन्मकाले तु प्रसूतिमारुतयोगात् परिवृत्यावाक्शिरा निष्क्रामत्यनु चापरा च्युता मातृहृदयात् ।
एषा प्रकृतिः ।
विकृतिरतो ऽन्यथा ॥
तत्र या दक्षिणं पादं पूर्वमभिसरति दक्षिणश्च बाहुर्बलवांस्तेन चेष्टते तत्स्तने च प्राक् पयो दृश्यते अभ्युन्नतदक्षिणकुक्षिः परिमण्डलगर्भा पुन्नामदर्शनस्पर्शनप्रश्नदौहृदाभिरता पुन्नामधेयांश्च स्वप्नान् पश्यति प्रसन्नमुखवर्णा तीक्ष्णक्षुदूर्ध्वरोमराजिः पुरुषानभिलाषिणी च सा पुत्रं प्रसूते तद्विपर्यये कन्यां सङ्करे च नपुंसकम् ।
प्रश्नकाले नारी यल्लिङ्गमङ्गं बाह्यद्रव्यं वा परामृशति तल्लिङ्गमस्या गर्भमादिशेत् ॥
यदा तून्मार्गगो वातो गर्भस्य रसवाहीनि स्रोतांसि शोषयति तदा वातरोगी हीनाङ्गो वा जायते ।
बहूनि वा वर्षाण्युदरे तिष्ठति ॥
यदा स्त्रीपुंसयोः सममेवार्थो निष्पद्यते ।
बीजं वा तयोः समांशं संमुखं च ।
यदा च बीजं भागे दुष्यति तदा द्विप्रकृतिर्द्विरेता नपुंसकं भवति ॥
यदा स्त्री प्रथमं कृतार्था भवति ततः पुरुषेण पश्चाच्छुक्रमुत्सृष्टं हर्षानवस्थितचेतसः स्त्रिया वातो विगुणीकरोति पुंस्त्ववाहीनि स्रोतांसि चोपहन्ति तदा वातेन्द्रियं भवति ।
तन्मैथुने वातमेवोत्सृजति ॥
यदा तु कार्त्स्न्येन नोपहन्ति अनुपघ्नन्नेव वा स्रोतोमुखं पिधत्ते तदा संस्कारवाह्यं भवति ।
तत्र संस्कारो वाजीकरा बस्तयो ऽभ्यवहारश्चेतोहर्षणानि च ।
तानि हि शुक्रे बलमादधानानि स्रोतांस्यस्याप्याययन्तीति ॥
यदाल्पबीजो ऽल्पबलः पुमानुद्वेगः स्त्रीद्वेषयुक्तो ऽन्यकामो वा नार्या व्यवायप्रतिघातं करोति तद्विधा वा नारी पुंसः ।
तदाआसेक्यं नाम भवति ।
तच्शुक्रास्वादाद्ध्वजोच्छ्रायं लभते ॥
यदा पुनरुभावपि भवतः स्त्रीपुंसौ तद्विधौ तदा वक्रध्वजो भवति ।
तस्य नैव ध्वजः स्तभ्यते ॥
यदा पूतियोन्याः स्त्रिया गर्भो भवति सौगन्धिकाख्यः स योनिध्वजगन्धेन बलं लभते ॥
यदा त्वीर्ष्याभिभूतौ मन्दहर्षौ संसृज्येते तदेर्ष्यारतिसंज्ञम् ।
तस्य परं मिथुनीभूतं दृष्ट्वा मैथुनप्रवृत्तिर्भवति ॥
यदा पुरुषस्य गर्भस्य वाय्वग्निदोषाद् वृषणनाशस्तदा वातषण्डकाख्यं भवति ।
एताः कर्मवैचित्र्यादष्टौ षण्डयोनयो ऽसङ्कीर्णाः कथिताः ॥
यदा तु स्त्रियाः शोणितगर्भाशयौ दोषाः किञ्चित् प्रदूषयन्ति तदा यो गर्भो भवति तस्य गर्भस्य यस्य यस्य मातृजस्यावयवस्य बीजे बीजांशे वा दोषः प्रकोपमापद्यते तं तमवयवं विकृतिराविशति ॥
यदा ह्यस्याः शोणिताख्ये बीजे गर्भाशयस्थे निर्वर्तकं बीजं प्रदुष्यति तदा वन्ध्यां जनयति ।
यदा तस्यावयवस्तदा पूतिप्रजाम् ।
तस्या जातं जातं म्रियते ॥
यदा पुनः सो ऽवयवः स्त्रीकराणां च शरीरसंश्रयाणामधोगुरुत्वादीनां निर्वर्तका ये बीजांशास्तेषामेकदेशः ।
तदा स्त्र्याकृतिप्रायामस्त्रियं वार्तां नाम जनयति ।
तां स्त्रीव्यापदमाचक्षते ॥
एवमेव पुंसो यदा शुक्राख्ये बीजे बीजं प्रदुष्यतीत्यादि योजयेद्वन्ध्यं पूतिप्रजं तथा पुरुषाकृतिप्रायमपुरुषं तृणमुखिनं नाम जनयतीत्येतेन मातृजानां पितृजानां चावयवानां विकृतिर्व्याख्याता ॥
अनेन सात्म्यजानां रसजानां सत्त्वजानां चावयवानां विकृतिर्व्याख्याता भवति ।
यस्य यस्याङ्गावयवस्य बीजे बीजांशे वा उपतप्तिर्भवति तस्य तस्याङ्गावयवस्य विकृतिरुपजायते ।
नोपजायते ऽनुतापात् ॥
यदा च लब्धगर्भा ऽन्वक्षमेव वातलान्यासेवते तदास्या वायुः प्रकुपितः शरीरमनुसर्पन् गर्भाशये ऽवतिष्ठमानो गर्भस्य जडबधिरमूकमिन्मिणगद्गदखञ्जकुब्जवामनहीनाङ्गाधिकाङ्गत्वान्यन्यं वा वातविकारं करोति ।
तथा वायुवत् पित्तमपि खलतिपलितश्मश्रुहीनतात्वङ्नखकेशपैङ्गल्यादीनि ।
श्लेष्मा तु कुष्ठकिलाससदन्तत्त्वादीनि ।
त्रिवर्गो मिश्रान्विकारान् ॥
अपि च दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धत्वम् ।
तदेव वातानुगतं विकृतरूक्षारुणाक्षम् ।
पित्तानुगतं पिङ्गाक्षम् ।
श्लेष्मानुगतं शुक्लाक्षम् ।
रक्तानुगतं रक्ताक्षमिति ॥
गर्भसमानयोगक्षेमा हि गर्भिणी भवति ।
तस्माद्विशेषतस्तां प्रियहिताभ्यां गर्भोपधातकरेभ्यो रक्षेत् यथा यथा च गर्भो वृद्धिमाप्नोति तथा तथा भाराहारानादानादाहाररसापहाराच्च स्त्रिया बलक्षयः ।
तत्रेमे गर्भोपघातकराः ।
तद्यथा व्यवायव्यायामकर्शनाभिघातातिमात्रसङ्क्षोभियानयानरात्रिजागरणदिवास्वप्नवेगविधारणाजीर्णातपाग्निकोधशोकभयोत्त्रासोपवासोत्कटकविषमकठिनासनश्वभ्रकूपप्रपाताप्रियावलोकनश्रवणादयः ।
समासतः सर्वमतिगुरूष्णतीक्ष्णरूक्षमन्नपानं दारुणाश्च चेष्टाः ॥
तथा देवतारक्षो ऽनुपचयपरिरक्षणार्थं न रक्तानि वासासि धारयेन्न यानमधिरोहेन्न मद्यमांसमश्नीयात् ।
यच्चान्यदपि वृद्धस्त्रियो ब्रूयुः ।
प्रततोत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्ट्य व्यापत्तिं करोति ।
विवृतशया नक्तचारिणी चोन्मत्तं जनयति ।
कलहशीलापस्मारिणम् ।
व्यवायशीला दुर्वपुषमह्रीकं स्त्रैणं वा ।
शोकनित्या भीरुमपचितमल्पायुषं वा ।
अभिध्यायिनी परोपतापिनमीर्ष्यालुं स्त्रैणं वा ।
स्तेना त्वायासबहुलमभिद्रोहिणमकर्मशीलं वा ।
अमर्षणा चण्डमौपधिकं वा ।
स्वप्नशीला निद्रालुमबुधमल्पाग्निं वा ।
मद्यनित्या तृष्णालुमल्पस्मृतिमनवस्थितं वा ।
गोधामांसनित्याश्मरिणं शनैर्मेहिनं वा ।
बराहमांसनित्या रक्ताक्षं क्रथनमतिपरुषरोमाणं वा ।
मत्स्यमांसनित्या चिरनिमेषं स्तब्धाक्षं वा ।
मधुरनित्या प्रमेहिणं मूकमतिस्थूलं वा ।
अम्लनित्या रक्तपित्तिनं त्वगक्षिरोगिणं वा ।
लवणनित्या शीघ्रवलीपलितं खलतिकं वा ।
तिक्तनित्या शोषिणमबलमपचितं वा ।
कटुकनित्या दुर्बलमल्पशुक्रमनपत्यं वा ।
कषायनित्या श्याममानाहिनमुदावर्तिनं वा ।
यच्च यच्च यस्य व्याधेर्निदानं तत्तदासेवमानान्तर्वत्नी स्त्री तत्तद्विकारबहुलमपत्यं जनयति ।
एतेन पितृजा अपि शुक्रदोषा व्याख्याताः ॥
तस्मात् प्रजासम्पदमिच्छन्तौ साध्वात्मान्नसुपाचरेताम् ।
विशेषेण नारी ।
व्याधींश्चास्या मृदुमधुरशिशिरसुखैरौषधाहारविहारैरुपाचरेत् ।
न चास्या वमनादीनि प्रयोजयेत् ।
न रक्तावसेचनम् ।
केवलं त्वष्टममासमुपादायास्थापामनुवासनं वा ।
वमनादिसाध्येषु पुनर्विकारेषु मृदुभिस्तदर्थकारिभिर्वोपक्रमेत् पूर्णमिव तैलपात्रमसंक्षोभयद्गर्भिणीमुपाचरेदिति ।
भवन्ति चात्र ॥
इत्यनात्ययिके व्याधौ विधिरात्यीयके पुनः ।
तीक्ष्णैरपि क्रियायोगैः स्त्रियं यत्नेन पालयेत् ॥
स्त्री हि मूलमपत्यानां स्त्री हि रक्षति रक्षिता ।
सर्वाश्रमाणां प्रथमं गृहस्थत्वमनिन्दितम् ॥
जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते ।
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0