भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 8.2

8.2.1

पूर्वत्र असिद्धम्

8.2.2

नलोपः सुप्-स्वर-सञ्ज्ञा-तुग्-विधिषु कृति

8.2.3

न मु ने

8.2.4

उदात्त-स्वरितयोर् यणः स्वरितो ऽनुदात्तस्य

8.2.5

एकादेश उदातेन+उदात्तः

8.2.6

स्वरितो वा ऽनुदात्ते पदादौ

8.2.7

नलोपः प्रातिपदिकान्तस्य

8.2.8

न ङि-सम्बुद्ध्योः

8.2.9

म्-आद्-उपधायाश् च मतोर् वो ऽयव-आदिभ्यः

8.2.10

झयः

8.2.11

सञ्ज्ञायाम्

8.2.12

आसन्दीवद्-अष्ठीवच्-चक्रीवत्-कक्षीवद्-रुमण्वच्-चर्मण्वती

8.2.13

उदन्वन् उदधौ च

8.2.14

राजन्वान् सौराज्ये

8.2.15

छन्दसि इरः

8.2.16

अनो नुट्

8.2.17

नाद् घस्य

8.2.18

कृपो रो लः

8.2.19

उपसर्गय अयतौ

8.2.20

ग्रो यङि

8.2.21

अचि विभाषा

8.2.22

परेश् च घ-अङ्कयोः

8.2.23

संयोगान्तस्य लोपः

8.2.24

रात् सस्य

8.2.25

धि च

8.2.26

झलो झलि

8.2.27

ह्रस्वाद् अङ्गात्

8.2.28

इट ईटि

8.2.29

स्-कोः संयोग-आद्योर् अन्ते च

8.2.30

चोः कुः

8.2.31

हो ढः

8.2.32

दादेर् धातोर् घः

8.2.33

वा द्रुह-मुह-ष्णुह-ष्णिहाम्

8.2.34

नहो धः

8.2.35

आहस्थः

8.2.36

व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छ-शां षः

8.2.37

एकाचो बशो भष् झषन्तस्य स्-ध्वोः

8.2.38

दधस् त-थोश् च

8.2.39

झलां जशो ऽन्ते

8.2.40

झषस् त-थोर् धो ऽधः

8.2.41

ष-ढोः कः सि

8.2.42

र-दाभ्यां निष्थातो नः पूर्वस्य च दः

8.2.43

संयोगादेर् आतो धातोर् यण्वतः

8.2.44

ल्वादिभ्यः

8.2.45

ओदितश् च

8.2.46

क्षियो दीर्घात्

8.2.47

श्यो ऽस्पर्शे

8.2.48

अञ्चो ऽनपादाने

8.2.49

दिवो ऽविजिगीषायाम्

8.2.50

निर्वाणो ऽवाते

8.2.51

शुषः कः

8.2.52

पचो वः

8.2.53

क्षायो मः

8.2.54

प्रस्त्यो ऽन्यतरस्याम्

8.2.55

अनुपसर्गात् फुल्ल-क्षीब-कृश-उल्लाघाः

8.2.56

नुद-विद-उन्द-त्रा-घ्रा-ह्रीभ्यो ऽन्यतरस्याम्

8.2.57

न ध्या-ख्या-पॄ-मूर्च्छि-मदाम्

8.2.58

वित्तो भोग-प्रत्यययोः

8.2.59

भित्तं शकलम्

8.2.60

ऋणम् आधमर्ण्ये

8.2.61

नसत्त-निषत्त-अनुत्त-प्रतूर्त-सूर्त-गूर्तानि छन्दसि

8.2.62

क्विन्प्रत्ययस्य कुः

8.2.63

नशेर् वा

8.2.64

मो नो धातोः

8.2.65

म्-वोश् च

8.2.66

स-सजुषो रुः

8.2.67

अवयाः श्वेतवाः पूरोडाश् च

8.2.68

अहन्

8.2.69

रो ऽसुपि

8.2.70

अम्नर्-ऊधर्-अवर् इत्य् उभयथा छन्दसि

8.2.71

भुवश् च महाव्याहृतेः

8.2.72

वसु-स्रंसु-ध्वंस्व्-अनडुहां दः

8.2.73

तिप्य् अनस्तेः

8.2.74

सिपि धातो रुर्वा

8.2.75

दश् च

8.2.76

र्-वोर् उपधाया दीर्घ इकः

8.2.77

हलि च

8.2.78

उपधायां च

8.2.79

न भ-कुर्-छुराम्

8.2.80

अदसो ऽसेर् दाद् उ दो मः

8.2.81

एत ईद् बहुवचने

8.2.82

वाक्यस्य टेः प्लुत उदात्तः

8.2.83

वक्ष्यति - प्रत्यभिवादे ऽशूद्रे

8.2.84

दूराद् धूते च

8.2.85

है-हेप्रयोगे है-हयोः

8.2.86

गुरोर् अनृतो ऽनन्त्यस्य अप्य् एकैकस्य प्राचाम्

8.2.87

ओम् अभ्यादाने

8.2.88

ये यज्ञकर्मणि

8.2.89

प्रणवष् टेः

8.2.90

याज्यान्तः

8.2.91

ब्रूहि-प्रेष्य-श्रौषड्-वौषड्-आवहानाम् आदेः

8.2.92

अग्नीत्-प्रेषणे परस्य च

8.2.93

विभाषा पृष्टप्रतिवचने हेः

8.2.94

निगृह्य-अनुयोगे च

8.2.95

आम्रेडितं भर्त्सने

8.2.96

अङ्गयुक्तं तिङ् आकाङ्क्षम्

8.2.97

विचार्यमाणानाम्

8.2.98

पूर्वं तु भाषायाम्

8.2.99

प्रतिश्रवणे च

8.2.100

अनुदात्तं प्रश्नान्त-अभिपूजितयोः

8.2.101

चिद् इति च+उपमार्थे प्रयुज्यमाने

8.2.102

उपरिस्विद् आसीद् इति च

8.2.103

स्वरितम् आम्रेडिते ऽसूया-सम्मति-कोप-कुत्सनेषु

8.2.104

क्षिया-आशीः-प्रैषेषु तिङ् आकाङ्क्षम्

8.2.105

अनन्त्यस्य अपि प्रश्नाख्यानयोः

8.2.106

प्लुताव् ऐच इदुतौ

8.2.107

एचो ऽप्रगृह्यस्य अदूराध्दूते पूर्वस्य अर्धस्य अद् उत्तरस्य+इदुतौ

8.2.108

तयोर् य्-व्-आव् अचि संहितायाम्

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc