अष्टाङ्गसंग्रह · अध्याय 2.11
अथातो विकृतव्याधिविज्ञानीयमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
सर्वैर्यथास्वं हेतुप्राग्रूपरूपैरतिमात्रैर्यस्य व्याधिरुत्पद्यते ।
व्याधितस्य वा यस्याशु मुखे पिप्लुव्यङ्गलेखातिलकालकाः ।
करजरदनेषु वा पुष्पाण्युदरे वा नानावर्णाः सिराः ।
यस्य शुष्यतो नेत्रोपदेहो वर्त्मनासिकान्यतरश्वयथुर्वर्त्मस्रंसो वा ।
यस्य क्षीणस्य क्षुत्तृष्णा वा हृद्यैर्बहुभिरप्यन्नपानैर्न शाम्यति ।
यस्य सफेनमसृक् प्रसिच्यते ।
कुक्षिशूलं च ।
उरसो वा ।
यस्य श्लेष्मा नीलपीतलोहितो बहुशश्च ।
यस्य बलवान् ग्रीवावमर्दो जिह्वाशोषः कण्ठास्यगुदपाकश्च ।
यस्यामाशयोत्था परिकर्तिकातितृष्णा शकृद्भेदश्च ।
यस्य पक्वाशयोत्था परिकर्तिकातितृष्णातिमात्रश्च गुदग्रहः ।
यस्यामपक्वाशयान्यतरमाश्रित्य संज्ञां च हत्वा वायुः कण्ठे घुर्घुरकं करोति ।
यस्य क्षीणस्य तृष्णाभिवृद्धिर्हृदि शूलं च ।
तथा हिध्मारक्तातिसारौ वाध्मानातीसारौ वा भृशं सतृष्णौ ।
सपरासुरिति भवति चात्र ॥
ज्वरो निहन्ति बलवान् गम्भीरो दैर्घरात्रिकः ।
सप्रलापभ्रमश्वासः क्षीणं शूनं हतानलम् ॥
अक्षामं सक्तवचनं रक्ताक्षं हृदि शूलिनम् ।
सशुष्ककासःपूर्वाह्णे यो ऽपराह्णे ऽपि वा भवेत् ॥
बलमांसविहीनस्य श्लेष्मकाससमन्वितः ।
रक्तपित्तं भृशं रक्तं कृष्णमिन्द्रधनुष्प्रभम् ॥
ताम्रहारिद्रहरितं रूपं रक्तं प्रदर्शयेत् ।
रोमकूपप्रविसृतं कण्ठास्यहृदये सजत् ॥
वाससो ऽरञ्जनं पूति वेगवच्चातिभूरि च ।
वृद्धं पाण्डुज्वरच्छर्दिकासशोफातिसारिणम् ॥
कासश्वासौ ज्वरच्छर्दितृष्णातीसारशोफिनम् ।
यक्ष्मा पार्श्वरुजानाहरक्तच्छर्द्यं सतापितम् ॥
छर्दिर्वेगवती मूत्रशकृद्गन्धिः सचन्द्रिका ।
सास्रविट्पूयरुक्कासश्वासवत्यनुषङ्गिणी ॥
तृष्णान्यरोगक्षपितं बहिर्जिह्वं विचेतनम् ।
मदात्ययो ऽतिशीतार्तं क्षीणं तैलप्रभाननम् ॥
अर्शांसि पाणिपन्नाभिगुदमुष्कास्यशोफिनम् ।
हृत्पार्श्वाङ्गरुजाच्छर्दिपायुपाकज्वरातुरम् ॥
अतीसारो यकृत्पिण्डमांसधावनमेचकैः ।
तुल्यस्तैलघृतक्षीरदधिमज्जवसासवैः ॥
मस्तुलुङ्गमषीपूयवेशवाराम्बुमाक्षिकैः ।
अतिरक्तासितस्निग्धपूत्यच्छघनवेदनः ॥
कर्बुरं प्रस्रवन् धतून् निष्पुरीषो ऽथवातिविट् ।
तन्तुमान् मक्षिकाक्रान्तो राजीमांश्चन्द्रकैर्युतः ॥
शीर्णपायुवलिं मुक्तनालं पर्वास्थिशूलिनम् ।
स्रस्तपायुं बलक्षीणमन्नमेवोपवेशयेत् ॥
सतृट्कासज्वरच्छर्दिदाहानाहप्रवाहिकः ।
अश्मरी शूनवृषणं बद्धमूत्रं रुजार्दितम् ॥
मेहस्तृड्दाहपिटकामांसकोथातिसारिणम् ।
पिटका मर्महृत्पृष्ठस्तनांसगुदमूर्द्धगा ॥
पर्वपादकरस्था वा मन्दोत्साहं प्रमेहिणम् ।
सर्वं च मांससङ्कोथदाहतृष्णामदज्वरैः ॥
विसर्पमर्मसंरोधहिध्माश्वासभ्रमक्लमैः ।
गुल्मः पृथुपरीणाहो घनः कूर्म इवोन्नतः ॥
सिरानद्धो ज्वरच्छर्दिहिध्माध्मानरुजान्वितः ।
कासपीनसहृल्लासश्वासातीसारशोफवान् ॥
विण्मूत्रसङ्ग्रहश्वासशोफहिध्माज्वरभ्रमैः ।
मूर्च्छाछर्द्यतिसारैश्च जठरं हन्ति दुर्बलम् ॥
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम् ।
विरेचनहृतानाहमानह्यन्तं पुनःपुनः ॥
पाण्डुरोगः श्वयथुमान् पीताक्षिनखदर्शनम् ।
तन्द्रादाहारुचिच्छर्दिमूर्च्छाध्मानातिसारवान् ॥
अनेकोपद्रवयुतः पादाभ्यां प्रसृतो नरम् ।
नारीं शोफो मुखाद्धन्ति कुक्षिगुह्यादुभावपि ॥
राजीचितः स्रवंश्छर्दिज्वरश्वासातिसारिणम् ॥
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये ।
दुर्बलस्य विशेषेण जायन्ते ऽन्ताय देहिनः ॥
श्वयथुर्यस्य पादस्थः परिस्रस्ते च पिण्डिके ।
सीदतः सक्थिनी चैव तं भिषक् परिवर्जयेत् ॥
आननं हस्तपादं च विशेषाद्यस्य शुष्यतः ।
शूयेते वा विना देहात्स मासाद्याति पञ्चताम् ॥
उदरी यश्च शोफी वा स्वं न पश्यति मेहनम् ।
यस्य वा जठरोन्नामात् परिधानं न तिष्ठति ॥
विसर्पः कासवैवर्ण्यज्वरमूर्छाङ्गभङ्गवान् ।
भ्रमास्यशोफहृल्लासदेहसादातिसारवान् ॥
कुष्ठं विशीर्यमाणाङ्गं रक्तनेत्रं हतस्वरम् ।
मन्दाग्निं जन्तुभिर्जुष्टं हन्ति तृष्णातिसारिणम् ॥
वायुः सुप्तत्वचं भुग्नं कम्पशोफरुजातुरम् ॥
वातास्रं मोहमूर्छायमदास्वप्नज्वरान्वितम् ।
शिरोग्रहारुचिश्वाससङ्कोचस्फोटकोथवत् ॥
शिरोरोगारुचिश्वासमोहविड्भेदतृड्भ्रमैः ।
घ्नन्ति सर्वामयाः क्षीणस्वरधातुबलानलम् ॥
वातव्याधिरपस्मारी कुष्ठी रक्त्युदरी क्षयी ।
गुल्मी मेही च तान् क्षीणान् विकारे ऽल्पे ऽपि वर्जयेत् ॥
बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः ।
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति ॥
वाताष्ठीलातिसंवृद्धा तिष्ठन्ती दारुणा हृदि ।
तृष्णयानुपरीतस्य सद्यो मुष्णाति जीवितम् ॥
शैथिल्यं पिण्डिके वायुर्नीत्वा नासां च जिह्मताम् ।
क्षीणस्यायम्य मन्ये वा सद्यो मुष्णाति जीवितम् ॥
नाभीगुदान्तरं गत्वा वङ्क्षणौ वा समाश्रयन् ।
गृहीत्वा पायुहृदये क्षीणदेहस्य वा बली ॥
मलान् वस्तिशिरोनाभिं विबध्य जनयन् रुजम् ।
कुर्वन् वङ्क्षणयोः शूलं तृष्णां भिन्नपुरीषताम् ॥
श्वासं वा जनयन् वायुर्गृहीत्वा गुदवङ्क्षणौ ।
वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः ॥
स्तिमितस्यातताक्षस्य सद्यो मुष्णाति जीवितम् ॥
सहसा ज्वरसन्तापस्तृष्णामूर्छाबलक्षयः ।
विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते ॥
गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम् ।
लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम् ॥
प्रवालगुलिकाभासा यस्य गात्रे मसूरिकाः ।
उत्पद्याशु विनश्यन्ति न चिरात्स विनश्यति ॥
मसूरविदलप्रख्यास्तथा विदुमसन्निभाः ।
अन्तर्वक्राः किणाभाश्च विस्फोटा देहनाशनाः ॥
कामलाक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता ।
सन्त्रासश्चोष्णताङ्गे च यस्य तं परिवर्जयेत् ॥
अकस्मादनुधावच्च विघृष्टं त्वक्समाश्रयम् ।
चन्दनोशीरमदिराकुणपध्वाङ्क्षगन्धयः ॥
शैवालकुक्कुटशिखाकुङ्कुमालमषीप्रभाः ।
अन्तर्दाहा निरूष्माणः प्राणनाशकरा व्रणाः ॥
यो वातजो न शूलाय स्यान्न दाहाय पित्तजः ।
कफजो न च पूयाय मर्मजश्च रुजे न यः ॥
अचूर्णश्चूर्णकीर्णाभो यत्राकस्माच्च दृश्यते ।
रूपं शक्तिध्वजादीनां सर्वांस्तान् वर्जयेद् व्रणान् ॥
विण्मूत्रमारुतवहं कृमिणं च भगन्दरम् ॥
घट्टयन् जानुना जानु पादावुयम्य पातयन् ।
यो ऽपास्यति मुहुर्वक्त्रमातुरो न स जीवति ॥
दन्तैश्छिन्दन् नखाग्राणि तैश्च केशांस्तृणानि वा ।
भूमिं काष्ठेन विलिखन् लोष्टं लोष्टेन ताडयन् ॥
हृष्टरोमा सान्द्रमूत्रः शुष्ककासी ज्वरी च यः ।
मुहुर्हसन् मुहुः क्षवेडन् शय्यां पादेन हन्ति यः ॥
मुहुश्छिद्राणि विमृशन्नातुरो न स जीवति ॥
ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम् ।
शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत् ॥
विकारा यस्य वर्द्धन्ते प्रकृतिः परिहीयते ।
सहसा सहसा तस्य मृत्युर्हरति जीवितम् ॥
यमुद्दिश्यातुरं वैद्यः सम्पादयितुमौषधम् ।
यतमानो न शक्नोति दुर्लभं तस्य जीवितम् ॥
विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम् ।
न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम् ॥
भवेद्यस्यौषधे ऽन्ने वा कल्प्यमाने विपर्ययः ।
अकस्माद्वर्णगन्धादेः स्वस्थो ऽपि न स जीवति ॥
निवाते सेन्धनं यस्य ज्योतिश्चाप्युपशाम्यति ॥
आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा ।
अतिमात्रममत्राणि दुर्लभं तस्य जीवितम् ॥
यं नरं सहसा रोगो दुर्बलं परिमुञ्चति ।
संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0