भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 1.2

1.2.1

गाङ्-कुटादिभ्यो ऽञ्णिन्ङित्

1.2.2

विज इट्

1.2.3

विभाषा-ऊर्णोः

1.2.4

सार्वधातुकम् अपित्

1.2.5

असंयोगाल् लिट् कित्

1.2.6

इन्धि-भवतिभ्यां च

1.2.7

मृड्-अमृद-गुध-कुष-क्लिश-वद-वसः क्त्वा

1.2.8

रुद-विद-मुष-ग्रहि-स्वपि-प्रच्छः संश् च

1.2.9

इको झल्

1.2.10

हलन्ताच् च

1.2.11

लिङ्-सिचौ आत्मनेपदेषु

1.2.12

उश् च

1.2.13

वा गमः

1.2.14

हनः सिच्

1.2.15

यमो गन्धने

1.2.16

विभाषा-उपयमने

1.2.17

स्थाघ्वोर् इच्च

1.2.18

न क्त्वा स-इट्

1.2.19

निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः

1.2.20

मृषस् तितिक्षायाम्

1.2.21

उदुपधाद् भाव-आदिकर्मणोर् अन्यतरस्याम्

1.2.22

पूङः क्त्वा च

1.2.23

न-उपधात् थ-फ-अन्ताद् वा

1.2.24

वञ्चि-लुञ्च्य्-ऋतश् च

1.2.25

तृषि-मृषि-कृशेः काश्यपस्य

1.2.26

रलो व्-य्-उपधद्-धल्-आदेः संश् च

1.2.27

ऊकालो ऽज्-झ्रस्व-दीर्घ-प्लुतः

1.2.28

अचश् च

1.2.29

उच्चैर् उदात्तः

1.2.30

नीचैर् अनुदात्तः

1.2.31

समाहारः स्वरितः

1.2.32

तस्य-आदित उदात्तम् अर्ध-ह्रस्वम्

1.2.33

एक-श्रुति दूरात् सम्बुद्धौ

1.2.34

यज्ञ-कर्मण्य्-अजप-न्यूङ्ख-सामसु

1.2.35

उच्चैस्तरां वा वषट्कारः

1.2.36

विभाषा छन्दसि

1.2.37

न सुब्रह्मण्यायां स्वरितस्य तु उदात्तः

1.2.38

देव-ब्रह्मणोर् अनुदात्तः

1.2.39

स्वरितात् संहितायाम् अनुदात्तानाम्

1.2.40

उदात्त-स्वरित-परस्य सन्नतरः

1.2.41

अपृक्त एक-अल् प्रत्ययः

1.2.42

तत्पुरुषः समान-अधिकरणः कर्मधारयः

1.2.43

प्रथमा-निर्दिष्टं समास उपसर्जनम्

1.2.44

एक-विभाक्ति च अपूर्व-निपाते

1.2.45

अर्थवद् अधातुर् अप्रत्ययः प्रातिपदिकम्

1.2.46

कृत्-तद्धित-समासाश् च

1.2.47

ह्रस्वो नपुंसके प्रातिपदिकस्य

1.2.48

गोस्त्रियोर् उपसर्जनस्य

1.2.49

लुक् तद्धित-लुकि

1.2.50

इद्-गोण्याः

1.2.51

लुपि युक्तवद्-व्यक्तिवचने

1.2.52

विशेषणानां च अजातेः

1.2.53

तद् अशिष्यं सञ्ज्ञा-प्रमाणत्वात्

1.2.54

लुब् योग-अप्रख्यानात्

1.2.55

योग-प्रमाणे च तद्-अभावे ऽदर्शनम् स्यात्

1.2.56

प्रधान-प्रत्यय-अर्थवचनम् अर्थस्य अन्य-प्रमाणात्वात्

1.2.57

काल-उपसर्जने च तुल्यम्

1.2.58

जात्य्-आख्यायम् एकस्मिन् बहुवचनम् अन्यतरस्याम्

1.2.59

अस्मदो द्वयोश् च

1.2.60

फल्गुनी-प्रोष्ठपदानां च नक्षत्रे

1.2.61

छन्दसि पुनर्वस्वोरेकवचनम्

1.2.62

विशाखयोश् च

1.2.63

तिष्य-पुनर्वस्वोर् नक्षत्र-द्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्

1.2.64

ससूपाणाम् एकशेष एक-विभक्तौ

1.2.65

वृद्धो यूना तल्-लक्षणश् चेद्-एव विशेषः

1.2.66

स्त्री पुंवच्-च

1.2.67

पुमान् स्त्रिया

1.2.68

भ्रातृ-पुत्रौ स्वसृ-दुहितृभ्याम्

1.2.69

नपुंसकम् अनपुंसकेन-एकवच्-च-अस्य-अन्यतरस्याम्

1.2.70

पिता मात्रा

1.2.71

श्वशुरः श्वस्रवा

1.2.72

त्यद्-आदीनि सर्वैर् नित्यम्

1.2.73

ग्राम्य-पशु-सङ्घेष्व् अतरुणेशु स्त्री

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc