आर्यभटीय (टीका सहित) · अध्याय 46
ताराग्रहाः भौमबुधबृहस्पतिशुक्रशनैश्चराः, ताराग्रहेन्दुपाताः भ्रमन्ति अजस्रम् अव्यवच्छेदेन, अपमण्डले अपक्रममण्डले, अर्कः च न केवलम् एते ताराग्रहेन्दुपाताः अपमण्डले भ्रमन्ति, अर्कः च । तत्र अपमण्डले अजस्रम् अर्कः च भ्रमति । अर्कात् च मण्डलार्धे अर्कात् पुनर् मण्डलार्धे षड्राश्यन्तरे, भ्रमति हि तस्मिन् तत्र मण्डलार्धे, भूच्छाया । यथा स्तम्भादीनाम् प्रदीपवशात् छाया भ्रमति, एवम् भुवः अपि अर्कवशात्,
न केवलम् ताराग्रहेन्दुपाताः इति ।
पातानाम् अपक्रममण्डले गतिः उक्ता । तत् किम् इदानीम् अर्कात् मण्डलार्धे भूच्छाया भ्रमति इति उच्यते । न च भूच्छायाव्यतिरिक्तः पातः अस्ति चन्द्रमसः । न एषः दोषः । सर्वेषाम् एव ताराग्रहाणाम् ये पाताः ते अपक्रममण्डले भ्रमन्ति । चन्द्रमसः पुनर् पातः अर्कात् मण्डलार्धे अपक्रममण्डले भ्रमति इति एतत् एव अर्थम् । "अर्कात् च मण्डलार्धे भ्रमति हि तस्मिन् क्षितिच्छाया" इति कथयति । ननु च बुधादीनाम् ये पाताः ते निश्चलाः तेषाम्
निश्चलानाम् कथम् अपक्रममण्डलगतिः उच्यते ? न ते निश्चलाः, "नवराषह गत्वा अंशकान् प्रथमपाताः" [गीतिकाí, 9] इति अत्र "गत्वा"-शब्देन तेषाम् गत्युपदेशात् ।
"ताराग्रहेन्दुपाताः" इति इयम् आर्या किम् अर्थम् आरभ्यते? ताराग्रहादीनाम् गतिः अपक्रममण्डले विज्ञायते । उक्तम् च "भापक्रमः ग्रहांशाः" [गीतिकाí, 8] इति सर्वे[षाम् गतिमता]म् एते अपक्रमभागाः इति । यदि च गीतिकोक्तम् अपि अत्र पुनर् उच्यते, तदा तर्हि बहु अत्र अभिधेयम् इति । अथवा रवेः चक्रार्धे भूच्छाया भ्रमति इति एतत् प्रदर्शयितव्यम् स्यात्, तत् च न प्रदेशान्तरप्रदर्शितत्वात् । "भूरविविवरम् विभजेत्" [गोलí, 39] इति अत्र प्रदीपच्छायोपपत्या
भूच्छायानयनम् उपदिशेत् । रवेः चक्रार्धे भूच्छाया भ्रमति इति एतत् प्रदर्शयति, यतः हि शङ्कः ऋजुस्थितस्य प्रदीपस्य तत् ऋजुप्रवृत्तच्छाया । तस्मात् इयम् आर्या आरब्धव्या इति
[ विक्षेपमण्डलचारिणः ]
ग्रहाणाम् विक्षेपमण्डलप्रदर्शनाय आह ã
अपमण्डलस्य चन्द्रः पातात् याति उत्तरेण दक्षिणतः ।
कुजगुरुकोणाः च एवम् शीघ्रोच्चेन अपि बुधशुक्रौ
अपमण्डलस्य । अपमण्डलम् अपक्रममण्डलम् । अपक्रममण्डलस्य चन्द्रः । अपमण्डलसंबन्धी चन्द्रः "अपमण्डलस्य चन्द्रः" इति उच्यते । अपमण्डलसंस्थितः वा चन्द्रः अपमण्डलस्य चन्द्रः, यथा ã कुसूलस्य व्रीहयः । अथवा अधिकरणार्था इयम् षष्ठी, यतः हि एकशतम् षष्ठ्यर्थाः, अपमण्डले चन्द्रः इति एतस्मिन् अर्थे । स अपमण्डलव्यवस्थितः चन्द्रः पातात् याति गच्छति । पातशब्देन चन्द्रमसः विक्षेपापक्रममण्डलयोः संयोगः
अभिधीयते । तस्य च संयोगस्य प्रतिक्षणम् गतिमत्त्वात्, सा गतिः पातशब्देन अभिधीयते, उपचारात् । अतः स गतिसंज्ञितः पातः यस्मिन् राशौ यावतिथे भागे वर्तते तस्मिन् राशौ तावतिथे भागे अपक्रममण्डलप्रमाणम् एव अन्यत् मण्डलम् तस्मिन् बध्वा द्वितीयम् अर्धम् चक्रार्धान्तरे तथा एव बध्नीयात् यथा तत् अपक्रममण्डलात् उत्तरेण अवतिष्ठते तस्य [प्रथमम् अर्धम्], यथा द्वितीयम् अर्धम् वा दक्षिणेन उपलक्ष्यते । एवम् च प्रथमपातात्
अपक्रममण्डलस्य उत्तरेण विक्षेपमण्डलम्, द्वितीयपातात् च दक्षिणेन, उभयत्र चक्रचतुर्भागान्तरे यथा अर्धपञ्चमाः भागाः तस्य च अपक्रममण्डलस्य अन्तरे भवन्ति तथा बध्नीयात् विक्षेपमण्डलम् । तस्मिन् चन्द्रमाः भ्रमति । विषुवतः उत्तरेण दक्षिणेन वा तत् अपक्रममण्डलम् । तस्मात् अपक्रममण्डलात् उत्तरेण दक्षिणेन वा विक्षेपमण्डलम् प्रदर्शयेत् ।
चन्द्रस्य च विक्षेपमण्डलव्यवस्थितस्य विषुवतः च अन्तरानयने इयम् युक्तिः ã स्फुटचन्द्रमसः भुजज्यया त्रैराशिकम् ã यदि व्यासार्धतुल्यया भुजज्यया चतुर्विंशत्यपक्रमभागज्या लभ्यते ततः चन्द्रभुजज्यया का इति, अपक्रमभागज्या लभ्यते । ततः पातात् अपक्रममण्डलव्यवस्थितः चन्द्रः दक्षिणेन उत्तरेण वा याति इति उक्तवान् । पातावधि परिज्ञानाय स्फुटचन्द्रमसः पातः विशोध्यते, तत्र विशेषस्य या ज्या तया त्रैराशिकम् ã यदि
व्यासार्धज्यया चन्द्रविक्षेपभागज्या लभ्यते अनया इष्टज्यया का इति, इष्टविक्षेपज्या लभ्यते । तयोः विक्षेपापक्रमज्ययोः काष्ठीकृतयोः तुल्यदिक्कयोः योगः, यस्मात् अपक्रममण्डलात् परतः चन्द्रः वर्तते । भिन्नदिक्कयोः विशेषः, यस्मात् आरात् अपक्रममण्डला[त् विक्षेपमण्डलम्] चन्द्रः च । गोले यथार्थम् प्रदर्शयेत् । योगविश्लेषभागानाम् या ज्या तावत् अन्तरम् विषुवतः चन्द्रमसः च । ज्याप्रमाणेन काष्ठप्रमाणम् उक्तम् ।
कुजगुरुकोणाः च एवम् भौमबृहस्पतिशनैश्चराः च । यथा चन्द्रः स्वस्मात् पातात् उत्तरेण दक्षिणेन वा अपक्रममण्डलस्थितः याति, एवम् एव कुजगुरुकोणाः । एतेषाम् विक्षेपमण्डलानि विक्षेपापक्रमयोगविशेषयुक्तयः चन्द्रवत् प्रतिपत्तव्याः । चकारः एतत् एव अर्थम् समुच्चिनोति ।
शीघ्रोच्चेन अपि बुधशुक्रौ । शीघ्रोद्भूतेन बुधशुक्रौ पातात् विक्षेपमण्डलयोः भ्रमतः । एतयोः शीघ्रोच्चौ अपक्रममण्डले पातभागप्रमाणगती भवतः । पातभा[गात् तत्तत्प्रदेशे] विक्षेपमण्डले बध्नीयात् । [एवम् तर्हि] एतयोः अपक्रमपरिज्ञानम् अपि शीघ्रोच्चात् एव । कुतः? अपक्रममण्डलात् पातात् विक्षेपम् ब्रुवता तदुच्चयोः अपक्रममण्डलस्थितिः प्रदर्शिता भवति, यतः अपक्रममण्डलस्थितः विक्षेपमण्डले प्रवर्तते । [ते]न
सम्यक् इदम् अवगम्यते ã एतयोः अपक्रमम् अपि शीघ्रोच्चात् इति । कुतः विक्षेपस्य एव केवलस्य? "शीघ्रोच्चेन अपि बुधशुक्रौ" इति शीघ्रोच्चात् पातप्रवृत्तात् एतयोः विक्षेपपरिज्ञानम् उच्यते, नापमपरिज्ञानम् । अतः स्वतः ए[व ए]तयोः अपक्रमानयनम् शीघ्रोच्चात् । एवम् अपि अपक्रममण्डलस्थितौ एतौ विक्षेपमण्डले प्रतर्तते इति एत[त् उपप]न्नम् एव । एतत् कुतः विक्षेपपरिज्ञानमात्रम् एव एतयोः? उपायान्तरेण विक्षिप्तम् पुनर् स्वतः एव अपमण्डलात् प्रतियक्षेण
उपदिष्टम्, चन्द्रविक्षेपप्रदर्शितम् एव अर्थविशेषम् सम्भावयति । सर्वेषाम् एव विक्षेपः अपक्रममण्डलात् उत्तरेण दक्षिणेन च । [पातात्] चक्रचतुर्भागान्तरे यथा उक्ताः [विक्षे]पभागाः विक्षेपापक्रममण्डलयोः अन्तरे यथा अवतिष्ठन्ते तथा प्रदर्श्यन्ते । "अपमण्डलस्य चन्द्रः पातात् याति" इति एतत् अपि गीतिकासु उपपदिष्ट[पातानुसारेण अव]धेयम् । शशी विक्षेपमण्डलस्थितपातात् प्रभृति विक्षेपमण्डले प्रवर्तते, इति एतत् अनुक्तम् न गम्यते । "शीघ्रोच्चेन
अपि बुधशुक्रौ" इति ए[तत् अपि] वक्तव्यम् । अतः अवश्यम् एतत् आर्यासूत्रम् वक्तव्यम्
[ ग्रहाणाम् कालांशाः ]
ग्रहाणाम् उदयास्तमयपरिज्ञानाय आदित्यग्रहान्तरभागान् आह ã
चन्द्रः अंशैः द्वादशभिः अविक्षिप्तः अर्कान्तरस्थितः दृश्यः ।
नवभिः भृगुः भृगोः तैः द्व्यधिकैः द्व्यधिकैः यथा श्लक्ष्णाः
चन्द्रः अंशैः द्वादशभिः । अयम् अंशशब्दः सामान्येन विभागमात्रवाची । तेन "सामान्यचोदनाः च विशेषे अवतिष्ठन्ते" इति अंशविशेषेषु अवस्थाप्यन्ते । विशेषः च कालांशता । एते कालविभागाः । ते कालभागाः उच्यन्ते । "प्राणेन एति कलाम् भम्" [गीतिकाí, 6] इति उक्तम् । तेन उच्छ्वासप्राणस्य लिप्तासंज्ञात्वम् । ततः प्राणानाम् सप्तशतस्य विंशत्यधिकस्य [720] द्वादश भागाः, घटिकाद्वयम् इति अर्थः । यतः घटिकाद्वयस्य प्राणाः सप्तशतानि विंशत्यधिकानि
[720] । अथवा सूर्यात् पश्चात् प्राक् वा कालेन अन्तरितः ग्रहः यस्मात् [दृश्यः तस्मात्] कालांशत्वम् । एवम् कालभागैः द्वादशभिः अन्तरितः चन्द्रः । अविक्षिप्तः, न विक्षिप्तः अविक्षिप्तः । अर्कान्तरस्थितः । अर्कात् अन्तरम् अर्कान्तरम्, तस्मिन् अर्कांतरे द्वादशकालांश-प्रमाणेन अविक्षिप्तः व्यवस्थितः, नभसि व्यपेताभ्रतमसि लक्ष्यते ।
यदा पुनर् असौ विक्षिप्तः घटिकाद्वयात् ऊनाधिके काले दृश्यते, यस्मात् अर्कात् उत्तरेण विक्षिप्तः चन्द्रः गोलस्य उत्तरोन्नतत्वात् ऊने अपि घटिकाद्वये काले दृश्यते, दक्षिणविक्षिप्तः च उन्नतत्वात् गोलस्य दक्षिणेन घटिकाद्वयाधिककाले दृश्यते । तस्मात् उक्तम् अविक्षिप्तः इति । तस्मात् विक्षेपकर्मकृत्वा एतत् अन्तरम् आलोच्यते ।
नवभिः भृगुः । तथा एव कालभागैः नवभिः अर्कान्तरस्थितः अविक्षिप्तः भृगुः दृश्यते । नवभिः कालभागैः विक्षिप्तस्य विक्षेपकर्म चन्द्रवत् एव । भृगोः तैः । भृगोः शुक्रस्य ये भागाः । नवभिः भृगुः तैः द्व्यधिकैः द्व्यधिकैः इति एतावता सिद्धे पुनर् भृगुग्रहणम् कुर्वन् आचार्यः ज्ञापयति ã भृगोः इयम् काष्ठभागाः नव इति, तेभ्यः एव नवभ्यः गुर्वाद्यन्तरभागप्रतिपत्तिः । अन्यथा हि अयम् भृगुः अतः न्यूनेषु अपि त्रिषु
चतुर्षु वा अन्तरितः वक्रकाले उदयास्तमयौ कुर्वन् लक्ष्यते इति एतत् पुनर् भृगुग्रहणम् । तैः द्व्यधिकैः द्व्यधिकैः इति वीप्साग्रहणम् च भागद्वयान्तरग्रहणार्थम् । अन्यथा हि सर्वेषाम् एव नव एव भागाः स्युः ।
यथा श्लक्ष्णाः । एते ग्रहाः श्लक्ष्णाः परिहीयमानशरीराः प्रतिपादिताः तथा द्व्यधिकैः द्व्यधिकैः अर्कान्तरस्थिताः अविक्षिप्ताः सन्तः दृश्यन्ते । उक्तः च एषाम् यथाश्लक्ष्णक्रमः ã
भृगुगुरुबुधशनिभौमाः शशि-ङ-ञ-ण-न-मांशाकाः । [गीतिकाí, 7]
इति । भृगोः भागैः द्व्यधिकैः बृहस्पतिः दृश्यते षड्भागोनघटिकाद्वयेन, तैः द्व्यधिकैः बृहस्पतेः त्रयोदशभिः षड्भागोत्तरघटिकाद्वयेन बुधः, बुधभागैः द्व्यधिकैः शनैश्चरः सार्धेन घातिकाद्वयेन, शनैश्चरभागैः द्व्यधिकैः भौमः षड्भागोनघटिकात्रयेण, एतावद्भिः कालभागैः अन्तरिताः दृश्यन्ते इति उक्तम् । अदर्शनम् पुनर् एषाम् कथम् अवगम्यते? केचित् तावत् आहुः ã एतावद्भिः एव भागैः । कुतः? तुल्यता संहितायाम्
। अर्कान्तरस्थितः दृश्यः अदृश्यः च । कथम् एतावद्भिः एव बागैः दृश्यः अदृश्यः च? यदा अर्कात् निष्क्रामति ग्रहः तदा तावद्भिः एव दृश्यते, यदा स एव अर्कम् प्रविशति तदा [तावद्भि]ः एव अन्तरितः न दृश्यते । एतत् च [न] ã यावता निष्क्रामतः प्रविशतः वा ग्रहस्य तुल्यम् इदम् अन्तरम्, तेन दृश्येन वा ग्रहेण भवितव्यम् अदृश्येन वा । स तावत् इष्टकालांशकैः दृश्यः एव उपलभ्यते । तस्मात् तुल्यसंहिताव्याख्यानम् असत् इति । कथम् तर्हि? उच्यते ã एतावद्भिः
एव भागैः अर्कान्तरस्थितः निष्क्रामत् प्रविशत् वा दृश्यते । ऊनैः अतः दृश्यते इति अर्थात् अवगम्यते, अधिकैः पुनर् नितराम् दृश्यते इति एतत् अशास्त्रज्ञः अपि जानाति ।
कालानयनम् पुनर् अत्र देशान्तराक्षविशेषराश्युदयप्रमाणैः परिकल्प्यते । तत् यथा ã यदि त्रिंशता स्वदेशराश्युदयकालः लभ्यते तदा इदानीम् निष्पन्नार्कग्रहान्तरभागैः कः इति, कालः लभ्यते । स यदि अभीष्टग्रहान्तरकालेन तुल्यः तदा असौ ग्रहः दृश्यते, ऊने अस्तम् गतः, अधिके नितराम् दृश्यते । अथवा स्वदेशराश्युदयेन त्रिंशता च त्रैराशिकम् कृत्वा सर्वराशिषु अन्तरभागानयनम् ã यदि राश्युदयकालेन त्रिंशद्भागाः लभ्यन्ते
तदा इष्टग्रहान्तराभिहितकालेन कियन्तः इति सर्वराशिषु अन्तरभागाः लभ्यन्ते । तैः वा सकृत्सिद्धैः एव अन्तरभागैः इष्टदेशे ग्रहस्य दर्शनम् वक्तव्यम् । ग्रहाणाम् पूर्वोदयास्तमययोः इदम् कर्म । अपरोदयास्तमययोः तत्सप्तमराश्युदयकालेन एतत् परिकल्पनम्, यस्मात् उदयराशिवशात् एव अस्तम् राशयः गच्छन्ति
[ भूग्रहादीनाम् प्रकाशहेतुः ]
धरित्रीग्रहनक्षत्रताराणाम् प्रकाशहेतुप्रदर्शनाय आह ã
भूग्रहभानाम् गोलार्धानि स्वच्छायया विवर्णानि ।
अर्धानि यथासारम् सूर्याभिमुखानि दीप्यन्ते
भूः पृथिवी । ग्रहाः सूर्यादयः । भानि ज्योतींषि नक्षत्राणि । भूः च ग्रहाः च भानि च भूग्रहभानि, तेषाम् भूग्रहभानाम् । गोलार्धानि । धरित्र्यादीनाम् शरीराणि गोलशब्देन उच्यन्ते । अतः तेषाम् गोलानाम् अर्धानि गोलाकारशरीरार्धानि इति यावत् ।
कथम् एते ग्रहादयः गोलाकारशरीराणि प्रतिपद्यन्ते? भुवम् तावत् अन्ये शकटाकाराम् दर्पणवृत्ताकाराम् च मन्यन्ते । न एतत् एवम् । यथा गोलाकारा भूः प्रतिपद्यते तथा उत्तरतः वक्ष्यामि । कथम् पुनर् अत्र अमी ग्रहाः गोलाकाराः प्रतिपद्यन्ते? अथ च दर्पणवृत्ताकारौ सूर्याचन्द्रमसौ लक्ष्येते, एवम् अन्ये अपि । अन्यत् च ã स्थित्यर्धादिपरिलेखनप्रक्रिया च गोलाकारशरीरेषु न घटते । न एतत् अस्ति । एते ग्रहादयः गोलशरीराः अपि सन्तः
दूरदेशवर्तित्वात् दर्पणवृत्ताकाराः उपलक्ष्यन्ते । या स्थित्यर्धादिपरिलेखनप्रक्रिया सा दृग्विषया, तस्याः दृग्विषयत्वात् यथादर्शनगतानि एव बिम्बसंस्थानानि अङ्गीकृत्य आचार्येण उक्तम् । अथवा गोलाकारेषु अपि स्थित्यर्धाद्युपपत्तिः शक्यते वक्तुम् । यस्मात् विक्षेपादयः बिम्बमध्यात् प्रवृत्ताः तावत् ज्ञात्वा गोलकानाम् बिम्बार्धम् दर्पणवृत्ताकारः इव यथा भ्रमन् निष्पादितः समुद्गतः तस्याः उदरम् दर्पणवृत्ताकारम् एव उपलक्ष्यते, तस्मात् गोलाकारात्
अपि स्थित्यर्धाद्युपपत्तिसिद्धिः च । अतः परमार्थतः एव गोलाकाराः, अन्यथा हि चन्द्रमसः सितक्षयवृद्धी दर्पणवृत्ताकारे बिम्बे न संवदेते । तस्मात् गोलाकारशरीराः एते । उक्तम् च ã
सूर्यः अग्निमयः गोलः चन्द्रः अम्बुमयः स्वभावतः स्वच्छः । इति ।
स्वच्छायया विवर्णानि । स्वा च्छाया स्वच्छाया, तया स्वच्छायया अर्धानि एषाम् [विवर्णानि अप्रकाशात्मकानि कृष्णानि इति अर्थः, न ततः अन्यत्काराण]म् अस्ति वैवर्ण्यस्य । यथा घटस्य आतपस्थस्य एकम् पार्श्वम् स्वच्छायया एव विवर्णम्, एवम् अत्र अपि । या[नि अर्धानि] प्रकाशन्ते तानि सूर्याभिमुखानि । अर्धानि । तेषाम् गोलानाम् अर्धानि, यावन्ति अवशिष्टानि स्वच्छायावैवर्ण्यानि व्यतिरिक्तानि । यथासारम् । अल्पानाम् अल्पानि, महताम् महान्ति । सूर्याभिमुखानि,
आदित्याभिमुखानि । दीप्यन्ते चकासन्ति ।
[ चन्द्रस्य सितभागः ]
यदि अर्धानि ग्रहाणाम् सूर्याभिमुखानि चकासन्ति तदा किम् इति चन्द्रमसः अर्धबिम्बम् सर्वदा न चकास्ति? चकास्ति एव । किम् इति न उपलभ्यते? उच्यते ã अमावास्यायाम् चन्द्रमसः उपरि आदित्यः तदा तस्य चन्द्रमसः उपरि यत् बिम्बार्धम् तत् अशेषम् अवभासयति । चन्द्रस्य अमावास्योपलक्षितोपरिबिम्बकेन्द्रात् यथा यथा पश्चात् आदित्यः अवलम्बते तथा तथा बिम्बकेन्द्रम् अपि अपरतः अवलम्बते । तत् केन्द्रवशात् चन्द्रमसः बिम्बार्धम् यावत्
एव अमावास्योपलक्षितम् बिम्बपरिध्यर्धावधेः अवलम्बते तावत् चन्द्रमसः बिम्बम् अस्माभिः उपलक्ष्यते । शेषम् उपरिस्थितत्वात् न उपलक्ष्यते । सूर्याभिमुखम् अपि सवितृकरा[त् छादितम् अपि न दृश्यते] । तस्मात् यावत् यावत् चन्द्रमसः बिम्बम् सवितृबिम्बात् श्लक्ष्णम् अवलम्बते तावान् स्वच्छः चन्द्रमसः शुक्लः उपलक्ष्यते । तेन च अमी ज्योत्स्नावितानावभासिनः चन्द्रकराः । तेन तर्हि सवितृमरीचयः तु स[लिल]मये स्वभावात् एव [स्वच्छ]चन्द्रबिम्बे
सम्मूर्च्छिताः नैशम् ध्वान्तम् अवध्वांसयन्ति, यथा दर्पणे जले वा दिवसकराः सम्मूर्च्छिताः सन्तः गृहान्तर्गतम् तमः क्षपयन्ति ।
[ चन्द्रशृङ्गोन्नतिः ]
अन्यत् च ã यः यः चन्द्रबिम्बप्रदेशाः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शृङ्गोन्नतौ उपलभ्यते, न इतरः । तथा च तत् जिज्ञासवः कर्म कुर्वन्ति । तत् यथा ã शुक्लप्रतिपदादिषु सूर्यार्धास्तमयकालिकौ सूर्याचन्द्रमसौ कृत्वा सूर्योनचन्द्रोत्क्रमज्या गृह्यते । सा यस्मात् प्रतिदिवसम् उपचीयमाना, चन्द्रमसः शुक्लम् उपचीयते । उत्क्रमज्या च उपचीयमानप्रमाणा । तेन तया उत्क्रमज्यया त्रैराशिकम् ã यदि व्यासार्धतुल्यया उत्क्रमज्यया
स्फुटचन्द्रबिम्बार्धम् उपलभ्यते, तदा अनया उत्क्रमज्यया कियत् इति, तत् कालसितमानम् लभ्यते । शुक्लाष्टम्याः परतः या सितवृद्धिः सा क्रमज्यावशात् उपचीयमाना लक्ष्यते इति क्रमज्या गृह्यते । ताः क्रमज्याः पूर्वोपचितव्यासार्धज्यासु प्रक्षिप्य त्रैराशिकम् क्रियते । अथवा ã ताभिः एव क्रमज्याभिः चन्द्रबिम्बार्धेन त्रैराशिकम् कृत्वा यत् लब्धम् चन्द्रबिम्बार्धे प्रक्षिप्तम् सितमानम् भवति । शुक्लप्रतिपदादिषु यथा चन्द्रमसः सितमानम् वर्धते
तथा कृष्णप्रतिपत्प्रभृतिभ्यः सितमानम् उत्क्रमेण अपचीयते । तेन सूर्याचन्द्रमसोः विशेषात् राशिषट्कम् अपनीय तथा एव कर्म क्रियते ।
[ चन्द्रस्य दर्शनकालः ]
दर्शनकालः हि यावन्तम् कालम् चन्द्रः दृश्यते । यवता कालेन उदेति तत् आनयनोपायः ã शुक्लपक्षे तावत् उदयराशिवशात् एव ज्योतिश्चक्रगतिः इति अतः यावन्तः सूर्यात् चन्द्रराशिभागाः तावन्तः एव उदयावधेः स्वदेशराश्युदयप्राणाः परिगृह्यन्ते । तत् यथा ã आस्तमयिके सवितरि षड्राशयः परिक्षिप्यन्ते स सूर्यात् सप्तमः राशिः भवति । तथा च चन्द्रमसि षड्राशयः परिक्षिप्य सूर्यगतराशिभागान् त्रिंशता विशोधयेत् शेषम् सूर्यस्य आगतराशिभागः
। तत् षड्राशियुतसूर्यवर्तमानराश्युदयेन सङ्गुणय्य त्रिंशता विभजेत्, लब्धम् प्राणाः । तान् एकतः विन्यसेत् । सूर्यागतराशिभागान् च षड्राशियुतसूर्ये प्रक्षिप्य तावत् स्वदेशराश्युदयप्राणाः संकलनीयाः यावत् षड्राशियुतचन्द्रगताः भागाः । ततः षड्राशियुतचन्द्रगताः भागाः तत् राश्युदयप्राणैः सङ्गुण्य त्रिंशता विभजेत्, लब्धम् प्राणाः । तान् पूर्वसङ्कलितप्राणान् च सर्वान् एकत्र न्यस्तप्राणेषु प्रक्षिप्य षड्भिः भागः, लब्धम् विघटिकाः, षष्ट्या
घटिकाः । एवम् घटिकादिलक्षणः दर्शनकालः । तावता कालेन सूर्याचन्द्रमसोः गतिविशेषः अस्ति इति अविशेषकर्म प्रवर्तते । तत् यथा ã यदि षष्ट्या घटिकाभिः सूर्यभुक्तिः चन्द्रभुक्तिः वा लभ्यते ततः अनेन दर्शनकालेन ते कियत्यौ तयोः भुक्ती इति । सूर्यभुक्तिलब्धम् षड्राशियुक्तसूर्ये प्रक्षिपेत्, चन्द्रभुक्तिलब्धम् अपि षड्राशियुतचन्द्रमसि प्रक्षिप्य तावत् इदम् कुर्यात् यावत् अविशेषः । तत्र यः अविशिष्टः कालः स दर्शनकालः । तावन्तम् कालम् शर्वर्याम्
शशी दृश्यते । यः च षड्राशियुक्तः चन्द्रः अविशिष्टः तस्मात् चक्रार्धम् अपनयेत् तावान् चन्द्रः दर्शनकालपरिसमाप्तौ अस्तम् एति ।
अथ कश्चित् यदि कियता कालेन अ[न]स्तमिते सवितरि चन्द्रोदयः भविष्यति इति एतत् जिज्ञासुः, इदम् कर्म कुर्यात् । तत् यथा ã अविकृतास्तमयकालादित्यभागेभ्यः प्रभृति तावत् प्राणाः संकलनीयाः यावत् अविकृतशीतांशोः गतभागप्राणाः । तान् पूर्ववत् घटिकाः कृत्वा [दिन]प्रमाणघटिकाभ्यः विशोधयेत् । तत्र यः शेषः स दिवसशेषः । तावता दिवसशेषेण तदा चन्द्रोदयः भविष्यति । अत्र अपि सूर्याचन्द्रमसोः अविशेषकर्म प्रवर्तते । तत् यथा ã आसाम्
नाडीनाम् यः यः भोगः तेन अधिकौ सूर्याचन्द्रमसौ इति अतः ताभ्याम् अपनीय अपनीय अविशेषः क्रियते । अविशेषितः दर्शनकालः तावता कालेन दिवसशेषः एव चन्द्रोदयः । यः असौ अविशिष्टः चन्द्रः तावान् तत्र दिवसशेषोदयकाले चन्द्रः ।
अथवा प्रथमानीतदिवसशेषचन्द्रोदयकालेन चन्द्रमसः भुक्तिम् सङ्गुणय्य षष्ट्या विभजेत् । लब्धम् चन्द्रात् विशोधयेत् । स तावत् दिवसशेषकालिकः चन्द्रः भवति । ततः प्रथमानीतदिवसकालेन उदयलग्नम् कुर्यात् । तत् उदयलग्नम् तेन दिवसशेषोदितचन्द्रेण तुल्यम् यदा, तदा दिवसशेषम् चन्द्रोदयकालः । अथ यदि तस्मात् लग्नात् ऊनः चन्द्रः तदा प्रथमतरम् उदितः इति । तयोः लग्नचन्द्रयोः अन्तरालप्राणान् प्रथमानीतदिवसशेषकालात्
विशोधयेत् । तेषाम् च प्राणानाम् यावती चन्द्रभुक्तिः त्रैराशिकेन लभ्यते तावती प्रथमदिवसशेषोदितकालचन्द्रात् विशोध्यते तावान् चन्द्रः दिवसशेषोदितः, तावान् च दिवसशेषकालः । चन्द्रः च यदा अधिकः तदा पूर्ववत् तदन्तरप्राणान् दिवसशेषकाले प्रक्षिपेत् तावताम् प्राणानाम् चन्द्रभोगम् चन्द्रमसि प्रक्षिपेत्, तावत् कर्म यावत् अविशेषः । अथवा प्रथमास्तमयिकचन्द्रात् एव अन्तरोत्पन्नदिवसशेषकालभोगः चन्द्रमसः विशोध्य तत् काललग्नक्रमेण
अविशेषकर्म क्रियते ।
अथ यदि उदयलग्नात् चन्द्रः अधिकः तदा [कियन्]नाड्या अभ्युदेति चन्द्रः इति तदन्तरप्राणान् प्रथमानीतदिवसशेषे प्रक्षिपेत् । तत् भुक्तिम् चन्द्रमसि प्रक्षिपेत् तावत् यावत् अविशेषः । एवम् उदयलग्नम् चन्द्रः च कृतः भवति, दिवसशेषचन्द्रोदयकालः च । एवम् यावत् पौर्णमासी तावत् दर्शनकालानयनम् । पौर्णमास्याम् पुनर् तावत् एव अन्तरघटिकाः यदि दिनप्रमाणघटिकाभ्यः ऊनाः भवेयुः तदा अनस्तमिते आदित्ये चन्द्रोदयः, यदि अतिरिक्ताः
तदा अस्तंगते । उभयत्र अपि अन्तरकालप्रमाणेन अविशेषकर्म अनन्तरकर्मवत् एव । कृष्णपक्षप्रतिपदादिषु च चन्द्रादित्यान्तरघटिकाभ्यः दिनप्रमाणघटिकाः विशोध्य शेष[घटिका]भिः भुकिः त्रैराशिकेन सूर्याचन्द्रमसौ सञ्चार्य पुनर् तयोः अन्तरघटिकाभ्यः दिनप्रमाणघटिकाः विशोधयेत् । शेषघटिकाभिः चन्द्रादित्यौ तदन्तरालघटिकाः इति आद्यविशेषान्तम् कर्म क्रियते, तत्र अविशिष्टेन कालेन [सूर्यास्तमयात् पश्चात् चन्द्रोदयः । एवम्
एव अविशिष्टेन कालेन] सूर्योदयात् प्राक् चन्द्रोदयः ।
अथ अनस्तमिते सवितरि कियता कालेन चन्द्रः अस्तम् यास्यति इति एतत् जिज्ञासुः इदम् कर्म कुर्यात् । तत् यथा ã सूर्योदयकालोत्पन्नम् चन्द्रमसम् कृत्वा तत्र राशिषट्कम् प्रक्षिपेत् । [ततः] प्राक् चन्द्रोदयः [ज्ञातव्यः] । अथ औदयिकात् आदित्यात् षड्राशियुक्तनिशाकरावधेः स्वदेशराश्युदयविधानेन यावत्यः घटिकाः ताः अविशेष्यन्ते । कथम्? तासाम् त्रैराशिकेन यावत् चन्द्रमसः भुक्तिः ताम् चन्द्रमसि प्रक्षिपेत् इति अतः पुनर् अपि तस्मात् आदित्यात्
षड्राशियुक्तचन्द्रावधेः पूर्ववत् घटिकाः तावत् यावत् अविशेषः । तत्र याः अविशेषिताः घटिकाः तावतीभिः दिवसे व्यतीताभिः चन्द्रः अस्तम् एति । दिवसप्रमाणात् विशोध्य शेषम् दिनशेषघटिकाः च । अत्र यः अविशिष्टः चन्द्रः स तस्मिन् काले तावान्, यः च षड्राशियुक्तः चन्द्रः स तस्मिन् काले उदयलग्नम् इति ।
[ चन्द्रस्य याम्योत्तरप्रदेशः ]
अथ कश्चित् कियता कालेन शुक्लाष्टम्या परतः चन्द्रः गगनमध्यम् अवगाहते, कियान् वा तत्र चन्द्रः इति जिज्ञासुः, इदम् कर्म कुर्यात् । अथ तत्कालात् परतः स्वधिया आसन्नौ मध्यलग्ननिशाकरौ अभ्यूह्य, तत्र यदि मध्यलग्ननिशाकरौ तुल्यौ स्याताम् तदा तावान् चन्द्रः तावता एव कालेन गगनमध्यम् आरोक्ष्यति । अथ यदि अधिकः चन्द्रः तदा न अद्य अपि प्राप्नोति गगनमध्यम् । तत्र मध्यलग्नचन्द्रान्तरकालम् स्वधिया अभ्यूहितकाले
प्रक्षिप्य मध्यलग्नचन्द्रौ कुर्यात् यावत् तुल्यौ इति । अथ मध्यलग्नात् ऊनः चन्द्रः तदा तदन्तरालकालम् स्वधिया अभ्यूहित[कालात् विशोध्य] मध्यलग्नचन्द्रौ तावत् कुर्यात् यावत् मध्यलग्नचन्द्रौ तुल्यौ स्याताम् । एवम् प्रसाधितगगनमध्याधिरूढामृतदीधितेः अपक्रमविक्षेपाक्षैः मध्यच्छाया प्रसाध्यते ।
[ चन्द्रशृङ्गोन्नतिपरिलेखनविधिःज्]
अथ चन्द्राग्राचन्द्रशङ्क्वग्रयोः तुल्यदिक्कयोः योगः, भिन्नदिक्कयोः विशेषः, तत् योगविशेषतुल्यम् इष्टकाले [बाहु]ः चन्द्रमसः । स च अन्तरालतः सूर्याग्रया सह एकदिक्कम् विशेष्यते, यतः अर्कात् एव उत्तरेण दक्षिणेन वा चन्द्रः साध्यते, न विषुवतः । विदिक्कयोः योज्यते यस्मात् योगः अर्कचन्द्रान्तरम् । एतत् छेद्यके गोले वा प्रदर्श्यम् । एवम् परिनिष्ठितप्रमाणम् भुजा सूर्यात् याम्य उत्तरायता प्रसार्यते । चन्द्रशङ्कुः कोटिः । स यदि सूर्यात्
उत्तरेण चन्द्रः तदा भुजोत्तराग्रतः पूर्वापरायता प्रसार्यते । यदा दक्षिणेन चन्द्रः सूर्यात् तदा तस्याः भुजायाः दक्षिणाग्रतः पूर्वापरायता । एवम् भुजकोटी यथागतप्रमाणेन विन्यस्य भुजाकोटिमस्तकावगाही कर्णः दूरनिर्गताग्रः प्रसार्य कोट्यग्रकर्णसम्पाते केन्द्रम् विरच्य चन्द्रबिम्बम् आलिखेत् । तस्य चन्द्रबिम्बपरिधेः अपरतः कर्णानुसारेण सितमानम् नीत्वा बिन्दुम् कुर्यात् । चन्द्रबिम्बकेन्द्रपूर्वापरे कर्णः, तत् मत्स्यविधानात् दक्षिणोत्तरे
साध्ये । दक्षिणोत्तररेखाचन्द्रपरिधिसम्पाते बिन्दू क्रियेते । ततः ताभ्याम् पूर्वविहितबिन्दुना च तथा छेद्यकविधानेन तत् बिन्दुत्रयशिरःस्पृग्वृत्तम् आलिखेत् । तस्य वृत्तस्य चन्द्रबिम्बपरिधेः च यत् अन्तरम् तत् चन्द्रमसः शुक्लः । अथ एव श्र्ङ्गोन्नतिः नभसि उपलक्ष्यते ।
शुक्लाष्टम्याः परतः अस्तकालोदयलग्नाग्रज्यया अर्काग्रावत् कर्म [क्रियते] । चन्द्रोदयलग्नान्तरप्राणोत्पन्नः शङ्कुः, कोटिः अपराभिमुखी तथा एव प्रसार्यते । तत्र यथागतम् सितमानम् चन्द्रबिम्बप्रमाणात् विशोध्यम् शेषम् असितम् भवति । तत्कर्णानुसारेण चन्द्रपरिधिपूर्वभागात् बिम्बान्तरे असितमानम् नीत्वा बिन्दुम् कुर्यात् । तेन दक्षिणोत्तरबिन्दुभ्याम् च पूर्ववत् बिन्दुत्रयशिरःस्पृग्वृत्तम् आलिखेत् । तस्य चन्द्रबिम्बपरिधेः च यत्
अन्तरम् तत् असितम् । कृष्णप्रतिपदादिषु च अपराभिमुखप्रसारितकोटिकर्णाग्रलिखितचन्द्रपरिध्यपरभागात् कर्णानुसारेण असितम् अन्तः पूर्ववत् वृत्तम् आलिखेत् । इष्टकाले तु यथा प्रत्यासन्नास्तोदयलग्नज्याम् अर्काग्राम् परिकल्प्य तत्कालचन्द्रशङ्क्वग्रम् आपाद्य इष्टलग्नचन्द्रान्तरप्राणोत्पन्नशङ्कुकोट्या चन्द्रः परिलेखनीयः । एवम् सर्वत्र क्षितिजात् उपरि व्यवस्थितस्य चन्द्रस्य परिलेखनप्रक्रिया ।
[ गृहपटलम् विदार्य शृङ्गोन्नतिदर्शनम् ]
अथ शङ्कुभुजाकोटिकर्णप्रमाणपरिकल्पितयन्त्राग्रे गृहपटलबिम्बान्तरे शिशिरदीधितिगणितसितप्रमाणशृङ्गोन्नतिः प्रदृश्यते । तत् यथा ã सम्यक् प्रसिद्धगृहोदरे पूर्वापररेखातः उत्तरेण दक्षिणेन वा परिकल्पिताङ्गुलप्रमाणम् अर्काग्रासूत्रम् पूर्ववत् प्रसार्य बिन्दुम् कुर्यात् । सः अर्कबिन्दुः । पूर्वापररेखायाः एव दक्षिणोत्तरतः चन्द्राग्रतः शङ्क्वग्रयोः योगविशेषज्याङ्गुलतुल्यम् सूत्रम् यथा आगतदिशम् प्रसार्य बिन्दुम् कुर्यात्
। स शशिबिन्दुः । अर्केन्दुबिन्द्वोः अन्तराङ्गुलतुल्या भुजा । तत्काल[चन्द्र]शङ्कुतुल्या कोटिः अवलम्बकः । तदनुसारेण अवलम्बकस्थित्या चन्द्रबिम्बानुसारिण्या गृहपटलम् विदारयेत् । तत्र शङ्क्वग्रायतदण्डशिरसि यथालिखितम् तत् छेद्यकसितशृङ्गोन्नतिम् अर्कबिन्दुन्यस्तदृष्टिः कर्णानुसारेण उत्क्षिप्तावलम्बकाङ्गुलप्रमाणमस्तकासक्तम् शशलक्ष्माणम् पश्यति । एवम् एव ग्रहाः अपि गृहोदरव्यवस्थितैः दर्शनीयाः इति ।
[ अर्धोदिते चन्द्रे शृङ्गोन्नतिकल्पना ]
क्षितिजमण्डलाक्रान्तार्धबिम्बस्य चन्द्रमसः कोटेः अभावात् न परिलिख्यते । तत्र उदयास्तज्याचन्द्राग्रे शृङ्गस्य उन्नतिः परिकल्प्यते । तत् यथा ã यदि चन्द्राग्रा दक्षिणेन उदयज्या उत्तरेण तदा चन्द्रमसः उत्तरशृङ्गम् प्राक् प्रदृश्यते, यतः भवृत्तचन्द्रः दक्षिणेन व्यवस्थितः । भवृत्तचन्द्रानुसारेण च सूर्यमरीचयः चन्द्रबिम्बम् कर्णगत्या अवगाहन्ते । यदा पुनर् चन्द्राग्रा उत्तरेण उदयज्या दक्षिणेन तदा चन्द्रमसः दक्षिणशृङ्गम्
प्राक् प्रदृश्यते । यस्मात् चन्द्रमसः दक्षिणेन भवृत्तः स्थितः । भवृत्तानुसारेण च सूर्यमरीचयः चन्द्रबिम्बम् अवगाहन्ते । दक्षिणेन तुल्यदिक्कयोः विशेषः, चन्द्राग्रा यदा अतिरिच्यते तदा चन्द्रमसः उत्तरशृङ्गम् प्राक् प्रदृश्यते, अन्यथा दक्षिणम् । उत्तरेण यदा चन्द्राग्रा अतिरिच्यते तदा दक्षिणशृङ्गम् प्राक् प्रदृश्यते, अन्यथा उत्तरम् । यदा पुनर् विशेषेण न किञ्चित् अन्तरम् तदा युगपत् उभयशृङ्गदर्शनम् । यदा च उदयज्या चन्द्राग्रे न भवतः
तदा च अस्तमये चन्द्रमसः अस्तलग्नज्यया चन्द्राग्रया च शृङ्गस्य प्राक् पश्चात् वा अस्तमयम् परिकल्पनीयम् ।
[ चन्द्रस्य सितासितहेतुः ]
एवम् चन्द्रमसः सितासितशृङ्गोन्नतिदर्शनकालादयः सवितृवशात् एव । एवम् च निरुक्ते पठ्यते ã
तस्य एकौ रश्मिः चन्द्रमसम् प्रति दीप्यते ।
न हि तेन उपेक्षितव्यम् । आदित्यतः अस्य दीप्तिः भवति ।
सुषुम्णः सूर्यरश्मिचन्द्रमाः गन्धर्वः ।
[वाजसनेयसंहिता, अí 18, मंí 40; तैत्तिरीयसंहिता, 3.4.7.1 ]
इति अपि च निगमः भवति इति । तस्मात् एतेन एव लिङ्गेन चन्द्रमार्गात् उपरि सूर्यमार्गः इति, अन्यथा अनुपपत्या । परिशिष्टाः च ताराग्रहाः सूर्यमार्गात् उपरि दूरेण व्यवस्थिताः । तेन तेषाम् आरात्स्थितानि गोलार्धानि सर्वदा सकलानि एव चकासते । ऊर्ध्वमुखाः सूर्यमरीचयः सदा आराद्भागम् प्रकाशयन्ति इति । बुधशुक्रयोः च प्रत्यासन्नवर्तित्वात् सर्वतः बिम्बम् अवगाहन्ते अर्कमरीचयः प्रदीपप्रत्यासन्नगोलवत् तेन तयोः अपि असकलबिम्बताभावः । यदि
एवम् अस्तमिते सवितरि कथम् एते ग्रहादयः चकासते सवितृकराभावात् ? न एषः दोषः । भूमेः दूरेण सूर्यमार्गः । तेन उपरिमुखानाम् सूर्यमरीचीनाम् न व्यवधानाय भूः वर्तते । यथा घटस्य उपरि अधः दूरेण अवस्थितस्य प्रदीपस्य घटः न व्यवधानकारणम् । कृष्णपक्षप्रतिपदादिषु चन्द्रमसः बिम्बपूर्वभागः प्रत्यासन्नः सवितुः इति तेन तत् शुक्लम् उपलभ्यते । रत्नानाम् च आदित्यकराः एव दीप्तिकारणत्वम् प्रपद्यते । तेन तानि
अपि रात्रौ न प्रकाशात्मकानि । उक्तम् च रत्नपरीक्षायाम् ã
भानोः च भासाम् अनुवेधयोगम् आसाद्य रश्मिप्रकरेण दूरम् ।
पार्श्वाणि सर्वाणि अनुरञ्जयन्ति गुणैः उपेताः स्फटिक्[आदयः हि] ॥
[यत्] उपाख्यानादिषु रत्नानि एव ध्वान्तम् ध्वंसयन्ति इति श्रूयते तत् उपाख्यान[म् अर्थवादमात्र]म् एव ।
अन्ये पुनर् अन्यथा मन्यन्ते ã
स्वच्छायया अर्कसामीप्यात् विकलेन्दुसमीक्षणम् ।
इति । स्वच्छायया चन्द्रः शुक्लः उपलभ्यते, तस्य शुक्लस्य चन्द्रमसः सवितृसन्निकर्षात् वैवर्ण्यम् भवति इति । कुतः एतत्? यदि स्वभावतः शुक्लस्य चन्द्रमसः सूर्यसन्निकर्षात् वैवर्ण्यम् स्यात् तदा शुक्लप्रतिपदादिषु चन्द्रस्य अपरभागः विवर्णः स्यात् सूर्यसन्निकर्षात्, न पूर्वभागः । तथा च अवाङ्मुखम् चन्द्रबिम्बम् उपलक्ष्यते । तस्मात् मिथ्याज्ञानम् एव एतत् यत् सौगतैः उच्यते
[ भूगोलसंस्थानम् ]
भादिकक्ष्याभूसंस्थानप्रदर्शनाय आह ã
वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितः खमध्यगतः ।
मृज्जलशिखिवायुमयः भूगोलः सर्वतः वृत्तः
भानि ज्योतींषि नक्षत्राणि । तेषाम् भानाम् पञ्जरः भपञ्जरः । यस्मात् [भानि] समन्ततः वियति पञ्जरस्थानि इव लक्ष्यन्ते ततः अनेन दर्शनेन एतत् उक्तम् । वृत्तः च असौ भपञ्जरः च वृत्तभपञ्जरः । वृत्तभपञ्जरमध्यम्, मध्यम् अन्तः, तस्य वृत्तभपञ्जरस्य । तत्र वृत्तभपञ्जरमध्ये । कक्ष्यापरिवेष्टितः कक्ष्याभिः ग्रहाणाम् परिवेष्टितः कक्ष्यापरिवेष्टितः । खमध्यगतः, खम् आकाशम्, तस्य मध्यम् खमध्यम्, खमध्यंगतः
खमध्यगतः, आकाशमध्यस्थः इति यावत् । कथम् आकाशमध्ये निरालम्बना भूः अवतिष्ठते? [उच्यते ã स्वभाव]प्राधान्यात्; यथा सलिलाग्निवायवः क्लेददहनप्रेरणात्मकाः, न तेषाम् अन्यः अस्ति कश्चित् क्लेददहनप्रेरणप्रयोजकः, एवम् इयम् अपि भूः धारणात्मिका, न च धार्यमाणात्मिका । अथवा पतन्ती भूः, "पततु अधः" इति आह । अथ किम् इदम् अधः नाम । यथा अस्मदीयानाम् पृथिवी अधः, एवम् पृथिव्याः किम् अधः? "अधः"-शब्दः च दिग्वाची,
दिशः च व्यवस्थापेक्षया भवन्ति । यथा यत्र विवस्वान् उदेति सा प्राची, यत्र अस्तम् एति सा परा, यस्याम् अदृश्यः गच्छति सा उत्तरा, शेषा दक्षिणा । आसाम् अन्तरालेषु एव विदिशः । एवम् उपरि अधः च पृथिवी अपेक्षया भवतः । तेन तस्याः पृथिव्याः न किञ्चित् उपरि, न अधः, तस्मात् पतनाभावः भुवः । एवम् च पृथिव्याः अर्धम् परिवेष्ट्या अवस्थितः समुद्रः न पतिति । पतन्त्याम् च भुवि लोष्टशिलीमुखादयः वियति क्षिप्ता न भुवम् आसादयेयुः । भूः मन्दम्
पतति इति चेत्, साध्यते च एतत् मायाविद्भिः च, वियति खातकीलकः अनाश्रयः भवेत् । अथ अन्ये मन्यन्ते ã शेषेण अन्येन [वा] भूः ध्रियते इति । तत् उक्तम् । शेषादीनाम् अपि अवश्यम् आधारविशेषः कश्चित् कल्पनीयः, [तय अन्यः आ]धारः स्या[त् तस्य अपि अन्यः] इति अनवस्था । अथ ते स्वशक्त्या एव अवतिष्ठन्ते इति चेत्, भुवः एव कस्मात् सा शक्तिः न परिकल्प्यते । तस्मात् जगतः धर्माधर्मापेक्षया सर्वभूतधात्री भूः निश्चला आकाशे तिष्ठति । मृज्जलशिखिवायुमयः
भूगोलः, प्रत्यक्षम् यतः उपलभ्यते । सर्वतः वृत्तः । मृदादिना काष्ठादिना वा अयःशलाकायाम् मध्ये समवृत्तवत् अवगन्तव्यः । अस्य बहिः चन्द्रादीनाम् कक्ष्याः दर्शयितव्याः
[ भूगोलपृष्ठे प्राणिनाम् स्थितिः ]
भूगोलप्रदर्शनाय आह ã
यद्वत् कदम्बपुष्पग्रन्थिः प्रचितः समन्ततः कुसुमैः ।
तद्वत् हि सर्वसत्त्वैः जलजैः स्थलजैः च भूगोलः
यद्वत् कदम्बपुष्पग्रन्थिः [समन्तात् केसरैः] प्रचितः, व्याप्तः इति अर्थः, तथा अयम् भूगोलः समन्तात् जलजैः स्थलजैः च प्राणिभिः आवृत्तः । अथ ये भुवि व्यवस्थिताः प्राणिनः पर्वतादयः तेषाम् कथम् अवस्थानम् तत् उच्यते ã यत्र यत्र प्राणिनः गच्छन्ति तत्र तत्र तेषाम् भूः एव अधः, वियत् उपरि प्रतिभाति यथा अस्माकम्
[ भुवः वृद्ध्यपचयौ ]
भूवृद्ध्यपचयज्ञानाय आह ã
ब्रह्मदिवसेन भूमेरुपरिष्टात् योजनम् भवति वृद्धिः ।
दिनतुल्यया एकरात्र्या मृदुपचितायाः भवति हानिः
तृणकाष्ठभस्मादिरूपेण विद्यमानायाः [भुवः] योजनवृद्धिः भवति । अतः एव गृहपादपतडागादिखातेषु घटपिटकादि उपरि उपरि अवयवाः लभ्यन्ते ।
दिनतुल्यया एकरात्र्या ब्रह्मदिवसतुल्यया रात्र्या । मृदुपचितायाः भवति हानिः । मृदा उपचिता मृदुपचिता, तस्याः मृदुपचितायाः हानिः भवति । केन पुनर् कारणेन यत् उपचितम् बुवः तत् परिक्षीयते? ब्रह्मदिवसावसाने किल संवर्तकाभिधानैः जलधरैः विच्छिन्नधाराभिमुक्तेन पयसा यत् उपचितम् भुवः तत् परिक्षीयते
[ भूप्रमाणम् ]
भूभ्रमणवाचकपूर्वोत्तरपक्षप्रतिपादनाय आह ã
अनुलोमगतिः नौस्थः पश्यति अचलम् विलोमगम् यद्वत् ।
अचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम्
अनुलोमगतिः नौस्थः, कश्चित् अनुलोमगतिः नौस्थः, पश्यति अचलम्, न चलम् वस्तुगत्या अपि स्थिरम्, विलोमगम् यथा पश्यति सरित्सागरोभयतटस्थितम् वृक्षदिकम्, [तथा एव] च भूमौ प्राङ्मुखम् भ्रमत्याम् उपरि[स्थिताः जनाः] नभस्थितानि अचलानि भानि प्रतिलोमगानि अपरगानि पश्यन्ति । तथा हि लङ्कास्थाः भानि समपश्चिमगानि पश्यन्ति । लङ्का उपलक्षणमात्रम् । एवम् अन्ये अपि पश्यन्ति । तस्मात् इयम् भूः एव प्राङ्मुखम् भ्रमति
। निश्चलम् ज्योतिश्चक्रम् । भूगत्या तदुपरिस्थितः यः भचक्रप्रदेशः पुरस्तात् स उदयन् इव च लक्ष्यते, यः तु मध्ये स गगनमध्यस्थितः इव, यः हि दूरेण सः अस्तम् गच्छन् इव लक्ष्यते । अन्यथा हि निश्चलस्य भचक्रस्य उदयास्तासम्भवः स्यात् ।
इदम् अस्य आदर्शनम् । भूमण्डले भ्रमति [सति] जगत् जलधिना आप्लावेत्, भूगोलवेगजनितप्रभञ्जनेन आक्षिप्ताः तरुशिखरप्रासादादयः विशीर्येरन् । पक्षिणः अपि वियति उत्पतन् न स्वनीडम् आसादयेयुः । तस्मात् धरित्रीभ्रमणे न किञ्चित् लिङ्गम् अस्ति । तस्मात् अन्यथा व्याख्येयम् सूत्रम् । यथा अनुलोमगतिः नौस्थः पुरुषः चलवस्तूनि विलोमगम् पश्यति, एवम् भानि चलानि प्रवहानिलाक्षिप्तानि वेगवशात् लङ्कायाम् यानि वस्तूनि तानि प्रतिलोमगानि
पश्यन्ति; अधोव्यवस्थिताम् भुवम् निश्चलाम् भ्रमन्तीम् इव पश्यन्ति । प्रत्यक्षे अपि नक्षत्राणि प्रागुदितानि अपराम् दिशम् आसादयन्ति
[ भूभ्रमणकारणम् ]
भ्रमणकारणम् आह ã
उदयास्तमयनिमित्तम् नित्यम् प्रवहेण वायुना क्षिप्तः ।
लङ्कासमपश्चिमगः भपञ्जरः सग्रहः भ्रमति
उदयः च अस्तमयः च [उदयास्तमयौ । तयोः ] उदयास्तमययोः निमित्तम् नित्यम् प्रवहेण प्रवहसंज्ञितेन वायुना क्षिप्तः भपञ्जरः, भपञ्जरः अपि नित्यगतिः एव, लङ्कायाम् समपश्चिमः यः दिक्प्रदेशः स लङ्कासमपश्चिमः, तम् गच्छति इति लङ्कासमपश्चिमगः, सह ग्रहैः वर्तते इति सग्रहः, भ्रमति क्षणम् अपि न अवतिष्ठते ।
यदि अपि ग्रहाः प्राङ्मुखम् व्रजन्ति तथा अपि भपञ्जरापेक्षया अपरदिक्सङ्क्रमणम् कुर्वन्ति, महता भपञ्जरगत्या नीयमानाः लक्ष्यन्ते, कुलालचक्रस्थाः कीटाः इव
[ मेरुवर्णनम् ]
मेरुप्रमाणम् आह ã
मेरुः योजनमात्रः प्रभाकरः हिमवता परिक्षिप्तः ।
नन्दनवनस्य मध्ये रत्नमयः सर्वतः वृत्तः
योजनम् मात्रा यस्य स योजनमात्रः, प्रमाणे मात्रन्प्रत्ययः । प्रभाकरः, प्रभाम् करोति इति प्रभाकरः । [हिमवता परिक्षिप्तः], हिमवता पर्वतेन समन्तात् वेष्टितः । [नन्दनवनस्य मध्ये], नन्दनम् वनम् [देवानाम् अप्सरोगणपरिवृतानाम्] क्रीडास्थानम्, तस्य मध्ये । रत्नमयः । रत्नानि [सुवर्णरजत]मुक्ताप्रवालपद्मरागमरकतप्रभृतीनि, तैः निर्मितः रत्नमयः । [सर्वतः] समन्तात् । वृत्तः गोलकाकारः इति अर्थः ।
अथ पौराणिकैः लक्षयोजनप्रमाणः मेरुः पठ्यते तत् युक्तिरहितम् । [लङ्कातः यावत् मेरुमध्यम् तावत् योजनसहस्रम् अपि न अस्ति, कुतः तत् एकदेशे भविष्यति । अथ भूः एव महाप्रमाणा परिकल्प्यते, तत् अयुक्तम् ।] यत् सपञ्चाशत्सहस्रम् योजनानाम् भूव्यासामनम् अक्षोन्नतिप्रसाधितम् तत् सोपपत्तिकम् । ग्रहोदयास्तमयमध्याह्निच्छायावनतिलम्बनादिभिः सिद्धम् उत्सृज्य किम् अन्यत् उपलभ्यते ।
किम् च पुराणेषु पुष्करद्वीपस्य उपरिगतः विवस्वान् मध्याह्नम् करोति इति पठ्यते । लक्षयोजनानाम् किल जम्बूद्वीपः, [ततः द्विगुणोत्तराः] समुद्राः [द्वीपाः च] सप्त, सप्तमः च पुष्करद्वीपः । तत् अनेकैः योजनसहस्रैः अन्तरैः व्यवस्थितम् । तत्र यदि मध्याह्नः विवस्वतः स्यात् अस्माकम् उत्तरगोलभूतत्वात् शङ्कोः छायानाशः [न] स्यात् । दृश्यते तच्छायानाशः । तस्मात् विषुवति लङ्कामध्ये सविता गच्छति इति सिद्धम् । [विषुवति लङ्कामध्ये
न सविता गच्छति इति तैः एव उक्तम् । तत् च अतिदूरत्वात् न घटते । यदि पतङ्गवत् उत्प्लुत्य गच्छति ततः युज्यते । तत् च अशक्यम् परिकल्पयितुम्, प्रत्यक्षविरुद्धत्वात् ।] तस्मात् ध्रुवोन्नत्या [आनीतम् एव] भुवः प्रमाणम् सिद्धम् । तत्र महाप्रमाणस्य मेरोः अवस्थानम् एव न अस्ति ।
[यदि कथञ्चित् महाप्रमाणः एव मेरुः अवतिष्ठते तदा स किम् अस्माभिः न दृश्यते । ] दूरत्वात् मेरुः अस्माभिः न दृश्यते, अथवा निष्प्रभत्वात् तत् न दृश्यते, न तर्हि रत्नमयः । किम् च यदि महाप्रमाणः मेरुः स्यात् मेरुशिखरान्तरितत्वात् भावात् उत्तरेण तारकाः न दृश्येरन् । तस्मात् तस्य कनकगिरेः उपरिशिखरप्रदेशे एव सर्वरत्नमयः मेरुशब्देन उच्यते
[ मेरुबडवामुखयोः स्थिती ]
क्व भूप्रदेशे मेरुः, क्व वा बडवामुखम् इति आह ã
स्वः मेरू स्थलमध्ये नरकः बडवामुखम् च जलमध्ये ।
अमरमराः मन्यन्ते परस्परम् अधःस्थिताः नियतम्
स्वः स्वर्गोपलक्षितः, मेरुः च, स्थलमध्ये । नरकः बडवामुखम् च जलमध्ये । अमरमराः अमराः देवाः, मराः नरकस्थाः, ते परस्परम् अधःस्थाः मन्यन्ते । यतः सर्वेषाम् भूः अधः, अतः अन्योन्यम् अधःस्थिताः मन्यन्ते । यत्र उत्तरेण अयःशलाका भुवम् भित्वा निर्गता तत्र प्रदेशे स्वर्गः मेरुः, यत्र दक्षिणेन निर्गता तत्र नरकः बडवामुखम् च
[ उदयादिव्यवस्था ]
प्रकृष्टदेशान्तरव्यवस्थितान् देशान् आह ã
उदयः यः लङ्कायाम् सः अस्तमयः सवितुः एव सिद्धपुरे ।
मध्याह्नः यमकोट्याम् रोमकविषये अर्धरात्रः स्यात्
लङ्कानिवासिनाम् यः उदयः स एव सिद्धपुरनिवासिनाम् अस्तमयः, [यतः लङ्काप्रदेशात् अधः व्यवस्थितम् सिद्धपुरम्] । मध्याह्नः यमकोट्याम्, यः एव लङ्कापुरनिवासिनाम् उदयः स एव यमकोटिनिवासिनाम् मध्याह्नः, यतः लङ्काप्रदेशात् पूर्वस्याम् भूपरिधिचतुर्भागे यमकोटिः । यः लङ्कानिवासिनाम् उदयः स रोमकनिवासिनाम् अर्धरात्रः, यतः लङ्कातः अपरभागे भूपरिधिचतुर्भागे रोमकम् । एवम् एते भूचतुर्थभाग्[आन्तराल]व्यवस्थिताः
स्थलजलसन्धिवर्तिनः देशाः परस्परम् अहोरात्रचतुर्भागकालदेशान्तरप्रमाणाः प्रदर्शयितव्याः
[ समरेखास्थनगर्यौ ]
देशान्तरप्रदर्शनार्थम् आह ã
स्थलजलमध्यात् लङ्का भूकक्ष्यायाः भवेत् चतुर्भागे ।
उज्जयिनी लङ्कायाः तच्चतुरंशे समोत्तरतः
स्थलमध्यात् मेरोः आरभ्य जलमध्यात् च बडवामुखात् लङ्का भूकक्ष्यायाः चतुर्थभागे व्यवस्थिता । भूपरिधिः
3298
17
25, चतुर्भागः
824
67
100 । एतावति अन्तरे व्यवस्थिता । उज्जयिनी स्थलजलसन्धिवर्तिलङ्कायाः समोत्तरे दिग्भागे व्यवस्थिता । तच्चतुरंशे, तस्य भूचतुर्थभागस्य चतुर्थभागे । भूपरिधेः षोडशभागः
206
67
400 । एतावति अन्तरे लङ्कातः उज्जयिनी ।
लङ्कोज्जयिनीसमदक्षिणोत्तररेखायाम् वात्स्यगुल्मचकोरपुरप्रभृतीनि स्थानानि व्यवस्थितानि । उज्जयिन्याः उत्तरेण दशपुरमालवनगरचट्टशिवस्थानेश्वरप्रभृतीनि यावत् मेरुः इति ।
सर्वे ग्रहाः करणागताः भूमध्यसमदक्षिणोत्तररेखायाम् भवन्ति । पूर्वभागव्यवस्थिताः प्रथमतरम् एव रविम् पश्यन्ति, अतः देशान्तरफलम् अपनीयते । पश्चिमभागे [व्यवस्थिताः] चिरेण पश्यन्ति, अतः तत्र देशान्तरफलम् क्षिप्यते । स्वदेशाक्षसमरेखाक्षविवरभागैः त्रैराशिकम् ã यदि चक्रांशकैः भूपरिधियोजनानि लभ्यन्ते
3298
17
25,
तदा अक्षांशाविवरभागैः किम् इति, समदक्षिणोत्तररेखान्तरालयोजनानि भवन्ति कोट्यात्मकानि । स्वदेशस्थानतः तिर्यग्व्यवस्थितोज्जयिन्यादिस्थानम् । तस्य अन्तरालयोजनानि लोकात् अवगतानि कर्णः । कर्णकोटिवर्गविशेषमूलम् भुजयोजनानि । ततः यदि व्यासार्धतुल्यावलंबके[न भूपरिधिः तदा इष्टावलंबकेन का इति, स्पष्टभूपरिधिः । पुनर् यदि] स्पष्टभूपरिधिना ग्रहभुक्तिः लभ्यते देशान्तरयोजनैः का भुक्तिः इति देशान्तर्फलम् लभ्यते । पूर्ववत्
धनम् ऋणम् इति
[ भगोलस्य दृश्यादृश्यभागौ ]
भगोलदृश्यादृश्यज्ञापनाय आह ã
भूव्यासार्धेन ऊनम् दृश्यम् देशात् समात् भगोलार्धम् ।
अर्धम् भूमिच्छन्नम् भूव्यासार्धाधिकम् च एव
भुवः व्यासः भूव्यासः तस्य अर्धम् भूव्यासार्धम्, 525 । तेन ऊनम् भगोलार्धम् दृश्यम् उपलभ्यते । कस्मात्? समात् देशात् । अनन्तरितः समः, महाद्रिद्रुमाद्युन्नतपदार्थरहितः देशः समः इति । अर्धम् भूमिच्छन्नम् न दृश्यते भूव्यासार्धेन अधिकम् अदृश्यम् ।
एतत् जिज्ञासुः भूगोलपृष्ठावगाहि सूत्रम् प्रसार्य पूर्वक्षितिजे अपरक्षितिजे [च] बध्नीयात् । भूपृष्ठस्थितस्य द्रष्टुः प्रसारितसूत्रानुसारिणी दृष्टिः याति । तत्र [पूर्व]प्रदेशे ज्योतींषि अर्धोदितानि पश्यति, पश्चात् अर्धास्तमितानि [पश्चति] । एवम् भूव्यासार्धेन ऊनम् [गोलार्धम्] गोलसूत्रान्तरालस्थितम् दृश्यम् । यत् एतत् अदृश्यम् गोलार्धम् गोलसूत्रान्तरालम् तत् भूव्यासार्धाधिकम् । एतत् समायाम् भुवि । यः पुनर् द्रष्टा तुंगशैलमस्तके भवति तत्
शैलप्रमाणाधिकम् तस्य अदृश्यम् भवति । विद्याधरादयः वियति दूरे स्थिताः प्रभूतम् ज्योतिश्चक्रम् पश्यन्ति, [यस्मात्] उपरि दूरस्थितस्य निर्विरोधप्रसारणा दृष्टिः भवति । अतिदूरे स्थितः ब्रह्मा सर्वदा विवस्वन्तम् पश्यति ।
[भूपृष्ठव्यवस्थितानाम् भूव्यासार्धोनभपञ्जरार्धदर्शिनाम् स्वात् प्रमाणात् सततम् दिवसः हीयते, निशा वर्धते । तदर्थम्] त्रैराशिकम् ã यदि रविकक्ष्यायाम् षष्टिः नाड्यः लभ्यन्ते तदा भूव्यासार्धयोजनैः 525 कियत्यः । लब्धेन द्विगुणेन सर्वदा हीनः दिवसः अधिका रात्रिः
[ मेरुवडवामुखस्थानाम् भगोलभ्रमणदर्शनम् ]
मेरुबडवामुखनिवासिनाम् दर्शनार्थम् आह ã
देवाः पश्यन्ति भगोलार्धम् उदङ् मेरुसंस्थिताः सव्यम् ।
अर्धम् तु अपसव्यगतम् दक्षिणबडवामुखे प्रेताः
[ उदङ् मेरुस्थिताः देवाः भगोलस्य उत्तरम्] अर्धम् सव्यम् प्रदक्षिणगतिम् पश्यन्ति । द्वितीयम् अर्धम् दक्षिणम् ज्योतिश्चक्रस्य अपसव्यम् अप्रदक्षिणगतिम् बडवामुख[स्थिताः] प्रेताः पश्यन्ति । [स्थलजलसन्धौ स्थित्वा एतत् आचार्यः प्रतिपादयति । तत् अपेक्षया हि मेरुबडवामुखयोः उत्तरदक्षिणत्वम् । न मेरुबडवामुखस्थानाम् दिङ्नियमः अस्ति ।] सूर्यगत्यपेक्षया प्राच्यादिव्यवहारः । यत्र विवस्वान् उदेति सा प्राची, [यत्र अस्तमेति सा प्रतीची]
। [न तथा मेरुबडवामुखस्थानाम् अपि, परितः सर्वत्र रवेः उदयास्तमयसम्भवात् ।]
देशान्तरव्यवधानात् अन्यथा भचक्रार्धदर्शनम् भवति । कश्चित् पुरुषः उत्तरेण गतः देशान्तरम् एति तथात्वे ध्रुवम् उपरि आरोहितम् पश्यति, क्रमेण मेरुम् प्राप्तस्य उपरि ध्रुवः भवति । मेरोः उत्तरेण दक्षिणेन ध्रुवः अवलम्बते । एतत् उत्तरायःशलाकाग्रस्वस्तिकम् उपरि निधाय दक्षिणायःशलाकाग्रस्वस्तिकम् च अधोमुखम् निधाय दर्शयेत् । तथा लङ्कास्थस्य यः विषुवत् मार्गप्रदेशः पूर्वापरः प्रतिभासते स मेरुस्थानाम् क्षितिजासक्तः
। एवम् बडवामुखस्थानाम् अपि चक्रवत् भास्करः प्रतिभासते
[ देवासुरपितृनराणाम् दिनप्रमाणम् ]
मेरुबडवामुखस्थाः कियन्तम् कालम् रविम् पश्यन्ति इति आह ã
रविवर्षार्धम् देवाः पश्यन्ति उदितम् रविम् तथा प्रेताः ।
शशिमासार्धम् पितरः शशिगाः, कुदिनार्धम् इह मनुजाः
देवाः मेरुनिवासिनः मेषादिषु षट्सु राशिषु समुद्गतम् सूर्यम् रविवर्षार्धम् पश्यन्ति षण्मासान् यावत् इति अर्थः, प्रदक्षिणम् चक्रवत् भ्रमन्तम् क्षितिजासक्तम् क्रमेण चतुर्विंशतिक्रान्तिभागान् यावत् परित्यक्तक्षितिजम् पश्यन्ति । एवम् प्रेताः अपि रविवर्षार्धम् एव सकृत् उद्गतम् सूर्यम् पश्यन्ति दक्षिणगोले षट्सु राशिषु ।
शशिमासार्धम् पितरः शशिगाः, शशिनम् गच्छन्ति इति शशिगाः, चन्द्रलोकनिवासिनः पितरः शशिनः मासार्धम् पञ्चदशतिथयः एतावन्तम् कालम् पश्यन्ति । पितॄणाम् अमावास्यायाम् उपरि सविता भवति । [तत्] तेषाम् अहर्मध्यम् । ततः यथा यथा सविता प्रतिपदादिषु परतः अवलम्बते तथा तथा पितॄणाम् मध्याह्नोत्तरभागः, राशित्रयान्तरितः अस्तम् एति, अस्तमितः पक्षेण राशिषडन्तरितः प्राच्याम् उदेति । अतः तेषाम् पक्षः अहः, पक्षः रात्रिः इति
। कुदिनार्धम् इह मनुजाः । कुदिनम् भूदिनम् रव्युदयात् रव्युदयम् यावत्, तदर्धम् इह मनुजाः पश्यन्ति । सर्वम् यथावत् स्थितम् गोले प्रदर्शयेत् इति
[ खगोले क्षितिजमण्डलम् ]
खगोले क्षितिजमण्डलप्रदर्शनाय आह ã
पूर्वापरम् अधऊर्ध्वम् मण्डलम् अथ दक्षिणोत्तरम् च एव ।
क्षितिजम् समपार्श्वस्थम् भानाम् यत्र उदयास्तमयौ
पूर्वापरमण्डलम् तत् इह खगोलप्रमाणम् । स एव ऊर्ध्वम् उपर्यधोवगाहि सर्वभपञ्जराणाम् । तथा दक्षिणोत्तरम् अन्यत् मण्डलम् तावत्प्रमाणम्, दक्षिणोत्तरावगाहि याम्य उत्तरमण्डलम् उपरि अधः च जनितस्वस्तिकम् । क्षितिजम् समपार्श्वस्थम् तथा अन्यत् मण्डलम् तावत् एव । समपार्श्वावगाहि परिकरवत् दिक्चतुष्टयजनितस्वस्तिकम् क्षितिज इति उच्यते । भानाम् यत्र उदयास्तमयौ । यत्र मण्डले भानाम् उदयास्तमयौ लक्ष्येते । हरिजम्
इति कैश्चित् उच्यते । अयम् खगोलः सर्वभपञ्जराणाम् बहिः अवतिष्ठते
[ उन्मण्डलम् ]
उन्मण्डलप्रदर्शनाय आह ã
पूर्वापरदिग्लग्नम् क्षितिजात् अक्षाग्रयोः च लग्नम् यत् ।
उन्मण्डलम् भवेत् तत् क्षयवृद्धी यत्र दिवसनिशोः
दक्षिणोत्तरक्षितिजस्वस्तिकात् याम्य उत्तरमण्डले स्वदेशाक्षभागतुल्ये अन्तरे वेधे कृत्वा लोहशलाकाग्रे प्रवेश्य गोलम् निदध्यात् । ततः उन्मण्डलम् दर्शयेत् । पूर्वापरदिग्लग्नम् पूर्वापरयोः दिशोः लग्नम् । क्षितिजात् अक्षाग्रयोः च लग्नम् यत् । दक्षिणोत्तरक्षितिजस्वस्तिकयोः उपरि अधः स्वदेशाक्षभागतुल्ये अन्तरे लग्नम् कारयेत् । तत् उन्मण्डलम् । उदयमण्डलम् उन्मण्डलम् । यत्र मण्डले दिवसस्य रात्रेः च क्षयवृद्धी लक्ष्येते ।
विषुवति उन्मण्डलक्षितिजयोः एकत्वात् दिवसनिशोः क्षयवृद्धी न स्तः । विषुवतः उत्तरेण उन्मण्डलम् उपरि क्षितिजम् अधः अवतिष्ठते । तस्मात् उत्तरगोले अप्राप्ते एव उन्मण्डलम् [सविता] चरदलघटिकाप्रमाणेन उदेति । पश्चात् उन्मण्डलम् अतिक्रान्तः अस्तम् एति । अतः दिवसः उत्तरगोले वर्धते । दक्षिणगोले उन्मण्डलम् अतिक्रान्तः क्षितिजात् उदेति । अप्राप्तः एव अस्तमेति । अतः दक्षिणगोले रात्रिः उपचीयते । अतः तत्तुल्या दिवसनिशोः क्षयवृद्धी । तदर्थम्
त्रैराशिकम् ã यदि षष्ट्या ग्रहभुक्तिः लभ्यते, तदा चरदलघटिकाभिः कियती इति । लब्धम् उत्तरगोले रवौ उदये विशोधयेत् । याम्ये विपरीतम् । एवम् उत्तरदिशि व्यवस्थितानाम् क्रमेण दिवसनिशोः महत्यौ क्षयवृद्धी भवतः । यत्र देशे रविः मिथुनान्तस्थः न अस्तम् एति, षष्टिः नाड्यः दिवसः, तत्र त्रिंशद्घटिकाः चरम्, पञ्चदशघटिकाः चरार्धम् । तस्य काष्ठस्य ज्या चरज्या । तया विपरीतकर्मणा क्षितिज्या आनीयते ã यदि व्यासार्धस्य इयम् [व्यासार्धतुल्या]
चरज्या तदा मिथुनान्तस्वाहोरात्रार्धस्य का इति मिथुनान्तस्वाहोरात्रार्धतुल्या क्षितिज्या लभ्यते । तस्याः क्षितिज्यायाः मिथुनान्तापक्रमज्यायाः च वर्गयुतेः मूलम् अर्काग्रा त्रिज्यातुल्या । तेन तत्र देशे याम्य उत्तरे क्षितिजात् उपरि क्रमेण [सम]मण्डलम् अवगाह्य खमध्यात् दक्षिणेन द्विचत्वारिंशद्भागे [याम्य उत्तरम् अतिक्रम्य] ततः प्रथमोदये पुनर् क्षितिजम् आप्नोति च एव । तत्र षष्तिः नाड्यः दिवसः उपलक्ष्यते । स्वार्काग्रतः [क्षितिज्या । तदर्थम् त्रैराशिकम्]
ã अर्काग्रया इष्टतुल्यया क्षितिज्या लभ्यते व्यासार्धेन किम् इति । गुणकभाजकयोः तुल्यत्वात् नष्टयोः क्षितिज्याप्रमाणा अक्षज्या भवति । तत् कथम्? अक्षः षट्षष्टिभागाः । तत्र देशे व्यभिचारात् ग्रहगतिः । उत्तरेण तस्मात् इयम् व्यवस्था न अस्ति इति
[ खगोलापेक्षया द्रष्टुः स्थितिः ]
प्राच्यादिव्यवस्थाप्रतिपादनाय आह ã
पूर्वापरदिग्रेखा अधः च ऊर्ध्वा दक्षिणोत्तरस्था च ।
एतासाम् सम्पातः द्रष्टा यस्मिन् भवेत् देशे
पूर्वापररेखा, अधः च ऊर्ध्वा च या रेखा, दक्षिणोत्तरस्था च । च[कारः] समुच्चये । एतासाम् रेखाणाम् सम्पातः एकत्र योगः, यस्मिन् देशे द्रष्टा तत्र तत्र तासाम् सम्पातः ।
तस्मात् द्रष्टृवशात् दिग्व्यवस्था । यत्र द्रष्टा रविम् उद्गच्छन् पश्यति सा प्राची, यत्र [रविः] मध्याह्नम् करोति सा दक्षिणा, यत्र अस्तम् एति सा परा, यत्र अर्धरात्रम् करोति सा उत्तरा । सर्वेषाम् उत्तरः मेरुः । लङ्कानिवासिनाम् यदा मध्याह्ने रविः भवति रोमकनिवासिनाम् उदेति । तत्र लङ्काप्रदेशे तेषाम् प्राची । तदपेक्षया स्वस्थानात् उत्तरः मेरुः प्रतिभासते । यदा रोमके मध्याह्नः तदा सिद्धपुरनिवासिनाम् उदयः [तत्र रोमकप्रदेशे
तेषाम् प्राची] । तदपेक्षया तेषाम् स्वस्थानात् उत्तरः मेरुः । एवम् यमकोट्याम् अपि ।
भूमौ यावत्तावत्प्रमाणम् वृत्तम् आलिख्य पूर्वाह्णे [अपराह्णे च] छायाम् लक्षयेत् । यत्र प्रदेशे शङ्कुच्छाया वृत्तम् प्रविशति सा पश्चिमा । यत्र निर्याति सा प्राची । तदग्रयोः मत्स्यम् उत्पाद्य तन्मुखपुच्छस्पृक्सूत्रम् प्रसारयेत् । सा दक्षिणोत्तरा दिग् भवति । अथवा त्रिच्छायाग्रमत्स्यद्वयमुखपुच्छस्पृक्सूत्रद्वयसम्पातः उत्तरा दक्षिणा च । [अथवा दिक्] प्रसाधनीया चित्रास्वात्योः
[ दृङ्मण्डलम् दृक्क्षेपमण्डलम् च ]
[ दृङ्मण्डलदृक्क्षेपमण्डलस्वरूपम् आह ã]
ऊर्ध्वम् अधस्तात् द्रष्टुः ज्ञेयम् दृङ्मण्डलम् ग्रहाभिमुखम् ।
दृक्क्षेपमण्डलम् अपि प्राग्लग्नम् स्यात् त्रिराश्यूनम्
दृङ्मण्डलम् [द्रष्टुः ऊर्ध्वम् अधस्तात्] ग्रहाभिमुखम् [भवति] । यत्र द्रष्टा भवति तत्र अस्य मध्यम्, यत्र ग्रहः तत्र अस्य परिधिः, यावान् दृग्ग्रहयोः अन्तरम् तावता विष्कम्भार्धेन दृङ्मण्डलम् प्रदृश्यम् । तत् एव मध्याह्नस्थिते ग्रहे दृक्क्षेपमण्डलम् भवति । दृक्क्षेपमण्डलम् अपि । सममण्डलमध्यात् दक्षिणेन उत्तरेण वा यत्र ग्रहाभिमुखम् दृष्टेः क्षेपः तत्र यः महाप्रमाणकक्ष्यः ग्रहः स स्तोकतरम् क्षिप्यते,
अल्पप्रमाणकक्ष्यः बहुतरम् क्षिप्यते इति । एतत् मध्याह्ने दृग्ज्याप्रमाणव्यासार्धेन सममण्डलमध्यात् बध्नीयात् । अस्य आनयनोपायः ã प्राग्लग्नम् स्यात् त्रिराश्यूनम् । पर्वकालघटिकाः पूर्वाह्णे दिनार्धात् शोधयेत् । शेषप्राणान् त्रैराशिकानीतरविभुक्तलङ्कोदयप्राणैः ऊनीकुर्यात् । शेषेभ्यः यावत् लङ्कोदयप्राणाः शुध्यन्ति तावत् शोध्याः । तान्वन्तः एव राशयः विशोध्यन्ते । शेषप्राणान् त्रिंशता गुणयेत्, अशुद्धलङ्कोदयेन विभजेत्, लब्धम् भागादि
पूर्वविशोधितैः एव शोधयेत् । पूर्वाह्णे मध्यलग्नम् भवति । अपराह्णे अधिकत्वात् रवेः यावन्तः लङ्कोदयाः विशुध्यन्ति तावन्तः प्रक्षिप्य लग्नम् क्रियते । आचार्येण स्थूलप्रकृत्या इष्टघटिकाभिः पूर्वलग्नम् लग्नविधिना कृत्वा त्रिराश्यूनम् क्रियते, मध्यलग्नम् भवति इति । राशयः लङ्कोदयैः मध्यम् अवगाहन्ते इति लङ्कोदयैः यत् मध्यलग्नम् तत् सूक्ष्मम् इति । तस्य अपक्रमकाष्ठम् स्वदेशाक्षभागयुतम् समदिशोः भिन्नदिशोः विशुद्धम्
खमध्यरविकक्ष्यान्तरालम् भवति । तस्य जीवा मध्यज्या इति उच्यते । चन्द्रस्य अपक्रमकाष्ठम् विक्षेपयुतम् वियुतम् क्रियते । यतः विमण्डले चन्द्रः ततः अक्षभागयुतवियुतस्य ज्या चन्द्रमध्यज्या भवति । अनया अत्र मध्यज्या व्याख्याता
[ स्वयंवहगोलयन्त्रम् ]
स्वयंवहगोलयन्त्रप्रतिपादनाय आह ã
काष्ठमयम् समवृत्तम् समन्ततः समगुरुम् लघुम् गोलम् ।
पारततैलजलैः तम् भ्रमयेत् स्वधिया च कालसमम्
काष्ठैः निर्मितम् काष्ठमयम् श्रीपर्ण्यादिभिः पूर्ववत् । समवृत्तम् । सर्वेषु प्रदेशेषु [समम्], न हीनाधिकम् इति । समगुरुम् । समन्ततः समा गुरुता कार्या । यदि अतिमात्रगुरुः भवति पाषाणवत् निश्चलः स्यात्, [महता कालेन भ्रमति इति अतः] समवृत्तम् समगुरुम् । लघुम् अत्र अपि समशब्दः प्रयोक्तव्यः । एतत् गुणविशिष्टम् गोलम् कथम् भ्रमयेत्? पारततैलजलैः इति । स्वधिया च स्वकीयप्रज्ञया च तम् भ्रमयेत् । कालसमम् कालेन
समम् कालसमम् । कालसमम् अहोरात्रसमम् यथा भ्रमति तथा भ्रमयेत् । तत् यथा ã षष्टिघटिकाङ्कितस्वाहोरात्रमण्डले कन्यातुलासन्धिप्रदेशे कीलकम् ईषत् उन्नतम् एकम् कारयेत् । सिद्धपूर्वापरदक्षिणोत्तरस्थाने जलपात्रम् एकम् स्थापयेत् । पात्रम् च समम् वत्तम् दीर्घम् [तल]मध्यनिहितसूक्ष्मच्छिद्रम् घटिकाषष्ट्या जलपूर्णम् यथा रिक्तम् भवति तथा स्वधिया प्रसाध्य ततः कर्म क्रियते । यावत् पात्रात् उदकम् स्रवति तावत् गुरुत्वात्
अलाबुः जलवशात् अधोगच्छन् गोलम् आकर्षति । एवम् सकृत् युक्तः गोलः परमार्थभगोलवत् अहोरात्रे भ्रमति । प्रथमम् ताम्रकीलके पाशकसूत्रस्य एकम् अग्रम् बध्वा गोलयन्त्रम् अधस्तात् प्रभृति परिवेष्ट्य तत्र एव प्रदेशे सूत्रम् प्रापयेत् इति क्रमः
[ अक्षक्षेत्रम् ]
विषुवत् ज्याप्रदेशप्रतिपादनाय आह ã
दृग्गोलार्धकपाले ज्यार्धेन विकल्पयेत् भगोलार्धम् ।
विषुज्जीवाक्षभुजा तस्याः तु अवलम्बकः कोटिः
दृग्गोलार्धम् घटकपालवत् अवस्थितत्वात् दृग्गोलार्धकपालम् । भगोलार्धम् एव केवलम् दृश्यते । येन व्यवहारः दृश्यः । भगोलार्धम् जातौ एकवचनम् । ज्यार्धेन विकल्पयेत् । भूमौ वृत्तम् आलिख्य पूर्वापरदक्षिणोत्तरदिक्चिह्नितम् कृत्वा एकैकस्मिन् चतुर्थभागे राशित्रयम् अङ्कयेत् । पुनर् एकैकः राशिः अष्टधा विभजेत् । तत्र सूत्राणि प्रसारयितव्यानि । तानि ज्यासूत्राणि । तदर्धानि ज्यार्धानि । अथवा अन्यः विकल्पक्रमः । विषुवज्जीवाक्षभुजा
। सममण्डलस्य विषुवतः उत्तरेण अक्षतुल्यान्तरे अवस्थितत्वात् अक्षः इति उच्यते । तस्य अक्षकाष्ठस्य भुजा, अक्षज्या विषुवज्ज्या इति पर्यायाः । व्यासार्धम् कर्णः । भुजाकर्णकृतिविशेषमूलम् अवलम्बकः । सा कोटिः इति । एतत् गोले प्रदर्शयेत् । सममण्डलमध्यात् दक्षिणेन आक्षज्यातुल्ये अन्तरे सूत्रस्य एकम् अग्रम् बध्वा ग्रहम् प्रापयेत् । सः अवलम्बकः । भुजाकोटिवर्गयोगस्य मूलम् कर्णः व्यासार्धम् इति । एवम् अन्यत्र अपि दृग्गोलार्धे कल्पितज्यार्धेषु
भुजाकोटिकर्णव्यवस्था कल्पनीया
[ स्वाहोरात्रार्धविष्कम्भः ]
अपक्रमादिभिः भुजादिकल्पनाम् आह ã
इष्टापक्रमवर्गम् व्यासार्धकृतेः विशोध्य यत् मूलम् ।
विषुवदुदग्दक्षिणतः तत् अहोरात्रार्धविष्कम्भः
सूर्यस्य इष्टापक्रमज्यायाः चन्द्रस्य इष्टापक्रमज्यायाः च यः वर्गः स इष्टापक्रमवर्गः । तम् व्यासार्धकृतेः विशोध्य [शेषस्य] यत् मूलम् तत् विषुवतः उत्तरेण दक्षिणेन वा अहोरात्रस्य विष्कम्भः भवति । क्रान्तिज्या भुजा । व्यासार्धम् कर्णः । तयोः यत् वर्गविशेषमूलम् तत् स्वाहोरात्रार्धविष्कम्भः । पूर्वविधिना तत् उत्तरगोले उत्तरेण, दक्षिणगोले दक्षिणेन प्रदर्शयेत्
[ मेषादीनाम् लङ्कोदयाः ]
लङ्कोदयप्राणानयनम् आह ã
इष्टज्यागुणितम् अहोरात्रव्यासार्धम् एव काष्ठान्त्यम् ।
स्वाहोरात्रार्धहृतम् फलम् अजात् लङ्कोदयप्राग्ज्याः
इष्टज्या इति मेषवृषमिथुनान्तज्याः गृह्यन्ते । एताभिः गुणितम् अहोरात्रव्यासार्धम् स्वाहोरात्रार्धविष्कम्भः इति अर्थः । काष्ठस्य अन्तः काष्ठान्तः, तत्र भवम् काष्ठान्त्यम् । नवतिः भागाः यस्मिन् [काष्ठे तस्य अन्ते भवम्] यत् स्वहोरात्रार्धम् तत् एव [इष्ट]ज्याभिः गुणितम् स्वहोरात्रार्धहृतम् स्वकीयस्वकीयाहोरात्रार्धहृतम् फलम् इष्टलङ्कोदयप्राग्ज्याः । अजात् मेषात् प्रभृति काष्ठम् भवति इति काष्ठीक्रियते । [मिथुनान्त]प्राग्ज्याकाष्ठात्
वृषान्तप्राग्ज्याकाष्ठम् विशोधयेत् । शेषम् मिथुनस्य लङ्कोदयप्राणाः । [एवम्] वृषान्तप्राग्ज्याकाष्ठात् [मेषान्तप्राग्ज्याकाष्ठम् विशोधयेत् । शेषम् वृषभस्य लङ्कोदयप्राणाः] । स्वरूपतः एव मेष[लङ्को]दयप्राणाः भवन्ति
[ क्षितिज्या ]
दिननिशोः क्षयवृद्धिप्रतिपादनाय आह ã
इष्टापक्रमगुणिताम् अक्षज्याम् लम्बकेन हृत्वा या ।
स्वाहोरात्रे क्षितिजा क्षयवृद्धिज्या दिननिशोः सा
इष्टापक्रमेण गुणिताम् इष्टापक्रमगुणिताम् । [इष्टापक्रमगुणिताम्] अक्षज्याम् लम्बकेन हृत्वा फलम् स्वाहोरात्रमण्डले क्षितिज्या भवति । तत्र इष्टापक्रमज्या कोटिः, क्षितिज्या भुजा, तद्वर्गयुतिमूलम् कर्णः अर्काग्रा भवति इति । पूर्वापरस्वस्तिकयोः अर्काग्रयोः सूत्रम् बध्वा भुजकोटिवासना प्रदर्श्या । क्षितिजोन्मण्डलयोः अन्तरम् क्षितिजा इति । तया दिननिशोः क्षयवृद्धी । पूर्वक्षितिजात् उपर्यधोव्यवस्थितोन्मण्डल[क्षितिजयोः मध्ये ज्या]वत् सा
प्रदर्श्यते
[ स्वदेशोदयाः ]
राश्युदयकालप्रतिपादनाय आह ã
उदयति हि चक्रपादः चरदलहीनेन दिवसपादेन ।
प्रथमः अन्त्यः च अथ अन्यौ तत्सहितेन क्रमोत्क्रमशः
उदयति दर्शनम् याति, अर्धम् उपरि चक्रपादः, त्रयः राशयः । चरदलहीनेन दिवसपादेन इति अनेन लङ्कोदयाः त्रयः परिगृह्यन्ते । यतः त्रिभिः मेषादिलङ्कोदयैः पञ्चदशघटिकाः ताः स्वाहोरात्रचतुर्थः अंशः, ततः क्रमेण व्यवस्थितलङ्कोदयप्राणेभ्यः मेषादिचरदलप्राणान् स्वदेशाक्षोत्पन्नान् स्वकीयान् विशोधयेत् । मेषादीनाम् स्वदेशोदयाः भवन्ति । अन्त्यः चक्रपादः मीनकुम्भमकराः । एते अपि चरदलहीनेन चक्रपादेन उदयन्ति
। चरदलसहितेन दिवसपादेन । अत्र अपि दिवसपादग्रहणेन कर्कटसिंहकन्यायाः उत्क्रमेण लङ्कोदयाः गृह्यन्ते । तेन कर्कटसिंहकन्यायाः चरप्राणैः उत्क्रमेण सहिताः उदयन्ति । क्रमोत्क्रमशः इति । क्रमोत्क्रमगत्या क्रमेण चरदलहीनाः मेषवृषमिथुनाः, उत्क्रमेण सहिताः कर्कटसिंहकन्याः । एते एव उत्क्रमेण तुलावृश्चिकधनूंषि । ततः मकरकुम्भमीनाः उत्क्रमेण चरदलहीनाः । मेषवृषमिथुनाः क्रमेण अपमण्डले तिर्यग्व्यवस्थिताः,
तेन मेषः शीघ्रम् उदेति अतः चरदलासुभिः अपचीयते । एवम् वृषः मिथुनः च । एतैः मकरादयः व्याख्याताः । कर्कटसिंहकन्याः [तद्भिन्न]संस्थानत्वात् चिरेण उद्गच्छन्ति । अतः चरदलप्राणैः उपचीयन्ते । एतैः तुलादयः व्याख्याताः ।
क्षितिज्या व्यासार्धगुणा स्वाहोरात्रार्धहृता चरज्या, तत्काष्ठम् चरदलप्राणाः । पृथक् मेषादीनाम् लङ्कोदयवत् उत्पाद्याः । स्वदेशराश्युदयैः इष्टकाललग्नार्थम् सूर्योदयात् प्रभृति घटिकाः प्राणीकृत्य सूर्यभोग्यराश्युदयप्राणाः तेभ्यः विशोधयेत् । सूर्ये भोग्यांशम् क्षेप्यम् । पुनर् यावन्तः राश्युदयाः शुद्ध्यन्ति तावन्तः विशोध्य सूर्ये राशयः क्षिप्यन्ते । शेषम् त्रिंशता गुणितम् असुद्धोदयभक्तम् भागादि वर्धितरवौ क्षिपेत् । लग्नम्
भवति । एवम् रात्रौ अपि रात्रिगतघटिकाः दिनमानघटिकासु प्रक्षिप्य लग्नम् अनेन विधिना कर्तव्यम् । रात्रिशेषघटिकाभिः विपरीतकर्मणा रवेः गतभागादिना तदुत्क्रमेण यावन्तः उदयप्राणाः विशुद्धेयुः तावन्तः शोधनीयाः ] शेषम् त्रिंशता गुणितम् वर्तमानोदयभक्तम् भागादि शोधितम् उदयलग्नम् ।
अथ रवेः लग्नस्य च अन्तरकालसाधनम् । रवेः अभुक्तभागैः अभ्युदयम् संगुण्य त्रिंशता भजेत् । लब्धम् रवेः अभुक्तप्राणाः । एवम् लग्नभुक्तभागैः तदुदयम् संगुण्य त्रिंशता विभजेत् । लब्धम् लग्नभुक्तप्राणाः । अन्तरप्राणयुक्ताः षड्भिः भक्ताः विघटिकाः, षष्ट्या घटिकाः, सूर्योदयात् आरभ्य भवन्ति
[ इष्टकालशङ्कुः ]
[ इष्टकालशङ्क्वानयनार्थम् आह ã ]
स्वाहोरात्रेष्टज्या क्षितिजात् अवलम्बकाहताम् कृत्वा ।
विष्कम्भार्धविभक्ते दिनस्य गतशेषयोः शङ्कुः
[स्वाहोरात्रे]ष्टज्यानयनम् दिनगतशेषघटिकाभ्यः । उत्तरगोले क्षितिज[म् उन्मण्डला]त् अधः व्यवस्थितम् अतः चरदलघटिकाः [दिनगतशेषघटिकाभ्यः ] विशोध्य निष्पन्नाः उन्मण्डलावधेः भवन्ति । ताः प्राणीकृत्य जीवा ग्राह्या । चरदलज्यया सौम्येतरगोलयोः युतवियुता क्षितिजावधेः भवति । [अतः त्रैराशिकम्] ã यदि व्यासार्धमण्डले इयम् ज्या भवति स्वाहोरात्रार्धमण्डले कियती इति क्षितिजमण्डलावधेः स्वाहोरात्रेष्टज्या अभिधीयते ।
ताम् इष्टज्याम् अवलम्बकाहृताम् कृत्वा विष्कम्भार्धेन व्यासार्धेन विभजेत् । दिवसस्य पूर्वाह्णे गतस्य, अपराह्णे शेषस्य शङ्कुः भवति ।
चन्द्रशङ्क्वानयनम् । रात्रौ चन्द्रच्छाया उपलक्षयेत् । तत्र पूर्वकपाले चन्द्रमसः इष्टकालघटिकाः, अपरकपाले तु चन्द्रास्तलग्नान्तरालघटिकाः चन्द्रमसः शेषघटिकाः आनीय इष्टकर्म । चन्द्रस्वाहोरात्रार्धम् क्षितिज्याम् चरदलज्याम् च आनीय चरदलविपर्ययनिष्पन्नप्राणैः सूर्यवत् कर्म कर्तव्यम् । अथ स्वाहोरात्रेष्टज्या द्वादशगुणा विषुवत्कर्णेन भक्ता इष्टशङ्कुः भवति । अथवा चरदलेन अधिकोनघटिकाज्याम्
चरदलज्याविपर्ययनिष्पन्नाम्, लम्बकगुणिताम् स्वाहोरात्रेण संगुण्य त्रिज्यावर्गेण [विभज्य] शङ्कुलब्धिः । अथवा ताम् द्वादशगुणस्वाहोरात्रेण संगुण्य विषुवत्कर्णगुणव्यासार्धेन भजेत् । फलम् शङ्कुः ।
दिवसगतघटिकानयने च शङ्कुना गुणितम् व्यासार्धम् शङ्कुच्छायावर्गयुतिमूलेन भक्तम् बृहच्छङ्कुः भवति । त्रिज्यागुणितः लम्बकभक्तः स्वाहोरात्रेष्टज्या लभ्यते । तेन उत्तरगोले क्षितिज्या शोध्यते, दक्षिणे क्षिप्यते । ततः व्यासार्धेन हत्वा स्वाहोरात्रार्धेन भजेत् । लब्धस्य काष्ठम् उत्तरगोले चरदलयुतम् दक्षिणे हीनम् दिनगतशेषप्राणाः [ भवन्ति । तैः ] प्राग्वत् घटिकाः
[ शङ्क्वग्रम् ]
शङ्क्वग्रप्रदर्शनाय आह ã
विषुवज्जीवागुणितः स्वेष्टः शङ्कुः स्वलम्बकेन हृतः ।
अस्तमयोदयसूत्रात् दक्षिणतः सूर्यशङ्क्वग्रम्
स्वेष्टशङ्कुः इष्टकालोत्पन्नशङ्कुः, विषुवज्ज्यया अक्षजीवया गुणितः लम्बकेन भक्तः अस्तोदयसूत्रात् दक्षिणतः सूर्यशङ्क्वग्रम् भवति । शङ्कोः अग्रम् अन्तरालम् शङ्कुमूलात् समोत्तरावगाहिसूत्रम् यावत् अस्तमयोदय[सूत्र]म् इति ।
क्षितिजमण्डले प्राक्स्वस्तिकात् दक्षिणम् उत्तरम् वा अर्काग्राकाष्ठतुल्यान्तरे सूत्रस्य एकम् अग्रम् बध्वा, द्वितीयम् अग्रम् तावत् [अर्काग्राकाष्ठतुल्यान्तरे] एव अपरभागे बध्नीयात् । तत् पूर्वापरायतम् उदयास्तसूत्रम् । तस्य सूत्रस्य शङ्कुतलस्य अन्तरे शङ्क्वग्रम् । शङ्कुमूलात् भूमध्यम् यावत् सूत्रम् दृग्ज्या । भूमध्यात् उपरि शङ्कुमस्तकप्रापि यत् सूत्रम् कर्णः व्यासार्धम् इति
[ अर्काग्रा ]
अर्काग्रानयनाय आह ã
परमापक्रमजीवाम् इष्टज्यार्धाहताम् ततः विभजेत् ।
ज्या लम्बकेन लब्धार्काग्रा पूर्वापरे क्षितिजे
परमापक्रमज्या चतुर्विंशतिभागज्या 1397 । ताम् इष्टस्य रवेः भुजज्यया गुणिताम् [कृत्वा] लम्बकेन विभजेत् , [लब्धा ज्या] अर्काग्रा भवति । इयति अध्वनि विषुवतः उत्तरेण दक्षिणेन वा रविः उदेति, पूर्वापरे च क्षितिजमण्डलप्रदेशे
[ समशङ्कुः ]
सममण्डलशङ्क्वानयनाय आह ã
सा विषुवज्ज्योना चेत् विषुवदुदग्लम्बकेन सङ्गुणिता ।
विषुवज्ज्यया विभक्ता लब्धः पूर्वापरे शङ्कुः
सा इति अनेन अपक्रमज्या गृह्यते । उत्तरगोले विषुवज्ज्यातुल्या क्रान्तिज्या [यदा] भवति, तदा मध्याह्ने एव सविता सममण्डलम् विशति । विषुवज्ज्या [यदा] क्रान्तिकाष्ठज्यया ऊना [तदा] सममण्डलात् उत्तरेण याति । [क्रान्तिकाष्ठज्या यदा] विषुवज्ज्यया ऊना तदा सममण्डलम् विशति । [क्रान्तिकाष्ठज्या] यदा ऊना विषुवज्ज्यया, तदा [पूर्वानीता अर्काग्रा] लम्बकेन गुणिता विषुवज्ज्यया भक्ता सममण्डलशङ्कुः भवति ।
पूर्वसममण्डलेन अपरसममण्डलेन [च] क्षितिजे अर्काग्रान्तरे अस्तमयोदयसूत्रम् बध्वा अर्काक्रान्तराशिभागप्रदेशः समपूर्वापरमण्डले यत्र लग्नम् प्राग्बिन्दुतः तत् सममण्डलचापम् तथा गोले भ्रमयेत् यथा क्षितिजाधोभागे सममण्डले तावति अन्तरे लग्नम् भवेत् । तयोः सममण्डलबिन्द्वोः अन्तरे सूत्रम् बध्वा तदर्धम् शङ्कुः पूर्ववत् एव पूर्वापररेखास्पृक् भवति । शङ्कोः उत्तरेण अस्तमयोदयसूत्रम् यावत् अन्तरम् शङ्क्वग्रम्
अर्काग्रातुल्यम् । सममण्डलशङ्कुः अक्षज्यया गुणितः परमक्रान्तिज्याभक्तः सूर्यभुजज्या भवति । [सूर्ये मेषादिगे] तत्काष्ठम् आदित्यः, कर्कटकादिगे षड्राशिविशुद्धम्, तुलादिगे षड्राशियुतम्, मकरादिगे चक्रविशुद्धम् रविः भवति ।
छेद्यके अपि ã समायाम् भूमौ वृत्तम् आलिख्य दिक्चिह्नितम् कृत्वा सूर्यबिम्बोदये अस्ते च पूर्वापरयोः बिन्दू कृत्वा पूर्वापररेखायाः दक्षिणे [मध्याह्ननतज्यातुल्ये अन्तरे] तृतीयम् बिन्दुम् प्रकल्प्य बिन्दुत्रयावगाहि मत्स्यद्वयेन वृत्तम् आलिखेत् । तत् अर्कभ्रमवृत्तम् । अर्काग्राग्रे सविता उदितः तद्वृत्तानुसारेण सममण्डलम् अवगाह्य दक्षिणेन नतज्यातुल्ये अन्तरे मध्याह्नम् कृत्वा क्रमेण अपरभागे सममण्डलात् निष्क्रान्तः अपराग्राग्रे
अस्तम् एति । अर्कभ्रमवृत्तस्य प्रागपररेखायाः यत्र सम्पातः तत्र सममण्डले प्रवेशः । सममण्डले तु मध्यम् यावत् अन्तरम् सममण्डलशङ्कुच्छाया भवति । दक्षिणगोले सममण्डलात् दक्षिणेन याति । [तदा] सममण्डलस्य प्रवेशाभावः
[ मध्याह्नशङ्कुः ]
मध्याह्नशङ्कुच्छाययोः आनयनाय आह ã
क्षितिजात् उन्नतभागानाम् या ज्या सा परः भवेत् शङ्कुः ।
मध्यात् नतभागज्या छाया शङ्कोः तु तस्य एव
क्षितिजात् इति समदक्षिणोत्तरस्वस्तिकप्रदेशात् ये उन्नतभागाः गोलमध्यस्थिते रवौ लक्षिताः तेषाम् या ज्या सा परमः शङ्कुः भवति । या मध्यात् नतभागज्या सा परमशङ्कोः छाया स्यात् । इष्टमध्याह्ने रवेः अपक्रमभागाः अक्षभागेषु दक्षिणगोले प्रयोजयेत् । उत्तरे गोले वियोजयेत् । ते नतभागाः भवन्ति । चन्द्रस्य विक्षेपयुतवियुताः नतभागाः भवन्ति, यतः विमण्डले चन्द्रः । एते नवतेः विशोध्यन्ते । शेषम् उन्नतभागाः । तेषाम् [ज्या]
उन्नतभागज्या । अथवा तद्दिनस्वाहोरात्रार्धम् क्षितिज्यया स्वया उदग्याम्ये वियुतयुतं[व्यासार्धगुणम् स्वाहोरात्रार्धभक्तम्] द्वादशगुणम् विषुवत्कर्णहृतम् महाशङ्कुः तदुन्नतज्या भवति
[ दृक्क्षेपज्या ]
दृक्क्षेपप्रतिपादनाय आह ã
मध्यज्योदयजीवासंवर्गे व्यासदलहृते यत् स्यात् ।
तत् मध्यज्याकृत्योः विशेषमूलम् स्वदृक्क्षेपः
मध्यज्या च उदयजीवा च मध्योदयजीवे । तयोः संवर्गः परस्परगुणनम् व्यासदलहृतम् यत् भवति तस्य मध्यज्यायाः च कृत्योः विशेषमूलम् स्वकीयः दृक्क्षेपः । स्वग्रहणेन तु रविचन्द्रकक्ष्ययोः भिन्नः दृक्क्षेपः
[ दृग्गतिज्या ]
दृग्गतिज्यानयनाय आह ã
दृग्दृक्क्षेपकृतिविशेषितस्य मूलम् स्वदृग्गतिः कुवशात् ।
क्षितिजे स्वा दृक्छाया भूव्यासार्धम् नभोमध्यात्
दृग्ज्यादृक्क्षेपकृत्योः विवरस्य मूलम् स्वकीया दृग्गतिः भवति । कुवशात् भूवशात् इयम् भवति । मध्यज्योदयजीवयोः संवर्गे व्यासदलहृते यत् तत् मध्यज्याकृत्योः विशेषात् मूलम् दृक्क्षेपः हि भवति । एवम् भूवशात् उत्पन्नत्रिज्याशङ्कुवर्गविशेषात् मूलम् दृग्ज्या भवति । अतः भूवशात् उत्पन्न[दृग्ज्या]दृक्क्षेपनिष्पन्नत्वात् कुवशात् इति उच्यते । "क्षितिजे स्वा दृक्छाया" इति अत्र तु "स्वा" इति अनेन स्वकीयदृक्क्षेपदृग्गती अभिधीयेते । भूव्यासार्धम् 525
। क्षितिजमण्डले स्वा दृक्छाया कस्मात् उत्पन्ना? नभोमध्यात् । व्यासार्ध[तुल्य]म् एतत् भवति । तत् यतः कुदृष्टिवशात् सममण्डलमध्यात् पूर्वापरयोः दिशोः दृग्गतिः [लम्बनम्] ऋणम् धनम् वा इति, तथा एव भगोलमध्यात् दक्षिणोत्तरदिशोः दृक्क्षेपस्य ग्रहणेन नतिः वा स्यात् ।
ज्यानाम् विशेषोत्पत्तिम् दर्शयति । [भूमेः गोलाकारत्वात्] भूव्यासार्ध[तुल्य]म् अन्तरम् क्षितिजे सूर्यकक्ष्यायाम् चन्द्रकक्षायाम् च [भवति] । सूर्यकक्ष्योत्पन्नमध्यज्याम् सूर्यकक्ष्योदयज्यया संगुण्य त्रिज्यया भागलब्धस्य वर्गम् मध्यज्यावर्गात् विशोध्य मूलम् रविकक्ष्यायाम् दृक्क्षेपः, तथा चन्द्रकक्ष्योत्पन्नमध्यज्याम् स्वोदयज्यया संगुण्य त्रिज्यया भागलब्धस्य वर्गम् स्वमध्यज्यावर्गात् विशोध्य मूलम् चन्द्रकक्ष्यायाम् दृक्क्षेपः
। सूर्यस्वाहोरात्रादिभिः साधितदृग्ज्यावर्गात् सूर्यदृक्क्षेपवर्गम् विशोध्य मूलम् सूर्यकक्ष्यायाम् दृग्गतिज्या । चन्द्रस्वाहोरात्रादिभिः साधितदृग्ज्यावर्गात् चन्द्रदृक्क्षेपवर्गम् विशोध्य मूलम् चन्द्रकक्ष्यायाम् दृग्गतिज्या भवति । एवम् अन्येषाम् अपि ग्रहाणाम् सममण्डलमध्यात् दृग्गतेः भावः । उदये [सूर्य]ग्रहणे चन्द्रस्य तावदधःस्थितत्वात् चन्द्रकक्ष्यायाम् सूर्यबिम्बकेन्द्रसूत्रात् पूर्वेण चन्द्रबिम्बम् नतम् लक्ष्यते । अस्तमये तु तथा एव
अपरतः । समभूप्रदेशे स्थितस्य द्रष्टुः व्यासार्धतुल्यया दृग्गतिज्यया भूव्यासार्धतुल्यम् दृग्गत्यन्तरम् [= लम्बनम्] । एवम् एव दक्षिणोत्तरकपालयोः दृक्क्षेपान्तरम् [= नतिः] । [तत्र इदम् त्रैराशिकम्] ã यदि व्यासार्धतुल्यया दृग्गतिज्यया भूव्यासार्धयोजनतुल्यम् दृग्गत्यन्तरम् [=लम्बनम्] तदा इष्टकालोत्पन्नदृग्गतिज्यया कियत् इति । [पुनर् च त्रैराशिकम् ã यदि] स्फुटयोजनकर्णेन त्रिज्यातुल्याः कलाः लभ्यन्ते, तदा दृग्गति[= लम्बन]योजनैः कियत्यः
इति । अत्र प्रथमे त्रैराशिके त्रिज्या भागहारः द्वितीये गुणकारः तुल्यत्वात् [नाशे कृते] रविचन्द्रयोः दृग्गतेः भूव्यासार्धम् गुणकारः स्फुटयोजनकर्णः भागहारः, फलम् लिप्ताः । सूर्यलिप्ताः चन्द्रलिप्ताभ्यः विशोध्य त्रैराशिकम् ã यदि [दिनस्फुट]भुक्त्यन्तरेण षष्टिः नाड्यः [लभ्यन्ते, तदा] आभिः लिप्ताभिः कियत्यः इति । लब्धम् नाड्यः भवन्ति, ताः दृग्गति[=लम्बन]घटिकाः । पूर्वकपाले पूर्वतः ग्रहः कक्ष्यायाम् नतः । तस्मात् प्राग्योगः अतः
ग्रहे अपनीयन्ते । अपरकपाले परतः नतत्वात् लम्बनघटिकातुल्यकालेन योगः भविष्यति इति अतः प्रक्षिप्यन्ते । एवम् एतत् कर्म तावत् क्रियते यावत् अविशेषः ।
एवम् [रविचन्द्रयोः] दृक्क्षेपलिप्ताः प्राग्वत् त्रैराशिकेन ज्ञाताः । यदि रविचन्द्रयोः मध्य[ज्ये] समदिक्स्थे भवतः तदा [रविचन्द्रयोः] नतिलिप्तानाम् विशेषः अन्यथा योगः । ततः अवनतिः भवति । ततः मध्यग्रहणचन्द्रात् पातम् विशोध्य शेषस्य दक्षिणोत्तरभुजज्या अर्धपञ्चमेन गुणिता त्रिज्याभक्ता विक्षेपः । अवनतिविक्षेपयोः समदिशि योगः, भिन्नदिशि वियोगः [स्फुटविक्षेपः] । स्फुटविक्षेपः अवनतिः इति पर्यायः । तया च अवनत्या स्थित्यर्धम्
आनीय मध्यतिथेः विशोध्य शेषः स्पर्शकालः । तेन प्राग्वत् लम्बनविधिः । स्पर्शमध्यलम्बनघटिकान्तरेण स्थित्यर्धम् उपचीयते । तत् पुनर् मध्यकालात् विशोध्य असकृत् स्थित्यर्धम् उत्पादयेत् यावत् स्थिरम् भवति । मोक्षे पुनर् प्रथमानीतस्थित्यर्धम् मध्यतिथौ प्रक्षिपेत् । पूर्ववत् मोक्षलम्बनमध्यलम्बनघटिकान्तरेण स्थित्यर्धम् उपचीयते । तत् पुनर् मध्यतिथौ प्रक्षिप्य पूर्ववत् लम्बनघटिकाः उत्पाद्य तन्मध्यलम्बनान्तरेण
स्थित्यर्धम् उपचितम् कृत्वा तत् एव कर्म पुनर् क्रियते यावत् स्थिरम् भवति । एवम् स्थिरीकृतस्थित्यर्धसम्बन्धिनम् सूर्येन्दुगतिकलाभोगम् मध्यग्रहणसूर्येन्दोः स्पर्शे विशोधयेत् मोक्षे क्षिपेत् । स्पर्शमोक्षकालिकौ भवतः ।
अथ प्रागपरकपालद्वये अपि लम्बनयोः तयोः योगेन युतम् स्थित्यर्धम् स्फुटम् भवति ।
समायामवनौ [व्यासार्धप्रमाणेन सूत्रेण] वृत्तम् आलिख्य दिक्चिह्नितम् कृत्वा मण्डलपूर्वभागे प्रागपररेखायाः उत्तरेण दक्षिणेन वा उदयज्याकाष्ठतुल्ये अन्तरे बिन्दू कृत्वा बिन्दुद्वयशिरस्पृक्सूत्रम् प्रसार्य रेखा कुर्यात् उदयज्या भवति । [पुनर्] मध्यम् मण्डलकेन्द्रम् कृत्वा मध्यज्यातुल्यसूत्रेण वृत्तम् भ्रामयेत् । तत् मध्यज्यामण्डलम् । त्रिज्यामण्डलपरिधिबिन्दुद्वयात् सूत्रद्वयम् मध्यकेन्द्रम् आनीय रेखाद्वयम् कुर्यात्
। तत् अन्तरज्यार्धम् मध्यज्यामण्डले तथा एव पूर्वापरतः उत्तरेण दक्षिणेन वा व्यवस्थाप्यते । तत् मध्यज्यावर्गविशेषमूलम् दृक्क्षेपज्याकोटिः मध्यज्यामण्डले भवति ।
[त्रिज्यामण्डले पूर्वापरयोः उदयज्याकाष्ठतुल्ये अन्तरे] बिन्दू कृत्वा [वृत्तकेन्द्रात् मध्याह्न]नतज्यातुल्ये अन्तरे दृक्क्षेपबिन्दुः दक्षिणेन [प्रकल्प्य] बिन्दुत्रयेण मत्स्यम् उत्पाद्य तन्मुखपुच्छस्पृक्सूत्रसम्पातात् बिन्दुत्रयस्पृग्वृत्तम् भ्रमयेत् । तत् अर्कभ्रमवृत्तम् । तत्र क्षितिजात् ऊर्ध्वम् यत्र प्रदेशे रविः तन्मध्यकेन्द्रान्तरालसूत्रम् दृग्ज्या कर्णः, स्थानीया दृक्क्षेपज्या कोटिः, तदग्रात् आरभ्य दृग्ज्याग्रम् यावत् रविचिह्नोपलक्षितम् तदन्तरालम्
दृग्गतिज्या सा पूर्वापरा । एवम् विशिष्टम् त्र्यश्रम् क्षेत्रम् निष्पाद्यते
[ अक्षदृक्कर्म ]
उदयास्तमययोः विक्षेपवशात् ऋणधनत्वप्रतिपादनाय आह ã
विक्षेपगुणा अक्षज्या लम्बकभक्ता भवेत् ऋणम् उदक्स्थे ।
उदये धनम् अस्तमये दक्षिणगे धनम् ऋणम् चन्द्रे
अक्षज्या विक्षेपगुणा लम्बकभक्ता फलम् लिप्ताः । उत्तरविक्षेपे उदयस्थितचन्द्रे ऋणम्, अस्तमये धनम् । याम्ये विक्षेपे उदयस्थे चन्द्रे धनम्, अस्तमये ऋणम् इति । ऋणधनयुक्ती रविचरदलफलोपपत्तितुल्या
[ अयनदृक्कर्म ]
अयनवशात् ऋणधनत्वप्रतिपादनाय आह ã
विक्षेपापक्रमगुणम् उत्क्रमणम् विस्तरार्धकृतिभक्तम् ।
उदगृणधनम् उदगयने दक्षिणगे धनम् ऋणम् याम्ये
विक्षेपः च अपक्रमः च विक्षेपापक्रमौ । [विक्षेपापक्रमौ गुणौ यस्य तत् विक्षेपापक्रमगुणम् । विक्षेपः तात्कालिकः गृह्यते, अपक्रमः च परमापक्रमः । उत्क्रमणम् उत्क्रमज्याम् ।] विक्षेपेण परमापक्रमेण गुणिताम् राशित्रययुतचन्द्रस्य उत्क्रमजीवाम् इति अर्थः । कथम् राशित्रययुतचन्द्रस्य तत् उत्क्रमणम्? उत्क्रमणग्रहणात् राशित्रयक्षेपः अवगम्यते । [राशित्रययुतचन्द्रस्य] उत्क्रमज्याम् गुणयेत् । व्यासार्धकृत्या भजेत् । फलम्
लिप्ताः उदग्विक्षिप्ते उत्तरायणे ऋणम् दक्षिणे धनम् । तत् एव फलम् दक्षिणे अयने उत्तरविक्षिप्ते धनम्, ऋणम् याम्ये, विक्षेपे दक्षिणे ऋणम् भवेत् इति । ऋणे धने युक्तिः अपि । यस्मात् तुल्यदिग्विक्षेपायनयोः ग्रहः तावत् अधिकः प्राप्यते, उदयास्तमयक्षितिजयोः विशोध्यते; भिन्नायनविक्षेपयोः तावत् हीनः इति क्षिप्यते । सर्वग्रहाणाम् स्वोदयास्तमययोः इदम् कर्म प्रवर्तते । न मध्याह्नार्धरात्रयोः
[ चन्द्रादिस्वरूपम् ग्रहणकारणम् च ]
चन्द्रादिस्वरूपव्यावर्णनाय आह ã
चन्द्रः जलम् अर्कः अग्निः मृद्भूच्चाया अपि या तमः तत् हि ।
छादयति शशी सूर्यम्, शशिनम् महती च भूच्छाया
यत् एतत् चन्द्रमण्डलम् तत् प्रत्यक्षेण जलम्, विवस्वान् उष्णस्वभावात् अग्निः, भूः पृथिवी मृण्मयी, भूच्छाया तमः स्वभावात् इति । शशी चन्द्रः सूर्यम् छादयति । उपरिस्थितः सूर्यः अधःस्थितेन चन्द्रमसा छाद्यते । महती च भूच्छाया शशिनम् छादयति । ग्राहकभेदः च अनयोः अस्ति, यतः कुच्छाया विशाला न्यूनः शशी, शशी न्यूनः विशालः दिनकृत्
[ ग्रहणमध्यकालः ]
कदा ग्रहणे भवतः, तत्प्रतिपादनाय आह ã
स्फुटशशिमासान्ते अर्कम् पातासन्नः यदा प्रविशति इन्दुः ।
भूच्छायाम् पक्षान्ते तदा अधिकोनम् ग्रहणमध्यम्
स्फुटः शशिमासः स्फुटशशिमासः, तस्य अन्ते परिसमाप्तौ अमावास्यायाम् अर्कम् आदित्यम्, पातासन्नः विक्षेपमार्गगत्या पातासन्नः, यदा प्रविशति इन्दुः यदा अर्कग्रहणम् भवति । [पक्षान्ते पौर्णमास्यन्ते पातासन्नः इन्दुः यदा] भूच्छायाम् प्रविशति । तदा अधिकम् ऊनम् वा ग्रहणमध्यम् भवति । यतः पूर्वकपाले ग्रहणमध्यम् अधिकम् भवति स्फुटतिथिच्छेदजनितम् तेन तत्र लम्बनघटिकाः विशोध्याः तावता कालेन अतीतत्वात्
ग्रहणमध्यस्य । अपरकपाले ग्रहणमध्यम् ऊनम् भवति स्फुटतिथिच्छेदजनितम् तेन तत्र लम्बनघटिकाः क्षिप्यन्ते, भावित्वात् ग्रहणमध्यस्य
[ भूच्छायादैर्घ्यम् ]
भूच्छायाप्रमाणम् आह ã
भूरविविवरम् विभजेत् भूगुणितम् तु रविभूविशेषेण ।
भूच्छायादीर्घत्वम् लब्धम् भूगोलविष्कम्भात्
भुवः रवेः च अन्तरम् भूरविविवरम्, रवियोजनकर्णः 459585, भूगुणितम् भूव्यासेन 1050 गुणितम्, रविभुवोः विशेषेण रविभुवोः व्यासयोः 4410, 1050, अन्तरेण 3360 विभजेत् । तत् भूगोलच्छायादीर्घत्वम् भवति 143620 भूगोलविष्कम्भात् प्रभृति ।
अत्र इदम् प्रदीपच्छायाकर्म । रविव्यासः प्रदीपः भुजा, भूव्यासः शङ्कुः, रविभूव्यासयोः अन्तरम् रविभूव्यासविशेषः, रवियोजनकर्णः शङ्कुप्रदीपच्छाययोः अन्तरम् इति प्रदीपच्छायाकर्मसूत्रनिबन्धनम् ।
उपपत्तिः प्रदीपच्छायाकर्मणा एव । रविभूगोलवृत्तपार्श्वयोः सूत्रद्वयम् तथा सूर्यभूव्याससूत्रद्वयम् एकत्र बध्नीयात् । भूच्छाया क्रमेण अपचीयमाना भूविष्कम्भात् लक्ष्यते
[ तमसः विष्कम्भम् ]
चन्द्रकक्ष्यायाम् भूच्छायानयनाय आह ã
छायाग्रचन्द्रविवरम् भूविष्कम्भेण तत् समभ्यस्तम् ।
भूच्छायया विभक्तम् विद्यात् तमसः स्वविष्कम्भम्
भूछायाग्रात् आरभ्य चन्द्रम् यावत् अन्तरम् छायाग्रचन्द्रविवरम् । भूच्छायादैर्घ्यम् 143620 चन्द्रकर्णेन 34377 अनेन हीनम् 109243 छायाग्रचन्द्रविवरम् जातम्, भूविष्कम्भेण 1050 गुणितम् भूच्छायादैर्घ्येण 143620 विभक्तम् लब्धम् तमसः विष्कम्भः 689 स्वग्रहणे चन्द्रकक्ष्यायाम् भूच्छायाविष्कम्भः भवति ।
यदि चन्द्रयोजनकर्णेन व्यासार्धम् 3439 लभ्यते तदा तमोविष्कम्भार्धेन कियत् इति लब्धम् [तमोविष्कम्भार्ध]लिप्ताप्रमाणम् 800 । 19 ॥ एवम् स्वकीयस्फुटयोजनकर्णाभ्याम् रविचन्द्रयोः व्यासलिप्तानयनम् । रविव्यासः 4410 व्यासार्ध 3438 गुणितः रवियोजनकर्ण 457585 भक्तः रविबिम्बकलाः 33 । 00 ॥ चन्द्रव्यासः 315 व्यासार्ध 3438 गुणितः चन्द्रयोजनकर्ण 34377 हृतः चन्द्रबिम्बकलाः 31 । 10
[ स्थित्यर्धानयनम् ]
स्थित्यर्धप्रतिपादनाय आह ã
तच्छशिसम्पर्कार्धकृतेः शशिविक्षेपवर्गितम् शोध्यम् ।
स्थित्यर्धम् अस्य मूलम् ज्ञेयम् चन्द्रार्कदिनभोगात्
छाद्यछादकयोः सम्पर्कार्धम् मानैक्यार्धम् इति अर्थः । तस्य कृतिः तच्छशिसम्पर्कार्धकृतिः । तस्याः शशिनः विक्षेपवर्गितम् शोध्यम् । ग्रहणद्वये अपि चन्द्रात् विक्षेपः इति । रविग्रहणे अवनतियुतवियुतः स्फुटविक्षेपः गृह्यते । तस्य मूलम् स्थित्यर्धम् भवति । कथम्? चन्द्रार्कदिनभोगात् । चन्द्रार्कदिनभोगशब्देन चन्द्रार्कदिनभुक्तिः गृह्यते । तयोः अनुलोमगतिकयोः दिनगत्यन्तरेण त्रैराशिकम् कर्म ã यदि रविशशिगतिविशेषेण
षष्टिः नाड्यः लभ्यन्ते, [तदा] स्थित्यर्धलिप्ताभिः कियत्यः इति स्थित्यर्धघटिकाः लभ्यन्ते
[ विमर्दार्धानयनम् ]
एवम् विमर्दार्धम् आनेयम् । कथम्?
चन्द्रव्यासार्धोनस्य वर्गितम् यत् तमोमयार्धस्य ।
विक्षेपकृतिविहीनम् तस्मात् मूलम् विमर्दार्धम्
इति एतस्मात् । [स्थित्यर्धम्] तिथेः स्पर्शे शोध्यम् मोक्षे देयम्, रविचन्द्रपाताः अपि स्पर्शमोक्षकालिकाः स्थित्यर्धघटिकाभिः कृत्वा पुनर् स्पर्शमोक्षयोः विक्षेपौ, ताभ्याम् स्थित्यर्धे उभे यावत् अविशेषम् ।
गणितकर्मणा उपपत्तिः दृश्यते । ग्राह्यबिम्बमानार्धेन वृत्तम् आलिखेत् । तत् ग्राह्यबिम्बम् । ततः मानैक्यार्धतुल्येन कर्कटकेन तेन एव केन्द्रेण अपरम् वृत्तम् आलिखेत् । तत् ग्राह्यग्राहकसम्पर्कार्धमण्डलम् । ततः दक्षिणोत्तररेखायाम् यथादिशम् केन्द्रात् उत्तरेण दक्षिणेन वा विक्षेपतुल्यम् सूत्रम् प्रसार्य बिन्दुम् कुर्यात् । तन्मत्स्यविधिना पूर्वा[पराम् रेखाम् कुर्यात् । तत्सम्पर्कार्धमण्डलसम्पातात् केन्द्रप्रापिणीम् रेखाम् नयेत्
। एवम् अर्धायतचतुरस्रम् क्षेत्रम् उत्पद्यते । तत्र सम्पर्कार्धम् कर्णः, विक्षेपः च भुजा । तद्वर्गविश्लेषमूलम् कोटिः स्थित्यर्धम् इति । यदा ग्राह्यबिम्बार्धोनग्राहकबिम्बार्धतुल्यम् ग्राह्यग्राहकयोः केन्द्रान्तरालम्, तदा ग्राह्यग्राहकबिम्बार्धविश्लेषः कर्णः, विक्षेपः एव भुजा । तद्वर्गविशेषमूलम् कोटिः विमर्दार्धम् इति
[ चन्द्रस्य अग्रस्तमानम् ]
ग्रस्तशेषप्रमाणानयनाय आह ã
तमसः विष्कम्भार्धम् शशिविष्कम्भार्धवर्जितम् अपोह्य ।
विक्षेपात् यत् शेषम् न गृह्यते तत् शशाङ्कस्य
शशिविष्कम्भार्धवर्जितम् तमसः विष्कम्भार्धम् चन्द्रविक्षेपात् अपोह्य । यत् शेषम् तत् चन्द्रस्य न छाद्यते । ग्रहणमध्ये उत्तरेण दक्षिणेन वा यावत् एव विक्षेपः, तदा तावत् एव तयोः केन्द्रान्तरालम् भवति । यदा पुनर् विक्षेपः, तस्मात् शशितमसः विष्कम्भार्धविशेषात् अधिकः भवति, तदा तावत्प्रमाणम् एव बिम्बकेन्द्रान्तरालस्य द्वितीय पार्श्वतः चन्द्रबिम्बम् तमोमध्यात् निष्क्रान्तम् लक्ष्यते । यावान् भागः चन्द्रस्य न गृह्यते
तम् चन्द्रबिम्बात् विशोध्य शेषम् ग्रासप्रमाणम् स्यात् । चन्द्रवत् अर्के अपि
[ इष्टकालिकग्रासः ]
इष्टकालग्रासप्रतिपादनाय आह ã
विक्षेपवर्गसहितात् स्थितिमध्यात् इष्टवर्जितात् मूलम् ।
सम्पर्कार्धात् शोध्यम् शेषः तात्कालिकः ग्रासः
विक्षेपवर्गः तेन सहितात्, स्थितिः स्पर्शात् आरभ्य यावन्मोक्षः, तस्य मध्यम् स्थित्यर्धम्, इष्टकालवर्जितम् इष्टवर्जितम्, तस्मात् । यत् मूलम् [तत्] सम्पर्कार्धात् शोध्यम् मानैक्यार्धात् विशोध्यम् । शेषः तात्कालिकः ग्रासः भवति ।
स्थित्यर्धम् इष्टकालहीनम् भुक्त्यन्तरगुणम् षष्टिहृतम् लिप्ताः । वर्गः तावतः विक्षेपस्य लिप्तात्मकस्य वर्गे युक्त्वा मूलीक्रियते, मूलम् कर्णः । [तावत्कर्णम् मानैक्यार्धात् विशोध्य शेषः तात्कालिकः ग्रासः भवति ।] तावता कर्णेन प्रविष्टः ग्राहकः
[ अक्षवलनम् अयनवलनम् च ]
वलनज्याप्रतिपादनाय आह ã
मध्याह्नोत्क्रमगुणितः अक्षः दक्षिणतः अर्धविस्तरहृतः दिक् ।
स्थित्यर्धात् च अर्केन्द्वोः त्रिराशिसहितायनात् स्पर्शे
मध्याह्नात् प्रभृति उत्क्रमः मध्याह्नोत्क्रमः । मध्याह्नतिथ्यन्तरालघटिका मध्याह्नशब्देन उच्यते । तत्र प्राक्कपाले तिथिघटिका दिनार्धात् विशोध्या, अपरकपाले तेभ्यः दिनार्धम् । मध्याह्ने इति उपलक्षणम् । तथा च इन्दुग्रहणे मध्यरात्रितिह्यन्तरालघटिकाः गृह्यन्ते । ताः षड्गुणाः भागाः तेषाम् उत्क्रमज्या, तया अक्षज्या दक्षिणतः व्यवस्थिता गुणनीया, अर्धविस्तरेण व्यासार्धेन भक्ता दिक् भवति । दक्षिणतः इति अपरकपालम्
अधिकृत्य उत्क्तम् आचार्येण, यतः अपरकपाले पूर्वभागः दक्षिणेन वलति, अपरभागः उत्तरेण; प्राक्कपाले पुनर् पूर्वभागः उत्तरेण, अपरभागः दक्षिणेन वलति । एवम् बिम्बस्य पूर्वापरभागः उत्तरेण दक्षिणेन वलति, यतः दिक्शब्देन वलनम् उच्यते । यत्र चन्द्रः भूच्छायायाम् प्रविशति तत्र चन्द्रबिम्बे खण्ड्यमाने तद्वलनम् प्राक्कपाले चन्द्रबिम्बपूर्वभागे उत्तरेण अवतिष्ठते, अपरभागे दक्षिणेन । अपरकपाले विपरीतम् ।
विक्षेपः रविग्रहणे यथादिशम् एव भवति । यदा पुनर् भूच्छाया ग्राहकत्वेन कल्पिता तदा विक्षेपस्य दिग्विपर्ययः ।
स्थितेः अर्धम् स्थित्यर्धम्, विक्षेपः । यतः स्थितेः अर्धम् विक्षेपवशात् भवति, तेन स्थित्यर्धशब्देन विक्षेपः उच्यते । तस्मात् विक्षेपवशात् द्वितीयवलनानयनम् ã अर्केन्द्वोः इति । अर्कः च इन्दुः च अर्केन्दू, तयोः अर्केन्द्वोः त्रिराशिसहितयोः यत् अयनम् । अयनशब्देन क्रान्तिः, त्रिराशिशब्देन ज्या उत्क्रमेण ग्राह्या । त्रिराशिसहितौ यदा रविचन्द्रौ चक्रार्धात् ऊनौ भवतः तदा [पूर्वकपाले] उत्तरम् दिग्वलनम् । चन्क्रार्धात् अधिकौ तदा [पूर्वकपाले]
दक्षिणम् दिग्वलनम् । उत्क्रमज्या परक्रान्तिगुणा त्रिज्याहृता क्रान्तिवलनज्या । तद्बिम्बपूर्वभागे उत्तरेण उत्तरम्, दक्षिणेन दक्षिणम् । अपरकपाले तु [व्यत्ययेन] दिक्साधनम् कर्तव्यम् ।
सममण्डलमध्यात् दक्षिणेन अक्षतुल्ये अन्तरे पूर्वापरायतमण्डलस्य [नाडीमण्डलस्य] यत् अन्तरम् तत् अक्षवलनम् । तत् मध्यात् उत्क्रमेण उपचीयते । एतत् आनयनम् ã सममण्डलमध्यात् नतस्य उत्क्रमज्यया कर्तव्यम् । पूर्वकपाले कर्णगत्या बिम्बपूर्वभागः उत्तरेण प्रतिभासते, अपरभागः दक्षिणेन । परकपाले बिम्बपूर्वभागः दक्षिणेन अपरभागः उत्तरेण । इति गोले प्रदर्शयेत् । अयनवलनम् तु उत्तरदक्षिणायनादौ भिन्नत्वेन
प्रतिभासते, मेषादौ उत्तरम्, तुलादौ दक्षिणम् । एवम् अक्षवलनत्रयेण परिलेखः क्रियते ।
प्रथमम् समभूमौ ग्राह्यमण्डलम् लिखेत् । तत् केन्द्रात् एव सम्पर्कार्धमण्डलम् [व्यासार्धमण्डलम् च लिखेत्] । व्यासार्धम् इष्टच्छेदेन छिन्नम् कर्तव्यम् । [व्यासार्धमण्डलम्] पूर्वापरदक्षिणोत्तरदिगङ्कितम् [कार्यम्] । अक्षायनवलने काष्टीकृत्य तुल्यदिग्योगः भिन्नदिग्विश्लेषः [च कार्यः] । व्यासार्धमण्डले दक्षिणेन उत्तरेण वा अपमण्डलगत्या [पश्चिमभागे] वलनम् विधाय बिन्दुम् कुर्यात् । ततः केन्द्रप्रापि सूत्रम् नयेत् । तस्य
सूत्रस्य मानैक्यार्धपरिधेः यत्र सम्पातः तस्मात् उत्तरेण दक्षिणेन विक्षेपम् च अपगत्या परिध्यनुसारेण नीत्वा अग्रे बिन्दुम् कुर्यात् । तस्मात् बिन्दोः केन्द्रप्रापि सूत्रम् नयेत् । यत्र ग्राह्यबिम्बम् स्पृशति तत्र रवेः अपरभागे स्पर्शः, चन्द्रस्य बिम्बे पूर्वभागे स्पर्शः । [ग्राहकबिम्बकेन्द्रः तु] सम्पर्कार्धमण्डले भवति । रविग्रहणे स्पर्शवलनम् दिग्वशेन मानैक्यार्धपरिधौ पूर्ववत् । तदग्रात् विक्षेपम् यथादिशम्, चन्द्रग्रहणे विपरीतम्
प्रसारयेत् । तदग्रात् केन्द्रप्रापि सूत्रम् नयेत् । यत्र ग्राह्यपरिधिम् स्पृशति तत्र स्पर्शः । मोक्षवलनम् रविग्रहणे पूर्वभागे, चन्द्रग्रहणे अपरभागे व्यस्तम् प्रसार्यते । ततः मोक्षविक्षेपम् यथादिशम् सवितुः, चन्द्रस्य विपरीतम् प्रसार्य बिन्दुम् कुर्यात् । तदग्रात् केन्द्रप्रापिसूत्रम् नयेत् । यत्र ग्राह्यपरिधिम् स्पृशति तत्र मोक्षः ।
मध्यग्रहणे मध्यग्रहणवलनम् विक्षेपवशात् । सम्पर्कार्धमण्डले दक्षिणविक्षेपे उत्तरम् वलनम् पूर्वेण, दक्षिणम् परेण; उत्तरे विक्षेपे, उत्तरम् वलनम् परेण, दक्षिणम् पूर्वेण प्रशारयेत् । [रविग्रहणे विपरीतम् कार्यम् ।] तदग्रात् याम्य उत्तररेखा कार्या । तन्मानैक्यार्धवृत्तसम्पातात् केन्द्रप्रापि सूत्रम् नीत्वा रेखाम् कुर्यात् । रेखानुसारेण केन्द्रमध्यात् सवितुः यथादिशम्, चन्द्रस्य विपरीतम्, विक्षेपम् प्रसार्य तदग्रे
बिन्दुम् कुर्यात् । तस्मात् ग्राहकबिम्बव्यासार्धेन [ग्राह्यबिम्बम्] खण्डयेत् । ग्राह्यबिम्बम् तावत् ग्रस्तम् दृश्यते ।
इष्टपरिलेखे, प्रग्रहणमध्यमोक्षविक्षेपबिन्दुत्रयेण मत्स्यद्वयम् उत्पाद्य तन्मुखपुच्छनिर्गतसूत्रसम्पातात् बिन्दुत्रयस्पृक्सूत्रेण वृत्तम् भ्रामयेत् । [स] ग्राह्यबिम्बकेन्द्रमार्गः । तत्र इष्टग्रासकर्णप्रमाणम् [सूत्रम्] केन्द्रात् यथादिशम् ग्राहकमार्गाभिमुखम् प्रसार्य यत्र ग्राहकमार्गम् स्पृशति तस्मात् ग्राहकार्धेन परिलेखात् तत्कालखण्डग्रहणम् दृश्यते ।
निमीलनोन्मीलनयोः विमर्दार्धलिप्ताभिः इष्टग्रासवत् कर्णम् आनीय इष्टग्रासविधिना निमीलनोन्मीलने दर्शयितव्ये
[ ग्राह्यबिम्बस्य वर्णः ]
[ग्राह्यबिम्ब]वर्णप्रतिपादनाय आह ã
प्रग्रहणान्ते धूम्रः खण्डग्रहणे शशी भवति कृष्णः ।
सर्वग्रासे कपिलः सकृष्णताम्रः तमोमध्ये
प्रग्रहणे स्पर्शे, अन्ते मोक्षे, शशी धूम्रः भवति । खण्डग्रहणे कृष्णः भवति । खण्डग्रहणम् प्रग्रहणात् अर्धासन्नम् सर्वैः गृह्यते । सर्वग्रासे कपिलः सकृष्णताम्रः तमोमध्ये । यदा सकलम् बिम्बम् छन्नम् भवति तदा सर्वग्रासः, तत्र कपिलवर्णः । तस्मात् परतः विमर्दकालात् मध्यम् यावत् सकृष्णताम्रः भवति । सूर्यग्रहणे पुनर् सर्वदा कृष्णवर्णः
[ अनादेश्यम् रविग्रहणम् ]
ग्रहणोपलब्धिप्रदर्शनाय आह ã
सूर्येन्दुपरिधियोगे अर्काष्टमभागः भवति अनादेश्यः ।
भानोः भास्वरभावात् स्वच्छतनुत्वात् च शशिपरिधेः
सूर्येन्दुपरिधियोगः सूर्यग्रहणम् । अत्र अर्कबिम्बस्य अष्टमभागः छन्नः अपि अनादेश्यः । भानोः भास्वरभावात् । तीक्ष्णांशोः भास्वरस्वरूपत्वात् इति । चन्द्रस्य अपि स्वच्छतनुत्वात् अष्टमभागः बिम्बस्य छन्नः अपि अनादेश्यः इति । ग्राह्यबिम्बस्य अष्टमभागः मानैक्यार्धात् विशोध्य शेषः इष्टग्रासकर्णः । तद्वर्गात् स्फुटविक्षेपवर्गोनात् मूलम् इष्टोनस्थितिदललिप्ताः भ्वन्ति । ताः षष्टिगुणाः गत्यन्तरहृताः घटिकाः । ताः स्पर्शे तिथ्यन्ते
विशोधयेत् । मोक्षे अपि तिथ्यन्ते योजयेत् । तौ स्पर्शमोक्षकालौ भवतः
[ ग्रहसाधनोपायः ]
ग्रहसाधनोपायप्रदर्शनार्थम् आह ã
क्षितिः अवियोगात् दिनकृत् रवीन्दुयोगात् प्रसाधयेत् च इन्दुम् ।
शशिताराग्रहयोगात् तथा एव ताराग्रहाः सर्वे
क्षितिः च रविः च, तयोः योगः क्षितिरवियोगः । तस्मात् रविम् साधयेत् । रवीन्दुयोगात् इन्दुम् साधयेत् । शशिताराग्रहयोगात् च सर्वे ताराग्रहाः च साधनीयाः ।
दृगुच्छ्रितम् सलिलसमीकृतभूप्रदेशमण्डलकम् चक्रभागाङ्कितवृत्तपरिधिम् दिक्चतुष्टयचिह्नितम् कारयेत् । तस्य अपरभागे स्थितः सांवत्सरः प्राक्परिधौ आसक्तम् उद्गच्छन्तम् सूर्यम् लक्षयेत् । ततः तत्प्रदेशे चिह्नम् कृत्वा तिष्ठेत् यावत् अन्योदयम् । तत्र अपि यत्र परिधिप्रदेशे सूर्यः उदितः लक्ष्यते तत्र चिह्नम् निदध्यात् । एवम् उदयत्रयेण चतुष्केण वा अन्तरघटिकाः यन्त्रादिना लक्षयितव्याः । ताः रविभुक्तयः रव्युदयान्तराले भवन्ति
। ताः एव स्फुटरविभुक्तिलिप्ताः । मध्यदिनच्छाययोः वेधेन तज्ज्यादिविधिना [रविद्वयम् आनयेत् ।] तयोः अन्तरम् [वा] स्फुटरविभुक्तिः ।
अथ मेषादौ प्रवृत्ते सवितरि सूर्योदयाः गण्यन्ते यावत् मेषादिम् प्रविशति, ते रविभूयोगाः जायन्ते । एवम् सम्यक् उपलक्ष्यमाणाः रविभगणभोगे शतत्रयम् पञ्चषष्ट्या अधिकम् दिनम् भवति 365 । घटिकाः पञ्चदश 15 । विघटिकाः एकत्रिंशत् 31 । प्राणाः सार्धैकाः
3
2।
ताः क्रमेण सवर्णिताः उपरि भागाः 210389, छेदः 576 । एवम् एतैः अंशैः षष्टसप्तपञ्चच्छेदैः एकः अर्कभगणः । एतैः यगादिमानम् क्रियते ।
रवीन्दुयोगप्रसाधनाय सूर्याधिक्रान्तचन्द्रम् उपलक्षयेत् । पुनर् द्वितीयम् एवम् वर्षम् प्रति जागरेण द्वादश रवीन्दुयोगाः 12, चत्वारः राशयः 4, द्वादश भागाः 12, षट्चत्वारिंशत् लिप्ताः 46, चत्वारिंशत् विलिप्ताः 40, अष्टचत्वारिंशत् तत्पराः 48 । एकेन रविभगणेन युताः एते सवर्णिताः
1039560048
77760000
युगगतचन्द्रभगणाः त्रैराशिकेन ã यदि एकेन रविभगणभोगेन एतावन्तः
1039560048
77760000
चन्द्रभगणाः लभ्यन्ते, तदा युग[रविभगण]भोगेन अनेन 4320000 कियन्तः इति, लब्धम् युगे चन्द्रभगणाः 57753336 ।
अथवा चन्द्रस्य इष्टशुक्लप्रतिपत् आरभ्य प्रतिदिनम् चन्द्रोदयम् उपलक्ष्य बिन्दुः कार्यः यावत् रविभगणम् । एवम् रविभगणभोगे चन्द्रोदयसंख्याः जाताः
352
53
23
28
12
सवर्णिताः
352 । 11532492
216000
एतैः त्रैराशिकम् ã यदि एकस्मिन् [रवि]भगणभोगे एतावन्तः [चन्द्रोदयाः] भवन्ति, [तदा युग]रविभगणभोगे कियन्तः । प्राग्वत् युगे चन्द्रोदयाः जाताः 1524484164 । क्षितिभगणेभ्यः 1582237500 शुद्धाः युगचन्द्रभगणाः 57753336 ।
शशिताराग्रहयोगान् शशिभगणेभ्यः विशोध्य शेषम् इष्टग्रहस्य भगणाः । वर्षम् प्रति जागरेण चन्द्रबृहस्पतियोगाः भगणाः 13, राशयः 3, भागाः 12, लिप्ताः 25, विलिप्ताः 33, तत्पराः 36 । एते क्रमेण सवर्णिताः जाताः
1033004016
77760000
यदि एकस्मिन् रविभगणे एतावन्तः
1033004016
77760000
गुरुशशियोगाः लभ्यन्ते, तदा युगरविभगणे 4320000 कियन्तःजिति, लब्धाः युगाब्दे गुरुशशियोगाः 57389112 चन्द्रभगणेभ्यः 57753336 विशोध्य शेषम् गुरुभगणाः युगे जाताः 364224 । एवम् भौमादीनाम् अपि रविभगणभोगम् यावत् चन्द्रेण सह योगान् प्रसाध्य ग्रहभगणसाधनम् कर्तव्यम् । मार्गदर्शनम् एव एतत् अस्मदादीनाम् अविषयः ।
बुधशुक्रयोः शीघ्रसाधनम् । प्राच्याम् अस्तमितः पश्चात् यावद्भिः दिनैः उदितः तावताम् दिनानाम् अर्धम् उदयदिनेभ्यः पातयेत् अस्तमितदिनेषु क्षिपेत् । पुनर् प्राच्याम् यदा अस्तमयः प्रतीच्याम् उदयः तदा अनेन एव विधिना निरंशदिनसिद्धिः कार्या । तयोः आद्यन्तनिरंशयोः मध्ये शीघ्रकेन्द्रभगणः भवति । बुधस्य शीघ्रकेन्द्रभगणदिनानि आसन्नानि 116, शुक्रस्य 584 । एतैः भूदिनेभ्यः 1577917500 भागम् दत्वा लब्धम्
बुधशुक्रशीघ्रकेन्द्रभगणाः भवन्ति ।
रव्युच्च[परिधि]साधनम् । मध्याह्नच्छायया रविम् प्रसाध्य तद्दिनमध्यमरविणा विशेष्य मध्यमे अधिके ऋणम्, धनमूले । एवम् प्रतिदिनम् उपलभ्य यावत् वर्धमानम् रविफलम् स्थिरीभवति, तत्फलम् परमफलम् । ततः परम् ह्रासम् एष्यति । परमफलदिने मध्यमे अर्के ऋणफलोपलक्षिते राशित्रयम् शोधयेत्, शेषम् रविमन्दोच्चम् । धनफलोपलक्षिते राशित्रयम् क्षिपेत्, मन्दोच्चम् भवति । परमफलज्या चक्रांशहता त्रिज्याहृता
रवेः परिधिः भवति ।
चन्द्रोच्चपरिधिसाधनम् । सूर्यास्तमयात् कृष्णे पक्षे यावतीभिः घटिकाभिः चन्द्रोदयः भवति घटिकायन्त्रसाधिताभिः ताभिः षड्राशियुतात् अर्कात् लग्नम् स्वोदयैः त्रिप्रश्नोक्तविधिना कर्तव्यम् । स स्फुटचन्द्रः । तत् तात्कालिकमध्यमचन्द्रविश्लेषशेषम् मान्दफलम् धनुम् ऋणम् वा । एवम् प्रत्यहम् उपलक्षयेत् पूर्ववत् यावत् वर्धमानफलम् स्थिरीभवति । ततः रविवत् उच्चपरिधिसाधनम् । एवम् प्रतिदिनम् कुर्यात् यावत् मध्यमस्फुटयोः
न किञ्चित् अन्तरम् स्यात् । स एव चन्द्रः तदुच्चम् भवति । तद्दिनपरमफलपातदिनोच्चयोः अन्तरम् कृत्वा तद्दिनपरमफलार्कयोः अन्तरम् कार्यम् । तत[ः त्रैराशिकम्] ã यदि अनेन गत्यन्तरेण एतत् उच्चान्तरम्, तदा सूर्यभगणैः किम् इति अन्द्रोच्चभगणसिद्धिः ।
चन्द्रस्य पातभगणसाधनम् । चन्द्रग्रहणे [स्पर्शकालात्] मध्यग्रहणम् यावत् स्थित्यर्धघटिकाः चन्द्रग्रहणकालोत्पन्नाः ताः स्फुटसूर्यशशिभुक्त्यन्तरेण गुणयेत्, षष्ट्या विभजेत्, स्थित्यर्धलिप्ताः स्युः । तद्वर्गम् सम्पर्कार्धवर्गात् विशोध्य शेषस्य मूलम् चन्द्रविक्षेपः । स त्रिज्याहतः खागाक्षिभक्तः [270] काष्ठितः भुजचापम् । एवम् मोक्षम् अपि [स्थित्यर्धम्] मध्यग्रहणात् जानीयात् । यदि प्रथमस्थित्यर्धम् महत् ओजपदे
ग्रहः भवति, अन्यथा युग्मपदे स्यात् । यदि उत्तरविक्षेपः विषमपदे भुजचापम् स्फुटम्, युग्मपदे चक्रार्धात् विशोध्य भवति । दक्षिणविक्षेपे विषमपदे चक्रार्धम् क्षिपेत्, युग्मपदे चक्रात् विशोधयेत् । स बाहुः स्यात् । एवम् स्वधिया शेषम् च । एवम् अन्यत् ग्रहणकालिकम् बाहुम् उत्पादयेत् । उभयोः अन्तरम् साधयेत् । ग्रहणद्वयकालान्तरजा तत्पातभुक्तिः । ततः चन्द्रपातभगणसिद्धिः ।
अथवा चन्द्रस्य दिनार्धच्छायया क्रान्तिम् उक्तवत् प्रसाधयेत् । तस्याः तद्दिनचन्द्रक्रान्त्यन्तरम् विक्षेपः । शेषम् प्राग्वत् इति ।
बुधसितयोः यावता रात्रिगतकालेन अस्तमयः जायते तावता लग्नम् षड्राशियुतम् स्फुटः बुधः शुक्रः च । शेषाणाम् चन्द्रवत् आनयनम् रात्रिगते काले । मध्यस्फुटयोः अन्तरम् मन्दफलयुतवियुतम् शीघ्रफलम् । पुनर् पञ्चभिः अहोभिः फलसाधनम् कर्तव्यम् । प्राक्फलेन सह विश्लेषयेत् । एवम् तावत् परीक्षयेत् यावत् वर्धमानम् शीघ्रफलम् स्थिरीभवति । एवम् स्वधिया अभ्यूह्य शीघ्रोच्च[परिधि]साधनम् । ताराग्रहयोगान्तरात्
ग्रहविक्षेपसाधनम् कर्तव्यम् । उदयास्तमयवक्रानुवक्रैः शीघ्रभगणसाधनम् विधेयम् । अथवा ग्रहम् यष्ट्यादियन्त्रेण विदित्वा द्वितीये अपि दिने तावति एव काले विद्ध्यात्, तदन्तरम् स्फुटभुक्तिः । सा मध्यमभुक्तेः यदा ऊना स्यात् तदा कक्ष्यामण्डलात् उपरि ग्रहः, अधिका चेत् तदा अधः वर्तते । तद्भूमध्यान्तरम् कर्णः । तद्वशात् परमाल्पताम् परमाधिकताम् च भुक्तेः लक्षयेत् इति भगणभोगम् यावत् । भगणभोगः मध्यमगत्या
एव भवति । एवम् मन्दफलस्य परमाधिकताम् लक्षयित्वा परममन्दकर्णव्यासार्धान्तरम् परमफलम् मान्दम् भवति
[ सम्प्रदायसंस्मरणम् ]
भगणादीनाम् प्रमाणानि कथम् ज्ञातानि आचार्येण तत्प्रतिपादनाय आह ã
सदसज्ज्ञानसमुद्रात् समुद्धृतम् ब्रह्मणः प्रसादेन ।
सज्ज्ञानोत्तमरत्नम् मया निमग्नम् स्वमतिनावा
सदसत् सत् असत् । सत् शुभम्, असत् अशुभम् । ज्ञानम् ज्ञायते अनेन इति । सज्ज्ञानोत्तमरत्नम् सत् ज्ञानम् तत् एव उत्तमरत्नम्, उत्कृष्टम् रत्नम्, ज्योतिःशास्त्रम् । निमग्नम् निलीनम् । स्वमतिनावा स्वकीया मतिः (स्वमतिः), स्वमतिः एव नौः तया स्वमतिनावा सदसज्ज्ञानसमुद्रात् समुद्धृतम् इति
[ प्रतिकञ्चुककारिणे दण्डविधानम् ]
शपथप्रतिपादनाय आह ã
आर्यभटीयम् नाम्ना पूर्वम् स्वायम्भुवम् सदा नित्यम् ।
सुकृतायुषोः प्रणाशम् कुरुते प्रतिकञ्चुकम् यः अस्य
आर्यभटस्य इदम् आर्यभटीयम् । किम् तत्? यदा एव अत्यन्तविप्रलीनसम्प्रदायम् ब्रह्मणः प्रसादेन वा स्वनामधेयम् । यः पूर्वम् स्वायम्भुवम् आसीत् इदानीम् आर्यभटेन प्रकाशितत्वात् आर्यभटीयम् । स्वायम्भुवम् तत् सर्वदा नित्यम् । स्वयंभुवा प्रणीतम् अर्थम् गृहीत्वा आचार्याः शास्त्राणि रचयन्ति । सम्प्रदायाविच्छेदात् तु सः अर्थः ज्ञातः एव । अन्यथा अतीन्द्रियार्थानाम् कथम् मानुषमात्रैः इयम् युक्तिः कर्तुम् शक्यते । अस्य प्रतिकञ्चुकम्
प्रतिबिम्बम् यः करोति तस्य सुकृतस्य आयुषः च प्रणाशम् भवति
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0