अष्टाध्यायी · अध्याय 2.3
अनभिहिते
कर्मणि द्वितीया
तृतीया च होश् छन्दसि
अन्तरा ऽन्तरेण युक्ते
काल-अध्वनोर् अत्यन्त-संयोगे
अपवर्गे तृतीया
सप्तमी-पञ्चम्यौ कारक-मध्ये
कर्मप्रवचनीय-युक्ते द्वितीया
यस्माद् अधिकं यस्य च+ईश्वर-वचनं तत्र सप्तमी
पञ्चम्य्-अप-आङ्-परिभिः
प्रतिनिधि-प्रतिदाने च यस्मात्
गत्यर्थ-कर्मणि द्वितीया-चतुर्थ्यौ चेष्टायाम् अनध्वनि
चतुर्थी सम्प्रदाने
क्रिय-अर्थ-उपपदस्य च कर्मणि स्थानिनः
तुमर्थाच् च भाव-वचनात्
नमः-स्वस्ति-स्वाहा-स्वधा ऽलं-वषड्-योगाच् च
मन्य-कर्मण्य्-अनादरे विभाषा ऽप्राणिषु
कर्तृ-करणयोस् तृतीया
सहयुक्ते ऽप्रधाने
येन अङ्ग-विकारः
इत्थम्-भूत-लक्षणे
सञ्ज्ञो ऽन्यतरस्यां कर्मणि
हेतौ
अकर्तर्य्-ऋणे पञ्चमी
विभाषा गुणे ऽस्त्रीयाम्
षष्ठी हेतु-प्रयोगे
सर्वनाम्नस् तृतीया च
अपादाने पञ्चमी
अन्य-आराद्-इतर-र्ते-दिक्-शब्द-अञ्चु-उत्तरपद-अज्-आहि-युक्ते
षष्ठ्य्-अतसर्थ-प्रत्ययेन
एनपा द्वितीया
पृथग्-विना-नानाभिस् तृतीया ऽन्यतरस्याम्
करेण च स्तोक-अल्प-कृच्छ्र-कतिपयस्य असत्त्व-वचनस्य
दूर-अन्तिक-अर्थैः षष्ठ्य्-अन्यतरस्याम्
दूर-अन्तिक-अर्थेभ्यो द्वितीया च
सप्तम्य्-अधिकरने च
यस्य च भावेन भाव-लक्षणम्
षष्ठी च अनादरे
स्वामि-ईश्वर्-आधिपति-दायाद-साक्षि-प्रतिभू-प्रसुतैश् च
आयुक्त-कुशलाभ्यां च आसेवायाम्
यतश् च निर्धारनम्
पञ्चमी विभक्ते
साधु-निपुणाभ्याम् अर्चायां सप्तम्य् अप्रतेः
प्रसित-उत्सुकाभ्यां तृतीया च
नक्षत्रे च लुपि
प्रातिपदिकार्थ-लिङ्ग-परिमाणवचन-मात्रे प्रथमा
सम्बोधने च
सा+आमन्त्रितम्
एकवचनं सम्बुद्धिः
षष्ठी शेषे
ज्ञो ऽविद्-अर्थस्य करणे
अधि-इग्-अर्थ-दय-ईशाम् कर्मणि
कृञः प्रतियत्ने
रुजा-अर्थानां भाव-वचनानाम् अज्वरेः
आशिषि नाथः
जासि-निप्रहण-नाट-क्राथ-पिषां हिंसायाम्
व्यवहृ-पणोः समर्थयोः
दिवस् तद्-अर्थस्य
विभाष-उपसर्गे
द्वितीया ब्राह्मणे
प्रेष्य-ब्रुवोर् हविषो देवता-सम्प्रदाने
चतुर्थ्य्-अर्थे बहुलं छन्दसि
यजेश् च करणे
कृत्वो ऽर्थप्रयोगे काले ऽधिकरणे
कर्तृ-कर्मणोः कृति
उभय-प्राप्तौ कर्मणि
क्तस्य च वर्तमाने
अधिकरण-वाचिनश् च
न ल-उ-उक-अव्यय-निष्ठा-खलर्थ-तृनाम्
अक-इनोर् भविष्यद्-आधमर्ण्ययोः
कृत्यानां कर्तरि वा
तुल्य-अर्थैर् अतुला-उपमाभ्यां तृतीया ऽन्यतरस्याम्
चतुर्थी च आशिष्य् आयुष्य-मद्र-भद्र-कुशल-सुख-अर्थ-हितैः
मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0