भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 2.10

2.10.1

अथातो विकृतेहाविज्ञानीयमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

2.10.2

घनीभूतमिवाकाशमाकाशमिव यो घनम् ।
अमूर्तामिव मूर्तं च मूर्तं वामूर्तवत् स्थितम् ॥

2.10.3

तेजस्व्यतेजस्तद्वच्च शुक्लं कृष्णमसच्च सत् ।
अनेत्ररोगश्चन्द्रं च बहुरूपमलाञ्छनम् ॥

2.10.4

जाग्रद्रक्षांसि गन्धर्ववन् प्रेतानन्यांश्च तद्विधान् ।
रूपं व्याकृति तद्वच्च यः पश्यति स नश्यति ॥

2.10.5

सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम् ।
ध्रुवमाकाशगङ्गां वा न स पश्यति तां समाम् ॥

2.10.6

मेघतोयौघनिर्घोषवीणापणववेणुजान् ।
शृणोत्यन्यांश्च यः शब्दानसतो न सतो ऽपि वा ॥

2.10.7

निष्पीड्य कर्णौ शृणुयान्न यो धुकधुकास्वनम् ।
तद्वद्गन्धरसस्पर्शान्मन्यते यो विपर्ययात् ॥

2.10.8

सर्वशो वा न यो यश्च दीपगन्धं न जिघ्रति ।
विधिना यस्य दोषाय स्वास्थ्यायाविधिना रसाः ॥

2.10.9

यः पांसुनेव कीर्णाङ्गो यो ऽङ्गे घातं न वेत्ति वा ॥

2.10.10

अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम् ।
जानात्यतीन्द्रियं यश्च तेषां मरणमादिशेत् ॥

2.10.11

जिह्वा श्यावा मुखं पूति सव्यमक्षि निमज्जति ।
स्वगा वा मूर्ध्नि लीयन्ते यस्य तं परिवर्जयेत् ॥

2.10.12

निकषन्निव यः पादौच्युतांसः परिसर्पति ।
हीयते बलतः शश्वद्यो ऽन्नमश्नन् हितं बहु ॥

2.10.13

योल्पाशी बहुविण्मूत्रो बह्वाशी चाल्पमूत्रविट् ।
यो वाल्पाशी कफेनार्तो दीर्घं श्वसिति चेष्टते ॥

2.10.14

दीर्घमुच्छ्वस्य यो ह्रस्वं निश्वस्य परिताम्यति ।
ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते भृशम् ॥

2.10.15

शिरो विक्षिपते कृच्छ्राद्योञ्चयित्वा प्रपाणिकौ ।
यो ललाटात्स्स्रुतस्वेदः श्लथसन्धानबन्धनः ॥

2.10.16

उत्थाप्यमानः सम्मुह्येद्यो बली दुर्बलो ऽपि वा ।
उत्थान एव स्वपिति यः पादौ विकरोति च ॥

2.10.17

शयनासनकुड्यादेः यो ऽसदेव जिघृक्षति ।
अहास्यहासी सम्मुद्यन् यो लेढि दशनच्छदौ ॥

2.10.18

उत्तरोष्ठं परिलिहन् फूत्कारांश्च करोति यः ।
यमभिद्रवति छाया कृष्णा पीतारुणापि वा ॥

2.10.19

भिषग्भेषजपानान्नगुरुमित्राद्विषश्च ये ।
वशगाः सर्व एवैते विज्ञेयाः समवर्तिनः ॥

2.10.20

ग्रीवाललाटहृदयं यस्य स्विद्यति शीतलम् ।
उष्णो ऽपरः प्रदेशश्च शरणं तस्य देवताः ॥

2.10.21

यो ऽणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा ।
बलिं बलिभुजो यस्य प्रणीतं नोपभुञ्जते ॥

2.10.22

निर्निमित्तं च यो मेधां शोभामुपचयं श्रियम् ।
प्राप्नोत्यतो वा विभ्रंशं स प्राप्नोति यमक्षयम् ॥

2.10.23

गुणदोषमयी यस्य स्वस्थस्य व्याधितस्य वा ।
यात्यन्यथात्वं प्रकृतिः षण्मासान्न् स जीवति ॥

2.10.24

भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम् ।
षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः ॥

2.10.25

मत्तवद्गतिवाक्कम्पमोहा मासान्मरिष्यतः ।
नश्यत्यजानन् षडहात् केशलुञ्चनवेदनाम् ॥

2.10.26

न याति यस्य चाहारः कण्ठं कण्ठामयादृते ।
प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते ॥

2.10.27

यस्य निद्रा भवेन्नित्या नैव वा न स जीवति ।
वक्त्रमापूर्यते ऽश्रूणां स्विद्यतश्चरणौ भृशम् ॥

2.10.28

चक्षुश्चाकुलतां याति यमराज्यं गमिष्यतः ।
यैः पुरा रमते भावैररतिस्तैर्न जीवति ॥

2.10.29

कथयेन्न च पृष्टो ऽपि दुःश्रवं मरणं भिषक् ।
गतासोर्बन्धुमित्राणां न चेच्छेत्तं चिकित्सितुम् ॥

2.10.30

यमदूतपिशाचाद्यैर्यत् परासुरुपास्यते ।
घ्नद्भिरौषधवीर्याणि तस्मात्तं परिवर्जयेत् ॥

2.10.31

अरिष्टं नास्ति मरणं दृष्टरिष्टं च जीवितम् ।
अरिष्टे रिष्टविज्ञानं न च रिष्टे ऽप्यनैपुणात् ॥

2.10.32

चरकस्येति वचनं सुश्रुतेन तु पठ्यते ।
ध्रुवं हि रिष्टे मरणं ब्राह्मणैस्तत् किलामलैः ॥

2.10.33

रसायनतपोदानतत्परैश्च निवार्यते ।
कृष्णात्रेयो द्विधा रिष्टं स्थिरास्थिरविभेदतः ॥

2.10.34

दोषाणामपि बाहुल्याद्रिष्टाभासः समुद्भवेत् ।
तद्दोषाणां शमे शाम्येत्स्थाय्यवश्यं तु मृत्यवे ॥

2.10.35

आयुर्वेदफलं कृत्स्नं यदायुर्ज्ञे प्रतिष्टितम् ।
रिष्टज्ञानादृतस्तस्मात्सर्वदैव भवेद्भिषक् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc