भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 8.3

8.3.1

मतु-वसो रु सम्बुद्धौ छन्दसि

8.3.2

अत्रानुनासिकः पूर्वस्य तु वा

8.3.3

अतो ऽटि नित्यम्

8.3.4

अनुनासिकात् परो ऽनुस्वारः

8.3.5

वक्ष्यति - समः सुति

8.3.6

पुमः खय्यम्परे

8.3.7

नश्छव्यप्रशान्

8.3.8

उभयथ र्क्षु

8.3.9

दीर्घाद् अटि समानपादे

8.3.10

नॄन् पे

8.3.11

स्वतवान् पायौ

8.3.12

कान् आम्रेडिते

8.3.13

ढो ढे लोपः

8.3.14

रो रि

8.3.15

खर्-अवसानयोर् विसर्जनीयः

8.3.16

रोः सुपि

8.3.17

भो-भगो-अघो-अपूर्वस्य यो ऽशि

8.3.18

व्-योर् लघुप्रयत्नतरः शाकटायनस्य

8.3.19

लोपः शाकल्यस्य

8.3.20

ओतो गर्ग्यस्य

8.3.21

उञि च पदे

8.3.22

हलि सर्वेषां

8.3.23

मो ऽनुस्वारः

8.3.24

नश् च अपदान्तस्य झलि

8.3.25

मो राजि समः क्वौ

8.3.26

हे मपरे वा

8.3.27

नपरे नः

8.3.28

ङ्-णोः कुक्-टुक् शरि

8.3.29

डः सि ढुट्

8.3.30

नश् च

8.3.31

शि तुक्

8.3.32

ङमो ह्रस्वाद् अचि ङमुण् नित्यम्

8.3.33

मय उञो वो वा

8.3.34

विसर्जनीयस्य सः

8.3.35

शर्परे विसर्जनीयः

8.3.36

वा शरि

8.3.37

कुप्वोः ẖकḫपौ च (रेअद्: [जिह्वामूलीय-]क-[उपध्मानीय-]पौ)

8.3.38

सो ऽपदादौ

8.3.39

इणः षः

8.3.40

नमस्-पुरसोर् गत्योः

8.3.41

इद्-उद्-उपधस्य च अप्रत्ययस्य

8.3.42

तिरसो ऽन्यतरस्याम्

8.3.43

द्विस्-त्रिश्-चतुर् इति कृत्वो ऽर्थे

8.3.44

इस्-उसोः सामर्थ्ये

8.3.45

नित्यं समासे ऽनुत्तरपदस्थस्य

8.3.46

अतः कृ-कमि-कंस-कुम्भ-पात्र-कुशा-कर्णीष्व् अनव्ययस्य

8.3.47

अधः-शिरसी पदे

8.3.48

कस्कादिषु च

8.3.49

छन्दसि वा ऽप्र-आम्रेडितयोः

8.3.50

कःकरत्करतिकृधिकृतेष्वनदितेः

8.3.51

पञ्चम्याः परावध्यर्थे

8.3.52

पातौ च बहुलम्

8.3.53

षष्ठ्याः पति-पुत्र-पृष्ठ-पार-पद-पयस्-पोषेषु

8.3.54

इडाया वा

8.3.55

अपदान्तस्य मूर्धन्यः

8.3.56

सहेः साडः सः

8.3.57

इण्-कोः

8.3.58

नम्-विसर्जनीय-शर्व्यवाये ऽपि

8.3.59

आदेशप्रत्यययोः

8.3.60

शासि-वसि-घसीनां च

8.3.61

स्तौति-ण्योर् एव षण्य् अभ्यासात्

8.3.62

सः स्विदि-स्वदि-सहीनां च

8.3.63

प्राक् सिताद् अड् व्यवाये ऽपि

8.3.64

स्वादिष्व् अभ्यासेन च अभ्यासस्य

8.3.65

उपसर्गात् सुनोति-सुवति-स्यति-स्तौति-स्तोभति-स्था-सेनय-सेध-सिच-सञ्ज-स्वञ्जाम्

8.3.66

सदिर् अप्रतेः

8.3.67

स्तन्भेः

8.3.68

अवाच् च आलंवन-आविदूर्ययोः

8.3.69

वेश् च स्वनो भोजने

8.3.70

परिनिविभ्यः सेव-सित-सय-सिवु-सह-सुट्-स्तु-स्वञ्जाम्

8.3.71

सिवादीनां वा अड्व्यवाये ऽपि

8.3.72

अनु-वि-पर्य्-अभि-निभ्यः स्यन्दतेर् अप्राणिषु

8.3.73

वेः स्कन्देर् अनिष्ठायाम्

8.3.74

परेश् च

8.3.75

परिस्कन्दः प्राच्यभरतेषु

8.3.76

स्फुरति-स्फुलत्योर् निर्-नि-विभ्यः

8.3.77

वेः स्कभ्नातेर् नित्यम्

8.3.78

इणः षीध्वं-लुङ्-लिटां धो ऽङ्गात्

8.3.79

विभाषा+इटः

8.3.80

समासे ऽङ्गुलेः सङ्गः

8.3.81

भीरोः स्थानम्

8.3.82

अग्नेः स्तुत्-स्तोम-सोमाः

8.3.83

ज्योतिर्-आयुषः स्तोमः

8.3.84

मातृ-पितृभ्यां स्वसा

8.3.85

मातुःपितुर्भ्यामन्यतरस्याम्

8.3.86

अभिनिसः स्तनः शब्दसञ्ज्ञायाम्

8.3.87

उपसर्ग-प्रादुर्भ्याम् अस्तिर् य्-अच्-परः

8.3.88

सु-वि-निर्-दुर्भ्यः सुपि-सूति-समाः

8.3.89

नि-नदीभ्यां स्नातेः कौशले

8.3.90

सूत्रं प्रतिष्णातम्

8.3.91

कपिष्ठलो गोत्रे

8.3.92

प्रष्ठो ऽग्रगामिनि

8.3.93

वृक्ष-आसनयोर् विष्टरः

8.3.94

छन्दोनाम्नि च

8.3.95

गवि-युधिभ्यां स्थिरः

8.3.96

वि-कु-शमि-परिभ्यः स्थलम्

8.3.97

अम्ब-आम्ब-गो-भूमि-सव्य-अप-द्वि-त्रि-कु-शेकु-शङ्क्व्-अङ्गु-मञ्जि-पुञ्जि-परमे-बर्हिर्-दिव्य्-अग्निभ्यः स्थः

8.3.98

सुषामादिषु च

8.3.99

ह्रस्वात् तादौ तद्धिते

8.3.100

निसस् तपताव् अनसेवने

8.3.101

युष्मत्-तत्-ततक्षुःष्व् अन्तःपादम्

8.3.102

युजुष्य् एकेषाम्

8.3.103

स्तुत-स्तोमयोश् छन्दसि

8.3.104

पूर्वपदात्

8.3.105

सुञः

8.3.106

सनोतेर् अनः

8.3.107

सहेः पृतन-र्ताभ्यां च

8.3.108

न रपर-सृपि-सृजि-स्पृशि-स्पृहि-सवन-आदीनाम्

8.3.109

सात् पदाद्योः

8.3.110

सिचो यङि

8.3.111

सेधतेर् गतौ

8.3.112

प्रतिस्तब्ध-निस्तब्धौ च

8.3.113

सोढः

8.3.114

स्तम्भुसिवुसहां चङि

8.3.115

सनोतेः स्य-सनोः

8.3.116

सदिष्वञ्जोः परस्य लिटि

8.3.117

निव्यभिभ्यो ऽड्व्यवाये वा छन्दसि

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc