भाषा

ENहिગુ
ग्रंथ पाठ

आर्यासप्तशती · श्लोक 369-388

369

परितः स्फुरित-महौषधि-मणि-निकरे केलि-तल्प इव शैले ।
काञ्ची-गुण इव पतितः स्थितैक-रत्नः फणी स्फुरति

370

प्रावृषि शैल-श्रेणी-नितम्बम् उह्हन् दिग्-अन्तरे भ्रमसि ।
चपलान्तर घन किं तव वचनीयं पवन-वश्यो ऽसि

371

प्रति-दिवस-क्षीण-दशस् तवैष वसनाञ्चलो ऽतिकर-कृष्टः ।
निज-नायकम् अतिकृपणं कथयति कुग्राम इव विरलः

372

पथिक कथं चपलोज्ज्वलम् अम्बुद-जल-बिन्दु-निह्वहम् अविषह्यम् ।
मयपुर-कनक-द्रवम् इव शिव-शर-शिखि-भावितं सहसे

373

पथिकं श्रमेण सुप्तं दर-तरला तरुणि सुमधुर-च्छाया ।
व्यालम्बमान-वेणिः सुखयसि शाखेव सारोहा

374

प्रददाति नापरासां प्रवेशम् अपि पीन-तुङ्ग-जघनोरूः ।
या लुप्त-कील-भावं याता हृदि बहिर् अदृश्यासि

375

प्रातर् निद्राति यथा यथात्मजा लुलित-निःसहैर् अङ्गैः ।
जामातरि मुदित-मनास् तथा तथा सादरा श्वश्रूः

376

प्रणय-चलितो ऽपि सकपट-कोप-कटाक्षैर् मयाहित-स्तम्भः ।
त्रास-तरलो गृहीतः सहास-रभसं प्रियः कण्ठे

377

प्रिय-दुर्नयेन हृदय स्फुटसि यदि स्फुटनम् अपि तव श्लाघ्यम् ।
तत्-केलि-समर-तल्पी-कृतस्य वसनाञ्चलस्येव

378

पवनोपनीत-सौरभ-दूरोदक-पूर-पद्मिनी-लुब्धः ।
अपरीक्षित-स्वपक्षो गन्ता हन्तापदं मधुपः

379

प्रेम-लघू-कृत-केशव- वक्षो-भर-विपुल-पुलक-कुच-कलशा ।
गोवर्धन-गिरि-गुरुतां मुग्ध-वधूर् निभृतम् उपहसति

380

प्रिय-विरह-निःसहायाः सहज-विपक्षाभिर् अपि सपत्नीभिः ।
रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृह-भङ्ग-भीताभिः

381

प्रकटयसि रागम् अधिकं लपनम् इदं वक्रिमाणम् आवहति ।
प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य

382

प्रविशन्त्याः प्रिय-हृदयं बालायाः प्रबल-यौवत-व्याप्तम् ।
नव-निशित-दर-तरङ्गित-नयन-मयेनासिना पन्थाः

383

प्रणयापराध-रोष-प्रसाद-विश्वास-केलि-पाण्डित्यैः ।
रूढ-प्रेमा ह्रियते किं बाला-कुतुक-मात्रेण

384

पूर्वैर् एव चरितैर् जरतो ऽपि पूज्यता भवतः ।
मुञ्च मदम् अस्य गन्धाद् युवभिर् गज गऊजनीयो ऽसि

385

प्रथमं प्रवेशिता या वासागारं कथञ्चन सखीभिः ।
न शृणोतीव प्रातः सा निर्गमनस्य सङ्केतम्

386

पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च ।
तद्-उभय-विप्रतिपन्नः पश्यतु गीर्-वाण-पाषाणम्

387

पूर्वाधिको गृहिण्यां बहु-मानः प्रेम-नर्म-विश्वासः ।
भीर् अधिकेयं कथयति रागं बाला-विभक्तम् इव

388

पुलिकत-कठोर-पीवर-कुच-कलशाश्लेष-वेदनाभिज्ञः ।
शम्भोर् उपवीत-फणी वाञ्छति मान-ग्रहं देव्याः

मूल पाठ: Āryāsaptaśatī · Edition: Ramakant Tripathi, Varanasi : Chowkhamba Vidyabhawan, 1965 (Vidyabhawan Sanskrit Granthamala 127) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc