भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 2.1

2.1.1

अथातः पुत्रकामीयमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

2.1.2

अथ खलु पुमानेकविंशतिवर्षः कन्यामतुल्यगोत्रां तुल्याभिजनामसञ्चारिरोगकुलप्रसूतं रूपशीललक्षणसम्पन्नामनूनाविनष्टदन्तौष्ठकर्णनासानखकेशस्तनीं मृदुमरोगप्रकृतिमकपिलमपिङ्गलामहीनाधिकाङ्गीं द्वादशवर्षदेशीयाममरभुजगसरिदचलवृक्षपक्षिनक्षत्रान्त्यप्रेष्यभीषणकनामान्यनुद्वहन्तीमनघामनिन्द्यामनिन्द्येन विधिनोद्वहेत् ॥

2.1.3

तस्यां षोडशवर्षायां पञ्चविंशतिवर्षः पुरुषः पुत्रार्थं प्रयतेत ।
तदा हि तौ प्राप्तवीर्यौ वीर्यान्वितमपत्यं जनयतः ।
ऊनपञ्चविंशतिवर्षेणोनषोडशवर्षायामाहितो गर्भः कुक्षिस्थ एव विनाशमाप्नुयादल्पायुर्बलारोग्यविभवो वा स्याद्विकलेन्द्रियो वा ।
ऋतावाद्ये च रात्रित्रये तथा दुष्टे शुक्रार्तव इति ॥

2.1.4

तत्राहारस्य सम्यक्परिणतस्य क्रमान्मज्जानमनुप्राप्तस्य सारः शुक्रसंज्ञां लभते ।
तत्तु क्षीर इव सर्पिरिक्षुरस इव गुडः शरीरे शुक्रधरां कलामाश्रित्यास्रुतं सर्वाङ्गव्यापितया स्थितम् ।
विशेषतश्च मज्जमुष्कस्तनेषु ।
हर्षोदीरितं तु संघट्टनेन हृदयावेशात् पिण्डीभूतमङ्गादङ्गात् प्रवर्तते ।
तत् सौम्यं स्निग्धं गुरु शुक्लं मधुगन्धि मधुरं पिच्छिलं बहु बहलं घृततैलक्षौद्रान्यतमवर्णं च शुक्रं गर्भाधानयोग्यं भवति ॥

2.1.5

तथा रक्तमेव च स्त्रीणां मासे मासे गर्भकोष्ठमनुप्राप्य त्र्यहं प्रवर्तमानमार्तवमित्याहुः ।
अतिप्रसङ्गेनानृतावृतौ वा तदेवासृग्दरं प्रदरं व्यापदं च रक्तयोनिसंज्ञां लभते ।
तत्साधने रक्तपित्तचिकित्सितं गुह्यरोगप्रतिषेधं चेक्षेत ॥

2.1.6

वातकफावृतमार्गाणां चाप्रवर्तमानं पित्तलैरुपाचरेत् ।
तद्धि वर्द्धमानमन्तर्वर्तमानं सशुक्रमशुक्रं वा जीवरहितं वातलान्यासेवमानाया योषितो गर्भलिङ्गानि दर्शयद् गुल्मीभवति ।
तत्र गुल्मचिकित्सितमीक्षेत ॥

2.1.7

कदाचिद्वा गर्भ इव वातोदरं भवति तद्वातोपशमनैरुपशाम्यति ॥

2.1.8

तदेव कदाचिदार्तवं सौम्यैर्बृंहणात्मभिराहारविहारैः स्तम्भितमनुपद्रवमेवोदरं गर्भाधिष्ठितमिव वर्धयति ।
येन तामगर्भां गर्भिणीमाहुर्मूढाः ।
ततो विपरीतैर्यदृच्छया वा प्रवृत्ते रक्ते गर्भशरीरमपश्यन्तो भूतहृतमित्यज्ञा व्रुवते ।
यस्मात्सम्भवत्योजसो ऽपहरणं रक्षोभिर्न तु शरीरापहरणमनिष्टत्वादशक्तेर्वा ।
इच्छाशक्त्योर्हि प्रवृत्तेरुपलब्धिः ।
न च दृश्यते कस्यचिदमानुषैर्देहापहारः ॥

2.1.9

यदि च दृष्टमपि समुल्लङ्घ्य केचिदतिशक्तियुक्ता गर्भस्य शरीराक्षेपे प्रवर्तन्ते तदा कथमिव प्राप्तावसरास्तज्जननीमुपेक्षेरन् ॥

2.1.10

आर्तवं पुनश्शशरुधिरलाक्षारसोपमं धौतं च विरज्यमानं शुद्धमाहुः ॥

2.1.11

यथा च बालस्य जीर्णस्य वा तरोः पुष्पफलं पुष्पफलस्य वा तद्विधस्य गन्धो नोपलभ्यते तथैव नोनषोडशातीतसप्तीतवर्षस्य पुंसः शुक्ररोमादयो योषितश्चोनद्वादशातीतपञ्चाशद्वर्षाया रजस्तन्यादय इति ॥

2.1.12

अथ शुद्धशुक्रार्तवमरोगं मिथो ऽनुरक्तं मिथुनमुपस्नेह्य विधिवत् संशोध्यास्थापनानुवासनाभ्यामुपाचरेत् ।
विशेषतस्तु घृतक्षीरवद्भिर्मधुरौषधसंस्कारैः पुरुषम् ।
तैलेन नारीं पित्तलैश्च मांसैः ।
एवं हि समानगुणतया शुक्रार्तवमाप्यायते ॥

2.1.13

वातपित्तश्लेष्मकुणपगन्धिग्रन्थिपूयक्षीणमूत्रपुरीषरेतांसि त्वबीजानि भवन्ति ।
तत्र तनु रूक्षं फेनिलमरुणमल्पं विच्छिन्नं सरुजं चिराच्च निषिच्येत वातेन किञ्चित्पीतमपिच्छिलमानीलं वा दहदिव प्रवर्तते पित्तेन ।
मज्जोपसंसृष्टं प्रभूतं विबद्धं चाम्भसि च किञ्चिन्मज्जति श्लेष्मणा ।
कुणपगन्ध्यनल्पं रक्तेन ।
ग्रन्थिभूतं वातश्लेष्मभ्याम् ।
पूतिपूयनिभं पित्तश्लेष्मभ्याम् ।
क्षीणं वातपित्ताभ्याम् ।
तदुक्तं ससाधनं प्राक् ।
मूत्रपुरीषगन्धि सन्निपातेन ॥

2.1.14

आर्तवमपि शुक्रवद्दोषैरुपसृष्टमबीजमेव ।
तस्य लिङ्गं नाम च पूर्ववत् ।
तेषु कुणपग्रन्थिपूयक्षीणरेतांसि कृच्छ्रसाध्यानि ।
मूत्रपुरीषशुक्रातवं त्वसाध्यं कुणपग्रन्थिपूयार्तवं च ।
तत्राद्यांस्त्रीन् शुक्रार्तवदोषान्यथास्वं दोषसाधनेन साधयेत् ।
गुह्ययोनिरोगप्रतिषेधेन चोभयान् ॥

2.1.15

अपि च वातिके शुक्रदोषे वसुकसैन्धवफलाम्लसिद्धं यवक्षारप्रतीवापं सर्पिष्पानम् ।
बिल्वविदारीसिद्धं क्षीरयुक्तमास्थापनम् ।
मधुकभद्रदारुसिद्धं तैलमनुवासनम् ।
क्षीरकुलीररससिद्धं तैलमुत्तरबस्तिः ।
पैत्तिके काण्डेक्षुश्वदंष्ट्रागुडूचीसिद्धं मूर्वामधूकप्रतीवापं सर्पिष्पानम् ।
त्रिवृच्चूर्णः सघृतो विरेकः ।
पयस्याश्रीपर्णीसिद्धं क्षीरयुक्तमास्थापनम् ।
मधुकमुद्गपर्णीसिद्धं तैलमनुवासनमुत्तरबस्तिश्च ।
श्लैष्मिके पाषाणभेदाश्मन्तकामलकक्वाथसिद्धं पिप्पलीमधुकचूर्णप्रतीवापं सर्पिष्पानम् ।
मदनफलकषायो वमनम् ।
दन्तीविडङ्गचूर्णस्तैललीढो विरेकः ।
राजवृक्षमदनफलकषायप्रगाढमास्थापनम् ।
मधुकपिप्पलीसिद्धं तैलमनुवासनमुत्तरबस्तिश्च ॥

2.1.16

वातजे पुष्पदोषे भार्ङ्गीमधुकभद्रदारुसिद्धं सर्पिष्पानम् ।
काश्मर्यक्षुद्रसहासिद्धं वा क्षीरम् ।
मधुकसृगालविन्नाकल्कं पयस्सर्पिस्सहितं प्रियङ्गुतिलकल्कं वा योनौ धारयेत् ।
सरलमुद्गपर्णीकषायः प्रक्षालनम् ।
पित्तजे काकोलीद्वयविदारीमूलक्वाथमुत्पलपद्मकक्वाथं मधूकपुष्पकाश्मर्यफलक्वाथं वा सशर्करं पिबेत् ।
श्वेतचन्दक्वाथं वा सक्षौद्रम् ।
धवधातकीकल्कं वा घृतेन वा मधुकमधुरसामृद्वीकाकल्कम् ।
शम्याकगवाक्षीक्षीरं विरेकः ।
चन्दनपयस्याकल्कं योनौ धारयेत् ।
गौरिकारिष्टकषायः प्रक्षालनम् ।
श्लैष्मिके कुटजकटुकाश्वगन्धाक्वाथं पिबेत् ।
समाक्षिकं वा क्षीरिवृक्षप्रवालक्वाथमेतेषामेव वा चूर्णं मधुघृताभ्यां लिह्यात् ।
मदनफलकषायेण वमनम् ।
तत्कल्कमेव च योनौ धारयेत् ।
लोध्रतिन्दुककषायः प्रक्षालनं बस्तमेषमूत्रं वा ॥

2.1.17

कुणपरेतसि धातकीपुष्पखदिरार्जुनदाडिमैः सिद्धमसनादिभिर्वा सर्पिः पाययेत् ।
ग्रन्थिरेतसि पाषाणाभिदा पलाशभस्मना वा ।
पूयरेतसि परूषकादिन्यग्रोधादिभ्याम् ।
मूत्रपुरीषरेतसि वायुनातिविकृते हिङ्गूशीरचित्रकैरथवा चित्रकवितुन्नकप्रियङ्गुहिङ्गुसमङ्गामृणालसिद्धमेलामोचचूर्णप्रतीवापम् ।
तथा ग्रन्थ्यार्तवे पाठात्रिकण्टकवृक्षकक्वाथम् ।
कुणपपूयार्तवे चन्दनक्वाथं पिबेत् ।
त्रिफलाकल्कक्वाथौ चात्र धारणाचमने ॥

2.1.18

सर्वेषु च शुक्रार्तवदोषेषु स्त्रीपुंसौ स्नेहादिकर्मभिर्विशेषेण चोत्तरबस्तिभिः पुनः पुनरुपाचरेत् ।
यथास्वं च योनौ कल्कैः पिचुभिश्च ।
इत्येवं विशुद्धशुक्रार्तवौ पूर्वोक्तं विधिमासेवेवाम् ॥

2.1.19

ऋतुस्तु दृष्टार्तवो द्वादशरात्रं भवति ।
षोडशरात्रमित्यन्ये ।
शुद्धयोनिगर्भाशयार्तवाया मासमपि केचित् ।
तद्वददृष्टार्तवो ऽप्यस्तीत्यपरे ॥

2.1.20

क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम् ।
स्रास्ताक्षिकुक्षिं पुंस्कामां विद्यादृतुमतीं स्त्रियम् ॥

2.1.21

पद्मं संकोचमायाति दिने ऽतीते यथा तथा ।
ऋतावतीते योनिःस्याच्छुक्रंनातः प्रतीच्छति ॥

2.1.22

मसेनोपचितं रक्तं धमनीभ्यामृतौ पुनः ।
ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत् ॥

2.1.23

ततः पुष्पदर्शने प्रथमदिवसात् प्रभृति ब्रह्मचारिणी स्नानाद्यलङ्काररहिता दर्भसंस्तरशायिनी त्रिरात्रमासीत ।
पर्णशरावकरतलान्यतमेन यावकं पयसा सिद्धमल्पं कर्शनार्थमश्नीयात् ।
तीक्ष्णोष्णाम्ललवणानि च वर्जयेत् ॥

2.1.24

चतुर्थे ऽहन्युद्वर्तिता शीतसलिलस्नातानुलिप्तालङ्कृताशुक्लमाल्याम्बरा कृतमङ्गलस्वस्त्ययनैवंविधमेव भर्तारं पश्येदनन्यमनाः ।
तदा हि यादृशमेव पश्यति चिन्तयति वा तादृशं प्रसूत इति ॥

2.1.25

ततः स्नानात् पुनरपि गुणवत्पुत्रार्थी त्रिरात्रमुपेक्षेत ।
पुष्पदर्शनात् सप्तरात्रम् ।
अथाष्टम्यां दशम्यां द्वादश्यां वा रात्रौ पुत्रकामः संवसेत् ।
पच्चम्यां सप्तम्यां नवम्यां वा दुहितृकामः ।
तासूत्तरोत्तरमायुरारोग्यैश्वर्यसौभाग्यबलवर्णेन्द्रियसम्पदपत्यस्य भवति ।
अतः परं तूत्तरोत्तरमेवायुरादीनां ह्रासः ॥

2.1.26

तत्र युग्मासु रात्रिष्वल्पीभवत्यार्तवमयुग्मास्वाप्याय्यते ।
तस्मात्तासु क्रमात् पुत्रस्य दुहितुश्च जन्म ।
अत एव चानुपरतार्तवदर्शनां पुत्रार्थी विप्रकृष्टेष्वप्यहस्सु नोपेयात् ।
यदि त्वाहारानुरोधादयुग्मासु शुक्रस्याधिकता युग्मासु च न्यूनता स्यात्ततः पुमान् स्त्र्याकृतिर्दुर्बलो हीनाङ्गो वा जायते ।
स्त्री च पुरुषाकृतिर्दुर्बला हीनाङ्गा वा ।
एकादशीत्रयोदश्योस्तु नपुंसकं स्यात् ॥

2.1.27

अथोपाध्यायः पुत्रीयं विधानमाचरेत् ।
शूद्रायास्तु मन्त्रवर्जितम् ।
यादृशं च पुत्रमाशासीत तद्रूपवर्णचरितान् जनपदाननुचिन्तयेति स्त्री वाच्या ।
तज्जनपदाहारविहारोपचारपरिच्छदांश्चानुविदघीत ॥

2.1.28

कर्मान्ते च पुमान् मासं ब्रह्मचारी सर्पिः क्षीराभ्या शाल्योदनमभिप्राश्य नात्याशितः सुखी स्रग्वी सुमनाः प्रीणिताङ्गः शुक्लनिवसनो मौहूर्तिकानुमते रात्रिभागे कल्याणानि चिन्तयानस्तदभिकामः स्वास्तीर्णं शयनं दक्षिणेन पादेन प्रागारोहेत् ।
ताद्विधैव च प्रमदा कर्णिताङ्गी तैलमाषोत्तराहारा पूर्वं वामपादेन पुरुषस्य दक्षिणतः शय्यामधिरोहेत् ।
तत्र मन्त्रं प्रयुञ्जीत ।
आयुरसि सर्वतः प्रतिष्ठासि धाता त्वा दधातु विधाता त्वा दधातु ब्रह्मवर्चसा भवेति ।
ब्रह्माबृहस्पतिर्विष्णुस्सोमस्सूर्यस्तथाश्विनौ ।
भगो ऽथ मित्रावरुणौ वीरं दधतु मे सुतमिति ॥

2.1.29

ततः परस्परं सामभिरभिसान्त्व्य सहर्षमनुकूलं संविशेताम् ।
पर्याप्ते चैनां शीतोदकेन सहसा परिषिञ्चेत् ॥

2.1.30

तत्रात्याशिता क्षुधिता पिपासिता भीता विमनाः शोकार्ता क्रुद्धातिमेदुरान्यकामा ऽव्यवायकामा वा न गर्भं धत्ते विगुणं वा ।
तथा पुरुषो ऽपि ।
न चासौअधस्तिष्ठेत् ।
तथा हि स्त्रीचेष्टः पुमान् जायते पुंश्चेष्टा वा स्त्री ।
न च न्युब्जां पार्श्वगतां वा सेवेत ।
न्युब्जाया वातो बलवान् स योनिं पीडयति ।
दक्षिणपार्श्वगतायाः श्लेष्मा पीडितश्च्युतः पिदधाति गर्भाशयम् ।
वामपार्श्वगतायास्तद्वत् पित्तं विदहति रक्तशुक्रे ।
तस्मादुत्ताना बीजं गृह्णीयात् ।
तथा हि यथास्थानमेव तिष्ठन्ति दोषाः ॥

2.1.31

लब्धगर्भां चैनां विदित्वा प्राग्व्यक्तीभावाद्गर्भस्य पुष्ये पुंसवनानि प्रयुञ्जीत ।
द्वादशरात्रमित्यन्ये ।
तत्रापि युग्मदिनेष्विति केचित् ।
प्रत्यहमित्यपरे ॥

2.1.32

तद्यथा ।
लक्ष्मणावटशृङ्गसहदेवाविश्वदेवानामन्यतमं क्षीरे ऽभिषुत्य त्रींश्चतुरो वा बिन्दून् दक्षिणे नासापुटे स्वयमासिञ्चेत् पिचुना ।
वामे तु दुहितृकामा ।
न चैतान् निष्ठीवेत् ।
तथा पुष्योद्घृतायाः श्वेतबृहत्या ।
मूलकल्काद्रसं नावयेत् ।
तद्वच्चोत्पलपत्रं कुमुदपत्र लक्ष्मणामूलं वटशृङ्गानि चाष्टौ च नावयेत् ॥

2.1.33

शुक्लमाल्याम्बरधरा च नारी पुष्योद्धृताया लक्ष्मणाया मूलकल्कमुदुम्बरमात्रं पयसा पिबेत् पुत्रस्योत्पादनाय स्थितये च ।
तद्वद्गौरदण्डमपामार्गं जीवकर्षभकौ शङ्खषुष्पीमध्यदण्डां सहचरं नग्नजितमग्निजिव्यामष्टौ वा वटशृङ्गानि शालिपिष्टस्य च पच्यमानस्योष्माणमाघ्राय तद्रसं देहल्यां स्थिता पूर्ववन्नावयेत् ॥

2.1.34

यच्चान्यदपि ब्राह्मणा वृद्धस्त्रियो वा ब्रूयुस्तच्च कुर्यात् ।
ततः प्रजास्थापनाख्या दशौषधीः शिरसा दक्षिणेन च पाणिना धारयेत् ।
एताभिश्च सिद्धं पयो घृतं वा पिबेत् ।
एताभिरेव पुष्ये पुष्ये स्नायात् सदा च समालभेत ।
तथा सर्वासां जीवनीयानामौषधीनां सदोपयोगस्तैस्तैर्विधानैरिति गर्भस्थापनानि ॥

2.1.35

सौम्याकृतिवचनोपचारचेष्टाश्च प्रियहितानुवर्तिनः परिचारकास्तथा भर्तेति ।
पुनश्चैनां मासादुपेयात् ॥

2.1.36

तत्र शुक्रे शुक्ले घृतमण्डाभे वा गर्भस्य गौरत्वं तैलाभे कृष्णत्वं मध्वाभे श्यामत्वम् ।
तथा क्षीरादिमधुराणामुपयोगान्मातुरुदकविहाराच्च गौरता तिलान्नविदाहिना कृष्णता ।
व्यामिश्राणां श्यामता ।
देशकुलानुवृत्तितश्च वर्णभेदः ॥

2.1.37

तथा तेजोधातोरुदकाकाशधातुसम्पर्काद्गौरता ।
भूवायुसम्पर्कात् कृष्णता ।
सर्वधातुसाम्ये श्यामता ॥

2.1.38

सत्वविशेषकराणि पुनर्मातापितृसत्वादयो ऽन्तर्वत्न्याः श्रुतयश्चाभीक्ष्णं स्वोपचितं च कर्म भवति ।
पूर्वाभ्यासश्चेति ॥

2.1.39

भवन्ति चात्र ।
घृतक्षीरादिनित्यासु मुदितासु कफात्मसु ।
आर्तवं तिष्ठत्ति चिरं विपरीतास्वतो ऽन्यथा ॥

2.1.40

निपातादेव गृह्णाति रागं वासो यथा ऽमलम् ।
ध्रुवं गर्भं तथा बीजं क्षेत्रं बीजमुपस्कृतम् ॥

2.1.41

अविरुद्धे ध्रुवं दैवे काले युक्तस्य कर्मणः ।
सिद्धिः पुंसवनाद्यस्मात् पूर्वं व्यक्तेः प्रयोजयेत् ॥

2.1.42

जाताश्चैवं रूपवन्तो मासत्त्वाश्चिरायुषः ।
ऋणान्मोचयितारः स्युः सुपुत्राः पुत्रिणां मताः ॥

2.1.43

देवताचारशौचादिरता सूते महागुणम् ।
धावत्येवं चाचरितं प्राग्जन्माभ्यासयोगतः ॥

2.1.44

योषितो ऽपि स्रवत्येव शुक्रं पुंसः समागमे ।
गर्भस्य तन्न किञ्चित्तु करोतीति न चिन्त्यते ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc