आर्यासप्तशती · श्लोक 389-408
प्रिय आयातो दूराद् इति या प्रीतिर् बभूव गेहिन्याः ।
पथिकेभ्यः पूर्वागत इति गर्वात् सापि शत-शिखरा
पृष्ठं प्रयच्छ मा स्पृश दूराद् अपसर्प विहित-वैमुख्य ।
त्वाम् अनुधावति तरणिस् तद् अपि गुणाकर्ष-तरलेयम्
प्रियया कुङ्कुम-पिञ्जर-पाणि-द्वय-योजनाङ्कितं वासः ।
प्रहितं मां याच्ञाञ्जलि-सहस्र-करणाय शिक्षयति
प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति ।
प्राग्-गिरि-पिहिता रात्रिः सन्ध्या-रागं दिनस्येव
पर-पति-निर्दय-कुलटाशोषित शठ नेष्यता न कोपेन ।
दग्ध-ममतोपतप्ता रोदिमि तव तानवं वीक्ष्य
प्राङ्गण एव कदा मां श्लिष्यन्ती मन्य्-कम्पि-कुच-कलशा ।
अंस-निषण्ण-मुखी सा स्नपयति बाष्पेण मम पृष्ठम्
प्रेतैः प्रशस्त-सत्त्वा साश्रु वृकैर् वीक्षिता स्खलद्-ग्रासैः ।
चुम्बति मृतस्य वदनं भूत-मुखोल्केक्षितं बाला
पिशुनः खलु सुजनानां खलम् एव पुरो विधाय जेतव्यः ।
कृत्वा ज्वरम् आत्मीयं जिगाय बाणं रणे विष्णुः
पिब मधुप बकुल-कलिकां दूरे रसनाग्र-मात्रम् आधाय ।
अधर-विलेप-समाप्ये मधुनि मुधा वदनम् अर्पयसि
प्रायेणैव हि मलिना मलिनानाम् आश्रयत्वम् उपयान्ति ।
कालिन्दी-पुट-भेदः कालिय-पुट-भेदनं भवति
पश्य प्रिय-तनु-विघटन-भयेन शशि-मौलि-देह-संलग्ना ।
सुभगैक-दैवतम् उमा शिरसा भागीरथीं वहति
पथिक-वधू-जन-लोचन-नीर-नदी-मातृक-प्रदेशेषु ।
धन-मण्डलम् आखण्डल-धनुषा कुण्डलितम् इव विधिना
प्रतिवेशि-मित्र-बन्धुषु दूरात् कृच्छ्रागतो ऽपि गेहिन्या ।
अतिकेलि-लम्पटया दिनम् एकम् अगोपि गेह-पतिः
पर-पट इव रजकीभिर् मलिनो भुक्त्वापि निर्दयं ताभिः ।
अर्थ-ग्रहणेन विना जघन्य मुक्तो ऽसि कुलटाभिः
इति विभाव्याख्या-समेता प-कार-व्रज्या ॥
ब-कार-व्रज्या
बहु-योषिति लाक्षारुण-शिरसि वयस्येन दयित उपहसिते ।
तत्-काल-कलित-लज्जा पिशुनयति सखीषु सौभाग्यम्
बन्धन-भाजो ऽमुष्याश् चिकुर-कलापस्य मुक्तमानस्य ।
सिन्दूरित-सीमन्त-च्छलेन हृदयं विदीर्णम् इव
बलम् अपि वसति मयीति श्रेष्ठिनि गुरु-गर्व-गद्गदं वदति ।
तज्-जायया जनानां मुखम् ईक्षितम् आवृत-स्मितया
बलवद् अनिलोपनीत-स्फुटित-नवाम्भोज-सौरभो मधुपः ।
आकृष्यते नलिन्या नासा-निक्षिप्त-बडिश-रज्जुर् इव
बाणं हरिर् इव कुरुते सुजनो बहुदोषम् अप्य् अदोषम् इव ।
यावद् दोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः
बौद्धस्येव क्षणिको यद्यपि बहु-वल्लभस्य तव भावः ।
भग्ना भग्ना भ्रूर् इव न तु तस्या विघटते मैत्री
मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0