भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 7.4

7.4.1

णौ चङ्य् उपधाया ह्रस्वः

7.4.2

न अग्लोपि-शास्व्-ऋदिताम्

7.4.3

भ्राज-भास-भाष-दीप-जीव-मील-पीडाम् अन्यतरस्याम्

7.4.4

लोपः पिबतेर् ईच्च अभ्यासस्य

7.4.5

तिष्ठतेर् इत्

7.4.6

जिघ्रतेर् वा

7.4.7

उर् ऋत्

7.4.8

नित्यं छन्दसि

7.4.9

दयतेर् दिगि लिटि

7.4.10

ऋतश् च संयोगादेर् गुणः

7.4.11

ऋच्छत्य्-ऋ-ऋताम्

7.4.12

शॄ-दॄ-प्रां ह्रस्वो वा

7.4.13

के ऽणः

7.4.14

न कपि

7.4.15

अपो ऽन्यतरस्याम्

7.4.16

ऋ-दृशो ऽङि गुणः

7.4.17

अस्यतेस् थुक्

7.4.18

श्वयतेर् अः

7.4.19

पतः पुम्

7.4.20

वच उम्

7.4.21

शीङः सार्वधातुके गुणः

7.4.22

अयङ् यि क्ङिति

7.4.23

उपसर्गाद् ध्रस्व ऊहतेः

7.4.24

एतेर् लिगि

7.4.25

अकृत्-सार्वधातुकयोर् दीर्घः

7.4.26

च्वौ च

7.4.27

रीङ् ऋतः

7.4.28

रिङ् शयग्लिङ्क्षु

7.4.29

गुणो ऽर्ति-संयोगाद् योः

7.4.30

यङि च

7.4.31

ई घ्रा-ध्मोः

7.4.32

अस्य च्वौ

7.4.33

क्यचि च

7.4.34

अशनाय-उदन्य-धानाया बुभुक्षा-पिपासा-गर्धेषु

7.4.35

न च्छन्दस्य् अपुत्रस्य

7.4.36

दुरस्युर्-द्रविणस्युर्-वृषण्यति रिषण्यति

7.4.37

अश्व-अघस्य आत्

7.4.38

देव-सुम्नयोर् यजुषि काठके

7.4.39

कव्य्-अधवर-पृतनस्य-र्चि लोपः

7.4.40

द्यति-स्यति-मा-स्थाम् इत् ति किति

7.4.41

शा-छोर् अन्यतरस्याम्

7.4.42

दधातेर् हिः

7.4.43

जहातेश् च क्त्वि

7.4.44

विभाषा छन्दसि

7.4.45

सुधित-वसुधित-नेमधित-धिष्व-धिषीय च

7.4.46

दो दद् घोः

7.4.47

अच उपसर्गात् तः

7.4.48

अपो भि

7.4.49

सः स्य् आर्धधातुके

7.4.50

तास्-अस्त्योर् लोपः

7.4.51

रि च

7.4.52

ह एति

7.4.53

यि-इवर्नयोर् दीधी-वेव्योः

7.4.54

सनि मी-मा-घु-रभ-लभ-शक-पत-पदाम् अच इस्

7.4.55

आप्-ज्ञप्य्-ऋधाम् ईत्

7.4.56

दम्भ इच्-च

7.4.57

मुचो ऽकर्मकस्य गुणो वा

7.4.58

अत्र लोपो ऽभ्यासस्य

7.4.59

ह्रस्वः

7.4.60

हलादिः शेषः

7.4.61

शर्पूर्वाः खयः

7.4.62

कु-होश् चुः

7.4.63

न कवतेर् यङि

7.4.64

कृषेश्छन्दसि

7.4.65

दाधर्ति-दर्धर्ति-दर्धर्षि-बोभूतु-तेतिक्ते ऽलर्ष्य्-आपनीफणत्-संसनिष्यदत्-करिक्रत्-कनिक्रदत्-भरिभ्रद्-दविध्वतो-दविद्युतत्-तरित्रतः-सरीसृपतं-वरीवृजन्-मर्मृज्य-आगनीगन्ति इति च

7.4.66

उरत्

7.4.67

द्युति-स्वाप्योः सम्प्रसारणम्

7.4.68

व्यथो लिटि

7.4.69

दीर्घ इणः किति

7.4.70

अत आदेः

7.4.71

तस्मान् नुड् द्विहलः

7.4.72

अश्नोतेश् च

7.4.73

भवतेर् अः

7.4.74

ससूवेति निगमे

7.4.75

णिजां त्रयाणां गुणः श्लौ

7.4.76

भृञामित्

7.4.77

अर्ति-पिपर्त्योश् च

7.4.78

बहुलं छन्दसि

7.4.79

सन्यतः

7.4.80

ओः पु-यण्-ज्य्-अपरे

7.4.81

स्त्रवति-शृणोति-द्रवति-प्रवति-प्लवति-च्यवतीनां वा

7.4.82

गुणो यङ्-लुकोः

7.4.83

दीर्घो ऽकितः

7.4.84

नीग् वञ्चु-स्रंसु-ध्वंसु-भ्रंसु-कस-पत-पद-स्कन्दाम्

7.4.85

नुग् अतो ऽनुनासिकान्तस्य

7.4.86

जप-जभ-दह-दश-भञ्ज-पशां च

7.4.87

चर-फलोश् च

7.4.88

उत् परस्य अतः

7.4.89

ति च

7.4.90

रीगृदुपधस्य च

7.4.91

रुग्-रिकौ च लुकि

7.4.92

ऋतश् च

7.4.93

सन्वल् लघुनि चङ्परे ऽनग् लोपे

7.4.94

दीर्घो लघोः

7.4.95

अत् स्मृ-दॄ-त्वर-प्रथ-म्रद-स्तॄ-स्पशाम्

7.4.96

विभाषा वेष्टिचेष्ट्योः

7.4.97

ई च गणः

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc