भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 1.1

1.1.1

वृद्धिर् आद्-ऐच्

1.1.2

अदेङ् गुणः

1.1.3

इको गुण-वृद्धी

1.1.4

न धातु-लोप आर्धधातुके

1.1.5

क्ङिति च

1.1.6

दीधी-वेवी-इटाम्

1.1.7

हलो ऽनन्तराः संयोगः

1.1.8

मुख-नासिका-वचनो ऽनुनासिकः

1.1.9

तुल्य-आस्य-प्रयर्नं सवर्णम्

1.1.10

न अज्-झलौ

1.1.11

ईद्-ऊद्-एद्-द्विवचनं प्रगृह्यम्

1.1.12

अदसो मात्

1.1.13

शे

1.1.14

निपात एक-अज्-अन्-आङ्

1.1.15

ओत्

1.1.16

सम्बुद्धौ शाकल्यस्य-इताव् अनार्षे

1.1.17

उञः

1.1.18

ऊं

1.1.19

ईद्-ऊतौ च सप्तम्य्-अर्थे

1.1.20

दा-धा घ्व्-अदाप्

1.1.21

आद्यन्तवद् एकस्मिन्

1.1.22

तरप्-तमपौ घः

1.1.23

बहु-गण-वतु-डति सङ्ख्या

1.1.24

ष्ण-अन्ता षट्

1.1.25

डति च

1.1.26

क्त-क्तवतू निष्ठा

1.1.27

सर्व-आदीनि सर्वनामानि

1.1.28

विभाषा दिक्षमासे बहुव्रीहौ

1.1.29

न बहुव्रीहौ

1.1.30

तृतीया-समासे

1.1.31

द्वन्द्वे च

1.1.32

विभाषा जसि

1.1.33

प्रथम-चरम-तय-अल्प-अर्ध-कतिपय-नेमाश् च

1.1.34

पूर्व-पर-अवरदक्षिण-उत्तर-अपर-अधराणि व्यवस्थायाम् असञ्ज्ञायाम्

1.1.35

स्वम् अज्ञाति-धन-आख्यायाम्

1.1.36

अन्तरं बहिर्योग-उपसंव्यानयोः

1.1.37

स्वरादि-निपातम् अव्ययम्

1.1.38

तद्धितश् च असर्व-विभक्तिः

1.1.39

कृन्-म्-एज्-अन्तः

1.1.40

क्त्वा-तोसुन्-कसुनः

1.1.41

अव्ययी-भावश् च

1.1.42

शि सर्वनाम-स्थानम्

1.1.43

सुड् अनपुंसकस्य

1.1.44

न वा-इति विभाषा

1.1.45

इग्-यणः सम्प्रसारणम्

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc