भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 8.4

8.4.1

र-षाभ्यां नो णः समानपदे

8.4.2

अट्-कु-प्व्-आङ्-नुम्-व्यवाये ऽपि

8.4.3

पूर्वपदात् सञ्ज्ञायाम् अगः

8.4.4

वनं पुरगा-मिश्रका-सिध्रका-शारिका-कोटर-अग्रेभ्यः

8.4.5

प्र-निर्-अन्तः-शर-इक्षु-प्लक्ष-आम्र-कार्ष्य-खदिर-पीयूक्षाभ्यो ऽसञ्ज्ञायाम् अपि

8.4.6

विभाषौषधिवनस्पतिभ्यः

8.4.7

अह्नो ऽदन्तात्

8.4.8

वाहनम् आहितात्

8.4.9

पानं देशे

8.4.10

वा भाव-करणयोः

8.4.11

प्रातिपदिकान्त-नुम्-विभक्तिषु च

8.4.12

एकाजुत्तरपदे णः

8.4.13

कुमति च

8.4.14

उपसर्गाद् असमासे ऽपि ण-उपदेशस्य

8.4.15

हिनु-मीना

8.4.16

आनि लोट्

8.4.17

नेर् गद-नद-पत-पद-घु-मा-स्यति-हन्ति-याति-वाति-द्राति-प्साति-वपति-वहति-शाम्यति-चिनोति-देग्धिषु च

8.4.18

शेषे विभाषा ऽक-खादाव्-अषान्त उपदेशे

8.4.19

अनितेः

8.4.20

अन्तः

8.4.21

उभौ साभ्यासस्य

8.4.22

हन्तेर् अत्पूर्वस्य

8.4.23

व-मोर् वा

8.4.24

अन्तर् अदेशे

8.4.25

अयनं च

8.4.26

छन्दस्य् ऋदवग्रहात्

8.4.27

नश् च धातुस्थ-उरु-षुभ्यः

8.4.28

उपसर्गाद् बहुलम्

8.4.29

कृत्य् अचः

8.4.30

णेर् विभाषा

8.4.31

हलश्चेजुपधात्

8.4.32

इजादेः सनुमः

8.4.33

वा निंस-निक्ष-निन्दाम्

8.4.34

न भा-भू-पू-कमि-गमि-प्यायी-वेपाम्

8.4.35

षात् पदान्तात्

8.4.36

नशेः षान्तस्य

8.4.37

पदान्तस्य

8.4.38

पदव्यवाये ऽपि

8.4.39

क्षुभ्नादिषु च

8.4.40

स्-तोः श्-चुना श्-चुः

8.4.41

ष्टुना षुः

8.4.42

न पदान्ताट् टोर् अनाम्

8.4.43

तोः षि

8.4.44

शात्

8.4.45

यरो ऽनुनासिके ऽनुनासिको वा

8.4.46

अचो र-हाभ्यां द्वे

8.4.47

अनचि च

8.4.48

न आदिन्य्-आक्रोशे पुत्रस्य

8.4.49

शरो ऽचि

8.4.50

त्रिप्रभृतिषु शाकटायनस्य

8.4.51

सर्वत्र शाकल्यस्य

8.4.52

दीर्घाद् आचार्याणाम्

8.4.53

झलं जश् झशि

8.4.54

अभ्यासे चर्च

8.4.55

खरि च

8.4.56

वा+अवसाने

8.4.57

अणो ऽप्रगृह्यस्य अनुनासिकः

8.4.58

अनुस्वारस्य ययि परसवर्णः

8.4.59

वा पदान्तस्य

8.4.60

तोर् लि

8.4.61

उदः स्थास्तम्भोः पूर्वस्य

8.4.62

झयो हो ऽन्यतरस्याम्

8.4.63

शश्छो ऽटि

8.4.64

हलो यमां यमि लोपः

8.4.65

झरो झरि सवर्णे

8.4.66

उदत्ताद् अनुदात्तस्य स्वरितः

8.4.67

न+उदात्तस्वरितोदयम् अ-गार्घ्य-काश्यप-गालवानाम्

8.4.68

अ अ इति

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc