भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 1.3

1.3.1

भूवादयो धातवः

1.3.2

उपदेशे ऽज्-अनुनासिक इत्

1.3.3

हल्-अन्त्यम्

1.3.4

न विभक्तौ तुस्माः

1.3.5

आदिर् ञि-टु-डवः

1.3.6

षः प्रत्ययसय

1.3.7

दुटू

1.3.8

ल-श-क्व् अतद्धिते

1.3.9

तस्य लोपः

1.3.10

यथा-सङ्ख्यम् अनुदेशः समानाम्

1.3.11

स्वरितेन अधिकारः

1.3.12

अनुदात्तङित आत्मनेपदम्

1.3.13

भाव-कर्मणोः

1.3.14

कर्तरि कर्म-व्यतिहारे

1.3.15

न गति-हिंसा-अर्थेभ्यः

1.3.16

इतरेतर-अन्योन्य-उपपदाच् च

1.3.17

नेर् विशः

1.3.18

परिव्य्-अवेभ्यः क्रियः

1.3.19

विपराभ्यां जेः

1.3.20

अङो दो ऽनास्य-विहरणे

1.3.21

क्रीडो ऽनु-सं-परिभ्यश् च

1.3.22

समवप्रविभ्यः स्थः

1.3.23

प्रकाशन-स्थेय-आख्यहोश् च

1.3.24

उदो ऽनूर्ध्व-कर्मणि

1.3.25

उपान् मन्त्र-करणे

1.3.26

अकर्मकाच् च

1.3.27

उद्-विभ्यां तपः

1.3.28

आङो यम-हनः

1.3.29

समो गम्य्-ऋच्छि-प्रच्छि-स्वरत्य् अर्ति-श्रु-विदिघ्यः

1.3.30

नि-सम्-उप-विभ्यो ह्वः

1.3.31

स्पर्धायाम् आङः

1.3.32

गन्धन-अवक्षेपण-सेवन-साहसिक्य-प्रतिथत्न-प्रकथन-उपयोगेषु कृञः

1.3.33

अधेः प्रसहने

1.3.34

वेः शब्द-कर्मणः

1.3.35

अकर्मकाच् च

1.3.36

सम्मानन-उत्सञ्जन-आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु नियः

1.3.37

कर्तृस्थे च शरीरे कर्मणि

1.3.38

वृत्ति-सर्ग-तायनेषु क्रमः

1.3.39

उप-पराभ्याम्

1.3.40

आङ उद्गमने

1.3.41

वेः पाद-विहरणे

1.3.42

प्र-उपाभ्यां समर्थाभ्याम्

1.3.43

अनुपसर्गाद् वा

1.3.44

अपह्नवे ज्ञः

1.3.45

अकर्मकाच् च

1.3.46

सं-प्रतिभ्याम् अनाध्याने

1.3.47

भासन-उपसम्भाषा-ज्ञान-यत्न-विमत्य्-उपमन्त्रणेषु वदः

1.3.48

व्यक्तवाचां समुच्चारणे

1.3.49

अनोर् अकर्मकात्

1.3.50

विभाषा विप्रलापे

1.3.51

अवाद् ग्रः

1.3.52

समः प्रतिज्ञाने

1.3.53

उदश् चरः सकर्मकात्

1.3.54

संस् तृतीया-युक्तात्

1.3.55

दाणश् च सा चेच् चतुर्थ्य्-अर्थे

1.3.56

उपाद् यमः स्वकरने

1.3.57

ज्ञा-श्रु-स्मृ-दृशां सनः

1.3.58

न अनोर् ज्ञः

1.3.59

प्रत्य्-आङ्भ्यां श्रुवः

1.3.60

शदेः शितः

1.3.61

म्रियतेर् लुङ्-लिङोश् च

1.3.62

पूर्ववत् सनः

1.3.63

आम्-प्रत्ययवत् कृञो ऽनुप्रयोगस्य

1.3.64

प्र-उपाभ्यां युजेर् अयज्ञ-पात्रेषु

1.3.65

समः क्ष्णुवः

1.3.66

भुजो ऽनवने

1.3.67

णे रणौ यत् कर्म णौ चेत् स कर्ता ऽनाध्याने

1.3.68

भी-स्म्योर् हेतुभये

1.3.69

गृधि-वञ्च्योः प्रलम्भने

1.3.70

लियः संमानन-शालीनीकरणयोश् च

1.3.71

मिथ्योपपदात् कृञो ऽभ्यासे

1.3.72

स्वरित-ञितः कर्त्र्-अभिप्राये क्रियाफले

1.3.73

अपाद् वदः

1.3.74

णिचश् च

1.3.75

सम्-उद्-आङ्भ्यो यमो ऽग्रन्थे

1.3.76

अनुपसर्गाज् ज्ञः

1.3.77

विभाषा-उपपदेन प्रतीयमाने

1.3.78

शेषात् कर्तरि परस्मैपदम्

1.3.79

अनु-पराभ्यां कृञः

1.3.80

अभि-प्रत्य्-अतिभ्यः क्षिपः

1.3.81

प्राद्वहः

1.3.82

परेर् मृषः

1.3.83

व्य्-आङ्-परिभ्यो रमः

1.3.84

उपाच् च

1.3.85

विभाशा ऽकर्मकात्

1.3.86

बुध-युध-नश-जन-इङ्-प्रु-द्रु-स्रुभ्यो णेः

1.3.87

निगरण-चलन-अर्थेभ्यश् च

1.3.88

अणाव् अकर्मकाच् चित्तवत्-कर्तृकात्

1.3.89

न पादम्य्-आङ्यम-आङ्यस-परिमुह-रुचि-नृति-वद-वसः

1.3.90

वा क्यषः

1.3.91

ध्य्द्भ्यो लुङि

1.3.92

वृद्भ्यः स्यसनोः

1.3.93

लुटि च क्लुपः

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc