भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 45

45.1

मेषादेः मेषस्य आदिः मेषादिः, तस्मात् मेषादेः, कन्यान्तम् अन्तम् पर्यवसानम्, कन्यायाः अन्तम् कन्यान्तम्; मेषादेः आरभ्य यावत् कन्यान्तम् । समम् तुल्यम् । उदक् उत्तरेण । अपमण्डलार्धम् । अपमण्डलस्य अपक्रममण्डलस्य अर्धम्, अपक्रममण्डलार्धम् । अपयातम् तिर्यक् व्यवस्थितम् । तौल्यादेः तौलिनः आदिः तौल्यादिः, तस्मात् तौल्यादेः, मीनस्य अन्तम् मीनान्तम्; तौल्यादेः आरभ्य यावत् मीनान्तम् । शेषार्धम् शेषम् च तदर्धम्
च शेषार्धम्, अथवा शेषस्य ज्योतिश्चक्रस्य अपमण्डलसंज्ञितस्य अर्धम् शेषार्धम् । तत् दक्षिणेन, दक्षिणदिग्भागेन तदर्धम् । "एव"शब्दः आर्यापूरणार्तह्म् प्रतिपादितः । अथवा एवम् अर्धमात्रम् अपि पश्चार्धे प्रदर्शयति, यथा उत्तरेण समम् अपक्रममण्डलम् तिर्यक् व्यवस्थितम्, एवम् अत्र अपि दक्षिणेन तस्य एव अपक्रममण्डलस्य अर्धम् तिर्यक् एव अवतिष्ठते इति ।
अत्र विना अपि "सम"शब्देन षड्राशिप्रमाणाभिधानात् उदग्दक्षिणापक्रममण्डलार्धसमत्वम् गम्यते, समग्रहणम् अतिरिच्यते । न अतिरिच्यते ã प्रतिदेशम् अक्षविशेषात् राशीनाम् उदयकालाः विषमाः उपलक्ष्यन्ते, तेन समशब्दात् ऋते विषमप्रमाणानाम् राशीनाम् ग्रहणम् स्यात्, ततः च अक्षविशेषात् मेषादीनाम् अपक्रमज्याः प्रतिदेशम् भिन्नप्रमाणाः स्युः । "सम"शब्दे पुनर् क्रियमाणे तुल्यप्रमाणराशिग्रहणम् सिद्धम्, यस्मात् सर्वः एव
राशिः ज्योतिश्चक्रद्वादशभागः, स च त्रिंशत्त्रिंशद्भागप्रमाणः इति ।एवम् अपक्रममण्डलम् विषुवतः उत्तरेण मेषादेः कन्यान्तम् तिर्यक् अवतिष्ठते । तत् एव तुल्यादेः मीनान्तम् दक्षिणेन विषुवतः तथा एव अवतिष्ठते । कथम् इदम् अनुक्तम् गम्यते विषुवतः इति । न एषः दोषः । उदग्दक्षिणेन इति ब्(र्)उवन् आचार्यः सिद्धम् एव विषुवन्मण्डलम् प्रदर्शयति । अन्यथा हि उदग्दक्षिणेन इति, एतत् अनर्थकम् स्यात् । उदग्दक्षिणशब्दौ च दिग्वाचिनौ, दिक् व्यवस्था
अपेक्षया भवति । अतः पूर्वम् विषुवन्मण्डलम् बध्वा ततः अपक्रममण्डलम् बध्यते । सर्वाणि एव मण्डलानि षष्टिशतत्रयाङ्कितानि क्रियन्ते, यस्मात् षष्टिशतत्रयांशम् ज्योतिश्चक्रम्

45.2

[ अपक्रममण्डलचारिणः ]
तस्मिन् च अपक्रममण्डले के भ्रमन्ति इति आह ã
ताराग्रहेन्दुपाताः भ्रमन्ति अजस्रम् अपमण्डले अर्कः च ।
अर्कात् च मण्डलार्धे भ्रमति हि तस्मिन् क्षितिच्छाया

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc