अष्टाध्यायी · अध्याय 8.1
सर्वस्य द्वे
तस्य परम् आम्रेडितम्
अनुदात्तं च
नित्य-वीप्सयोः
परेर् वर्जने
प्र-सम्-उप-उदः पादपूरणे
उपर्यध्यधसः सामीप्ये
वाक्यादेर् आमन्त्रितस्य असूया-सम्मति-कोप-कुत्सन-भर्त्सनेषु
एकं बहुव्रीहिवत्
आबाधे च
कर्मधारयवद् उत्तरेषु
प्रकारे गुणवचनस्य
अकृच्छ्रे प्रिय-सुखयोर् अन्यतरस्याम्
यथास्वे यथायथम्
द्वन्द्वं रहस्य-मर्यादावचन-व्युत्क्रमण-यज्ञपात्रप्रयोग-अभिव्यक्तिषु
पदस्य
पदात्
अनुदात्तं सर्वम् अपादादौ
आमन्त्रितस्य च
युष्मद्-अस्मदोः षष्ठी-चतुर्थी-द्वितीयास्थयोर् वान्-नावौ
बहुवचनस्य वस्-नसौ
तेमयाव् एकवचनस्य
त्वामौ द्वितीयायाः
न च-वा-ह-अह-एवयुक्ते
पश्यार्थैश् च अनालोचने
सपूर्वायाः प्रथमाया विभाषा
तिङो गोत्रादीनि कुत्सन-आभीक्ष्ण्ययोः
तिङ्ङ् अतिङः
न लुट्
निपातैर् यद्-यदि-हन्त-कुविन्-नेच्-चेच्-चण्-कच्चिद्-यत्रयुतम्
नह प्रत्यारम्भे
सत्यं प्रश्ने
अङ्गाप्रातिलोम्ये
हि च
छन्दस्य् अनेकम् अपि साकाङ्क्षम्
यावद्-यथाभ्याम्
पूजायां न अनन्तरम्
उपसर्गव्यपेतं च
तु-पश्यपश्यत-अहैः पूजायाम्
अहो च
शेषे विभाषा
पुरा च परीप्सायाम्
नन्व् इत्य् अनुज्ञा-एषणायाम्
किं क्रियाप्रश्ने ऽनुपसर्गम् अप्रतिषिद्धम्
लोपे विभाषा
एहि मन्ये प्रहासे लृट्
जात्वपूर्वम्
किंवृत्तं च चिदुत्तरम्
आहो उताहो च अनन्तरम्
शेषे विभाषा
गत्यर्थ-लोटा लृण् न चेत् कारकं सर्वान्यत्
लोट् च
विभाषितं सोपसर्गम् अनुत्तमम्
हन्त च
आम एकान्तरम् आमन्त्रितम् अनन्तिके
यद्-धि-तुपरं छन्दसि
चन-चिद्-इव-गोत्रादि-तद्धित-आम्रेडितेष्व् अगतेः
चादिषु च
च-वा-योगे प्रथमा
हेति क्षियायाम्
अह+इति विनियोगे च
च-अह-लोप एव+इत्य् अवधारणम्
चदिलोपे विभाषा
वै-वाव+इति च च्छन्दसि
एकान्याभ्यां समर्थाभ्याम्
यद्वृत्तान् नित्यम्
पूजनात् पूजितम् अनुदात्तं काष्ठादिभ्यः
सगतिर् अपि तिङ्
कुत्सने च सुप्य् अगोत्रादौ
गतिर् गतौ
तिङि च+उदात्तवति
आमन्त्रितं पूर्वम् अविद्यमानवत्
न आमन्त्रिते समानाधिकरणे सामान्यवचनम्
विभाषितं विशेषवचने बहुवचनम्
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0