आर्यभटीय · अध्याय 2
ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भ-गणान् @नमस्-कृत्य।
आर्यभटस् तु इह @निगदति कुसुम-पुरे अभ्यर्चितम् ज्ञानम्॥
%एकम् %दश च %शतम् च %सहस्रम् %अयुत-%नियुते तथा %प्रयुतम्।
%कोटि-%अर्बुदम् च %वृन्दम् स्थानात् स्थानम् %दश-गुणम् @स्यात्॥
वर्गस् सम-%चतुर्-अश्रस् फलम् च सदृश-%द्वयस्य संवर्गस्।
सदृश-%त्रय-संवर्गस् घनस् तथा %द्वादश-अश्रिस् @स्यात्॥
भागम् @हरेत् अवर्गान् नित्यम् %द्वि-गुणेन वर्ग-मूलेन।
वर्गात् वर्गे शुद्धे लब्धम् स्थान-अन्तरे मूलम्॥
अघनात् @भजेत् %द्वितीयात् %त्रि-गुणेन घनस्य मूल-वर्गेण।
वर्गस् %त्रि-पूर्व-गुणितस् शोध्यस् %प्रथमात् घनस् च घनात्॥
%त्रि-भुजस्य फल-शरीरम् सम-#दल-कोटी-भुजा-%अर्ध-संवर्गस्।
ऊर्ध्व-भुजा-तद्-संवर्ग-%अर्धम् सस् घनस् %षष्-अश्रिस् इति॥
सम-परिणाहस्य-%अर्धम् विष्कम्भ-%अर्ध-हतम् एव वृत्त-फलम्।
तद्-निज-मूलेन हतम् घन-गोल-फलम् निरवशेषम्॥
आयाम-गुणे पार्श्वे तद्-योग-हृते स्व-पात-लेखे।
विस्तर-योग-%अर्ध-गुणे ज्ञेयम् क्षेत्र-फलम् आयामे॥
सर्वेषाम् क्षेत्राणाम् @प्रसाध्य पार्श्वे फलम् तद्-अभ्यासस्।
परिधेस् %षष्-भाग-ज्या विष्कम्भ-%अर्धेन सा तुल्या॥
%चतुर्-अधिकम् %शतम् %अष्ट-गुणम् %द्वाषष्टिस् तथा %सहस्राणाम्।
%अयुत-%द्वय-विष्कम्भस्य आसन्नस् वृत्त-परिणाहस्॥
सम-वृत्त-परिधि-पादम् @छिन्द्यात् %त्रि-भुजात् %चतुर्-भुजात् च एव।
सम-चाप-ज्या-%अर्धानि तु विष्कम्भ-%अर्धे यथा इष्टानि॥
%प्रथमात् चाप-ज्या-%अर्धात् यैर् ऊनम् खण्डितम् %द्वितीय-%अर्धम्।
तद्-%प्रथम-ज्या-%अर्ध-अंशैस् तैस् तैस् ऊनानि शेषाणि॥
वृत्तम् भ्रमेण साध्यम् च %चतुर्-भुजम् च कर्णाभ्याम्।
साध्या जलेन सम-भूस् अधस्-ऊर्ध्वम् लम्बकेन एव॥
शङ्कोस् प्रमाण-वर्गम् छाया-वर्गेण संयुतम् @कृत्वा।
यत् तस्य वर्ग-मूलम् विष्कम्भ-%अर्धम् स्व-वृत्तस्य॥
शङ्कु-गुणम् शङ्कु-भुजा-विवरम् शङ्कु-भुजयोर् विशेष-हृतम्।
यत् लब्धम् सा छाया ज्ञेया शङ्कोस् स्व-मूलात् हि॥
छाया-गुणितम् छाया-अग्र-विवरम् ऊनेन भाजितम् कोटी।
शङ्कु-गुणा कोटी सा छाया-भक्ता भुजा @भवति॥
यस् च एव भुजा-वर्गस् कोटी-वर्गस् च कर्ण-वर्गस् सस्।
वृत्ते शर-संवर्गस् %अर्ध-ज्या-वर्गस् सस् खलु धनुषोस्॥
ग्रास-ऊने %द्वे वृत्ते ग्रास-गुणे @भाजयेत् पृथक्त्वेन।
ग्रास-ऊन-योग-लब्धौ संपात-शरौ परस्पर-तस्॥
इष्टम् वि-%एकम् दलितम् स-पूर्वम् उत्तर-गुणम् स-मुखम् मध्यम्।
इष्ट-गुणितम् इष्ट-धनम् तु अथ वा आदि-अन्तम् पद-%अर्ध-हतम्॥
गच्छस् %अष्ट-उत्तर-गुणितात् %द्वि-गुण-आदि-उत्तर-विशेष-वर्ग-युतात्।
मूलम् %द्वि-गुण-आदि-ऊनम् स्व-उत्तर-भजितम् स-#रूप-अर्धम्॥
%एक-उत्तर-आदि-उपचितेस् गच्च-आदि-%एक-उत्तर-%त्रि-संवर्गस्।
%षष्-भक्तस् सस् चिति-घनस् स-%एक-पद-घनस् वि-मूलस् वा॥
स-%एक-स-गच्छ-पदानाम् क्रमात् %त्रि-संवर्गितस्य %षष्ठस् अंशस्।
वर्ग-चिति-घनस् सस् @भवेत् चिति-वर्गस् घन-चिति-घनस् च॥
सम्पर्कस्य हि वर्गात् @विशोधयेत् एव वर्ग-सम्पर्कम्।
यत् तस्य @भवति %अर्धम् @विद्यात् गुण-कार-संवर्गम्॥
%द्वि-कृति-गुणात् संवर्गात् %द्वि-अन्तर-वर्गेण संयुतात् मूलम्।
अन्तर-युक्तम् हीनम् तद्-गुण-कार-%द्वयम् दलितम्॥
मूल-फलम् स-फलम् काल-मूल-गुणम् %अर्ध-मूल-कृति-युक्तम्।
तद्-मूलम् मूल-%अर्ध-ऊनम् काल-हृतम् स्व-मूल-फलम्॥
त्रैराशिक-फल-राशिम् तम् अथ इच्छा-राशिना हतम् @कृत्वा।
लब्धम् प्रमाण-भजितम् तस्मात् इच्छा-फलम् इदम् @स्यात्॥
छेदास् परस्पर-हतास् @भवन्ति गुण-कार-भाग-हाराणाम्।
छेद-गुणम् स-छेदम् परस्परम् तत् सवर्णत्वम्॥
गुण-कारास् भाग-हरास् भाग-हरास् ते @भवन्ति गुण-कारास्।
यस् क्षेपस् सस् अपचयस् अपचयस् क्षेपस् च विपरीते॥
राशि-ऊनम् राशि-ऊनम् गच्छ-धनम् पिण्डितम् पृथक्त्वेन।
वि-%एकेन पदेन हृतम् सर्व-धनम् तत् @भवति एवम्॥
गुलिका-अन्तरेण @विभजेत् %द्वयोस् पुरुषयोस् तु रूपक-विशेषम्।
लब्धम् गुलिका-मूल्यम् यदि अर्थ-कृतम् @भवति तुल्यम्॥
भक्ते विलोम-विवरे गति-योगेन अनुलोम-विवरे %द्वौ।
गति-अन्तरेण लब्धौ %द्वि-योग-कालौ अतीत-ऐष्यौ॥
अधिक-अग्र-भाग-हारम् @छिन्द्यात् ऊन-अग्र-भाग-हारेण।
शेष-परस्पर-भक्तम् मति-गुणम् अग्र-अन्तरे क्षिप्तम्॥
अधस्-उपरि-गुणितम् अन्त्य-युज्-ऊन-अग्र-छेद-भाजिते शेषम्।
अधिक-अग्र-छेद-गुणम् %द्वि-छेद-अग्रम् अधिक-अग्र-युतम्॥
काष्ठ-मयम् सम-वृत्तम् समन्ततस् सम-गुरुम् लघुम् गोलम्।
मूल पाठ: Āryabhaṭīya · Edition: K.S. Shukla's edition, New Delhi: INSA 1976. · Data entry T. Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0