भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 43

43.1

उत्सर्पिणी नाम यस्मिन् प्राणिनाम् आयुर्यशोवीर्यसौख्यादीनि उपचीयन्ते स कालः उतस्र्पिणीसंज्ञकः । तस्य च प्रमाणम् युगार्धम् । युगस्य अर्धम् युगार्धम् । युगम् तु अभिहितम् एव । तस्य अर्धसङ्ख्याप्रमाणम् उत्सर्पिणी वियदम्बराकाशशून्यरसेन्दुयमाः [2160000] । पश्चात् अपसर्पिणी युगार्धम् च । पश्चात् इति अनेन उस्तर्पिणीकालानन्तरम् अपसर्पिणीकालम् दर्शयति । यस्मात् पूर्वप्रवृत्तस्य पश्चात् इति व्यपदेशः भवति । यस्मिन् प्राणिनाम्
आयुर्यशोवीर्यसौख्यादीनि अपचीयन्ते स अपसर्पिणीसंज्ञकः कालः । तस्य च प्रमाणम् युगस्य पश्चार्धम् वियदम्बराकाशशून्यरसेन्दुयमाः [2160000] ।
एवम् च ã मध्ये युगस्य सुषमादौ अन्ते दुष्षमेनूच्चात् । तस्य पूर्वार्धस्य मध्ये सुषमा दुष्षमा च । आदौ अन्ते च । आदौ सुषमा अन्ते दुष्षमा । सुषमादुष्षमाप्रमाणम् युगचतुर्भागः । कथम्? मध्ये इति वचनात् । युगार्धस्य अर्धम् युगचतुर्भागः इति । प्रतिग्रहम् युगभेदात् आह ã "इन्दूच्चात्" । इन्दूच्चात् निष्पन्नात् युगात् एते उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाकालाः अवगन्तव्याः इति । अथ किम् उच्यते इन्दूच्चात् इति ? ननु च ग्रहसामान्यम्
युगम् इति अभिहितम् । सत्यम् । एवम् एतत् । प्रतिग्रहम् अपवर्तनविशेषात् युगभेदः । तत् यथा ã रवेः मण्डलानि षण्मुनिशराः [576], दिवसप्रमाणेन युगम् अपि नववसुरामशून्येन्दुयमाः [210389] । चन्द्रस्य दिवसप्रमाणेन युगम् शरयमाङ्गविषयेषुरूपदस्राः [2155625] । एवम् अन्येषाम् अपि ।
अथ युगस्य किम् लक्षणम्? उच्यते ã चैत्रशुक्लप्रतिपदि अर्धोदिते सवितरि लङ्कायाम् मीनमेषसन्धौ प्रवृत्तः ग्रहः पुनर् मीनमेषसन्धौ चैत्रशुक्लप्रतिपदि सवितुः अर्धोदये लङ्कायाम् यावता कालेन प्राप्नोति तावत् कालः युगम् इति । उक्तम् च ã
चैत्रसितादौ सूर्ये विषुवति अर्धोदिते प्रवृत्तस्य ।
मेषादेः मीनान्तम् तथाविधस्य एव संप्राप्तिः ॥
इति ।
भिन्नाग्रेषु युगेषु एकाग्रीकरणम् कुट्टाकारेण अभिहितम् ã "कश्चित् द्वाभ्याम् एकाग्रः त्रिभिः द्व्यग्रः" इति आदि । अथवा इन्दूच्चात् निमित्तात् उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाणाम् गतगन्तव्यम् विज्ञेयम् इति । कथम् पुनर् गतगन्तव्यपरिज्ञानस्य इन्दूच्चनिमित्तत्वम् प्रतिपद्यते इति ? उच्यते ã कुट्टाकारगणितेन, यस्मात् इन्दूच्चयाताग्रस्य इन्दूच्चभगणाः युगवर्षाणि युगदिवसाः [वा] भाज्यभागहारताम् प्रतिपद्यन्ते । तत् यथा अस्मिन् वस्तुभिः
वा परिकल्पितः उद्देशकः ã
निशीथिनीनाम् अधिपस्य तुङ्गजम् गतम् तु राशित्रितयम् यदा भवेत् ।
तदा कियत् यातम् अथ आशु गण्यताम् युगस्य वर्षाग्रदिनाग्रताम् च मे

43.9

लब्धम् वर्षाग्रम् वियदम्बराकाशशून्यकृतयमाग्नयः [3240000], दिनाग्रम् च शररविवसुवह्निवेदरामवसुरुद्राः [1183438125] ।
अथवा अयम् अपरः प्रकारः ã उत्सर्पिणी युगार्धम् । उत्सर्पति इति उत्सर्पिणी, उपचीयते इति अर्थः । का सा उत्सर्पिणी? ग्रहभुक्तिः इति अध्याहार्यम् । सा पुनर् कियन्तम् कालम् उत्सर्पिणी इति आह ã युगार्धम् । युज्यन्ते अस्मिन् ग्रहाः इति युगम् । तत् च नक्षत्रचक्रम् एव परिगृह्यते, यस्मात् एकस्मिन् मण्डले ग्रहस्य ग्रहैः सह योगः सम्भवति । तस्य युगस्य अर्धम् युगार्धम्, षड्राशयः । पश्चात् अपसर्पिणी युगार्धम् च । पश्चात् पुनर् अपि अपसर्पिणी युगार्धम्
एव । राशिषट्कम् इति अर्थः । मध्ये युगस्य सुषमा, तस्य युगस्य मध्ये अन्तरे इति अर्थः । सुषमा आदितः अन्ततः च गण्यमाने सुषमा, एकस्य पदस्य आदितः अपरस्य अन्ततः इति अर्थः । [आदौ अन्ते च] दुष्षमा दृष्टा । अन्यप्रकारेण इति वाक्यशेषः ।
कथम् एताः पुनर् उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाग्रहभुक्तयः विज्ञायन्ते इति अत्र आह ã इन्दूच्चात्, चन्द्रकेन्द्रात् इति अर्थः । तत् यथा ã इन्दोः केन्द्रस्य यदा राशित्रयम् द्वौ भागौ अष्टाविंशतिः च कलाः, तदा प्रभृति मध्यमभुक्तिः उपचीयते, यावत् केन्द्रम् राशिषट्कम् संजातम् इति । ततः तस्मात् राशिषट्कात् केन्द्रात् उपचितानाम् भुक्तीनाम् उत्क्रमेण अपचयः, यावत् केन्द्रस्य अष्टौ राशयः सप्तविंशतिः भागाः द्वात्रिंशत् लिप्ताः च संजाताः
। एताः एव उत्क्रमेण द्वितीयपदान्तात् प्रविगण्यमानाः तुल्याः इति आदौ अन्ते च सुषमा । अथवा आदौ अन्ते च, द्वितीयपदनिर्दिष्टकेन्द्रात् प्रभृति क्रमेण याः भुक्तयः याः च तृतीयपदनिर्दिष्टकेन्द्रात् उत्क्रमेण भुक्तयः ताः तुल्याः, एवम् चतुर्थप्रथमपदयोः अपि, इति आदौ अन्ते च सुषमा । अन्यथा दुष्षमा ।
अत्र इन्दुकेन्द्रम् उद्दिश्य आचार्येण उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाः प्रदर्शिताः । एतत् विधानम् अन्येषाम् अपि ग्रहाणाम् प्रतिपत्तव्यम् । तत् यथा ã सूर्यस्य यदा केन्द्रम् राशित्रयम् सचतुष्पञ्चाशल्लिप्तम्, तदा सूर्यस्य व्यासार्धतुल्यः कर्णः, भुक्तिः च मध्यमा । यदा च अष्टौ राशयः एकोनत्रिंशद्भागाः लिप्ताः च षट् गताः [तदा अपि] व्यासार्धतुल्यः [कर्णः] , मध्यमा भुक्तिः च । कुजा[दीनाम् अपि] व्यासार्धतुल्यम् भूताराग्रहविवरम्
भवति । तथा "[कक्ष्याप्रतिमण्डलगाः] [कालक्रियाí, 17] इति अस्याम् कारिकायाम् वक्ष्यते

43.10

[आर्यभटजन्मकालः ]
आचार्यार्यभटः स्वजन्मकालज्ञानार्थम् आह ã
षष्ट्यब्दानाम् षष्टिः यदा व्यतीताः त्रयः च युगपादाः ।
त्र्यधिका विंशतिः अब्दाः तदा इह मम जन्मनः अतीताः

43.10

षष्ट्यब्दानाम् षष्टिः । षष्टिः अब्दाः षष्टिगुणाः इति अर्थः । यदा व्यतीताः । यदा यस्मिन् काले, व्यतीताः व्यतिक्रान्ताः । त्रयः च युगपादाः । युगस्य पादाः युगपादाः, ते च यदा त्रिसङ्ख्याः व्यतीताः । त्र्यधिकाः विंशतिः अब्दाः । त्रिभिः अधिकाः त्र्यधिकाः विंशतिः अब्दाः । तदा । तस्मिन् काले । मम जन्मनः अतीताः ।
एतत् एव आचार्यार्यभटः शास्त्रव्याख्यानसमये वा पाण्डुरङ्गस्वामि-लाटदेव-निशङ्कु-प्रभृतिभ्यः प्रोवाच । अथ अत्र इदम् प्रष्टव्यम् ã अस्य व्याख्यानम् किम् उपकरोति इति? उच्यते ã अनेन अतीतेन कालेन परिज्ञातेन सुखम् आदित्यादीनाम् कालः अतीतः अनागतः वा पठ्यते । अथ च सम्प्रदायाविच्छेदात् व्यतीतः कालः विज्ञायते । न एतत् अस्ति । अनभिधाने बहु अत्र स्मरणीयम् । त्रयाणाम् युगपादानाम् वर्षसङ्ख्या शून्याम्बराकाशवियद्वेदयमाग्नयः
[3240000] । गतम् च कलियुगस्य । एकस्य अभिधाने एतावतः तावत् सम्प्रदायाविच्छेदात् अरः न कर्तव्यः । किन्तु आचार्यजन्मकालावधेः यः उत्तरः कालः अस्य एव सम्प्रदायाविच्छेदः अधिगन्तव्यः ।
अन्यत् च "षष्ट्यब्दानाम् षष्टिः" इति अस्य अभिधाने प्रयोजनम् अभिधास्यते । अयम् अस्य अभिप्रायः ã कृतयुगादेः अहर्गणः साध्यः । अन्यथा क्षेपः शश्युच्चपातयोः जायते इति । कृतयुगादेः पुनर् अहर्गणे क्रियमाणे शश्युच्चपातयोः न एव क्षेपः । "बुधाह्न्यजार्कोदयात् च लङ्कायाम्" [गीतिकाí, 4] इति बुधादिः अहर्गणः दिवसवारः । इदानीम् तु लघुगणितव्यवहारार्थम् कलियुगाहर्गणः क्रियते । शुक्रादिदिवसवारः । चन्द्रोच्चस्य राशित्रयम्, राशिषट्कम्
च राहोः क्षेपः, तमसः च मण्डलात् विलोमत्वात् विशोध्यते । अथवा करणागतम् एव तमः यथा इष्टस्फुटचन्द्रमसि प्रक्षिप्य दक्षिणोत्तरदिग्विधेः विक्षेपानयनम् इति ।
अथ अहर्गणे दृष्टे ग्रहगत्यानयनम् ã यदि युगाहर्गणेन ग्रहाणाम् गीतिकाभिहितभगणाः लभ्यन्ते अनेन अहर्गणेन कियन्तः इति, लब्धम् समतिक्रान्ताः भगणाः । शेषे द्वादशादिगुणिते राश्यादिमध्यमग्रहसिद्धिः ।
अथ अत्र रोमकाः प्रत्यब्दशोधनेन आदित्यम् आनयन्ति । तेन च आदित्येन सर्वान् एव ग्रहान् इति । एतत् अत्र अपि प्रदर्श्यम् । तत् यथा ã प्रत्यब्दशोधनम् हि नाम चैत्रशुक्लप्रतिपदि अर्धोदयात् आरभ्य यावत् आदित्यौदयिकस्य मण्डलगन्तव्यस्य भोगकालः । स युगान्ते युगरविभगणैः प्रमाणेच्छाभूतैः दिवससङ्ख्याः एव भवन्ति । यथा इष्टरविभगणैः त्रैराशिकम् क्रियते, तत् यथा ã "यदि युगरविभगणैः भूदिवससङ्ख्यः अहर्गणः
लभ्यते इष्टरविभगणैः कियान् इति अहर्गणः लभ्यते, शेषे षष्ट्यादिगुणिते घटिकादयः इति रविभगणसमाप्तिकालावधेः अहर्गणः लभ्यते । तस्मात् चैत्रशुक्लावधिनिष्पन्नवर्षान्तिकः अहर्गणः शोध्यते, चैत्रशुक्लादेः उपरिष्टात् रविभगणसमाप्तिकालावधयः भविष्यन्ति ।
अथवा वर्षान्तिकेन अहर्गणेन त्रैराशिकम् ã यदि चतुर्युगाहर्गणेन खुघृ-तुल्याः सूर्यभगणाः लभ्यन्ते, अनेन कलियाताहर्गणेन कियन्तः इति लब्धम् भगणाः । शेषात् गतगन्तव्यम् कृत्वा गतगन्तव्यराशेः युगसूर्यभगणैः भागलब्धम् दिवसाः । शेषे षष्ट्यादिगुणिते घटिकादयः । चैत्रशुक्लादेः उपरिष्टात् अधः वा रविभगणसमाप्तिकालावधयः दिवसादयः भवन्ति । एतत् एव प्रत्यब्दशोधनम् अस्माभिः कर्मनिबन्धे लघुतरम्
प्रतिपादितम् । तत् यथा ã
रुद्रैः सहस्रहतषट्छकलैः च हत्वा
वर्षाणि रन्ध्रवसुवह्निसमानसङ्ख्यैः ।
युक्त्वा सदा प्रविगणय्य खरामभक्ते
मासाः भवन्ति दिवसाः च हृते अवशिष्टाः ॥
संहत्य रन्ध्रयमलैः सररामभागः
भूयः अग्निवेदगुणितेषु हरेत् च भागम् ।
खव्योमखद्विमुनिभिः प्रलयाः तिथीनाम्
संयोज्य भूतयमरुद्रहृते दिनानि ॥
वर्षेषु रन्ध्रकृतचन्द्रसमाहतेषु
षट्सप्तपञ्चविहृतेषु दिनादिलाभः ।
ते योजिताः दशहतासु समासु संज्ञाम्
सम्प्राप्नुवन्ति रविजाः इति निश्चयः मे ॥
रविजदिवसयोज्याः च अवमाः ये अत्र लब्धाः
सततम् अधिकमासान् शोधयेत् खाग्निनिघ्नान् ।
भवति यत् अवशिष्टम् शोधनीयम् समायाम्
यदि तत् अधिकशुद्धम् क्षेप्यम् एव उपदिष्टम् ॥ इति ।
[महाभास्करीयम्, 1.22-23, 27-28]
एवम् प्रत्यब्दशोधनम् आनीय ततः अर्कः साध्यते । कथम्? एतत् अपि तत्र उक्तम् एव ã
मधुसितदिवसाद्यः हीनहीनः गणः अह्नाम्
दिविचरहृतशिष्टः वारमाहाब्दपादिम् ।
ततः इदम् अपि शोध्यम् शोधनीयम् समायाम्
पतितसमतिरिक्तः गृह्यते न अपरः अत्र ॥
सप्तत्या दिवसाद्याः शरभागाः द्विगुणिताः विघटिकाः च ।
तद्रहितः ग्रहदेहः रविबुधभृगवः च निर्दिष्टाः ॥ इति ।
[महाभास्करीयम्, 1.30-31]
एवम् सूर्यः सिद्धः । [तस्मात् भगणेषु] द्वादशगुणितेषु सूर्यभुक्तराशयः प्रक्षिप्यन्ते । ततः त्रिंशद्गुणितेषु भागाः इति । एवम् सूर्याहर्गणः सिद्धः । सूर्याहर्गण[तुल्य]म् अंशम् आदित्यः भुङ्क्ते ।
अथ सर्वेषाम् ग्रहाणाम् सूर्यदिवसभोगानयनम् । युगरव्यब्दाः षष्टिशतत्रयगुणिताः युगरविदिवसाः । यदि एतैः अभीष्टग्रहभगणाः लभ्यन्ते, तदा एकेन रविदिवसेन कियन्तः इति त्रैराशिकन्यायेन [लब्धम् भगणात्मिका ग्रहगतिः] । राशिभागलिप्तानयने द्वादश-त्रिंशत्-षष्टिः च गुणकाराः । तेषाम् संवर्गः खखषड्घनः । अतः खखषड्घनस्य खखषड्घनभागे एकम्, युगरविदिवसानाम् खखषड्घनभागेन द्वासप्ततिः सहस्राणि,
इति अतः द्वासप्ततिसहस्रैः प्रतिस्वस्वग्रहभगणानाम् भागः, लभ्यन्ते ग्रहाणाम् सूर्यदिवसभुक्तयः अतः च यथालब्धाः लिख्यन्ते ã चन्द्रमसः लिप्ताः द्वाविंशतिः लिप्तात्रिसहस्रभागाः नववसुरामाः, भौमस्य लिप्ताः एकत्रिंशत् लिप्तात्रिसहस्रभागाः रूपखमुनिपक्षाः, बृहस्पतेः लिप्ताः पञ्च लिप्तापञ्चसप्तत्युत्तरत्रिंशतभागाः द्वाविंशतिः, शनैः चरस्य लिप्ताद्वयम् लिप्ताष्टादशसहस्रभागाः शशिकृतरसाः, बुधोच्चस्य लिप्ताः नव लिप्ताषट्त्रिंशच्छतभागाः
शशीषुवेदाः, भृगोः लिप्ताः सप्तत्रिंशत् लिप्ताषाट्सहस्रभागाः नवनवेन्दुरामाः । एवम् यथाविलिखितसूर्यदिवसग्रहभुक्तिभिः सूर्याहर्गणम् गुणयेत्, सूर्यभुक्तलिप्ताभिः च त्रैराशिकेन यत् अवाप्तम् फलम् प्रक्षिप्य खखषड्घनेन विभजेत्, शेषम् ग्रहभुक्तलिप्ताः । इयान् तत्र विशेषः चन्द्रमसि त्रयोदशगुणः सूर्यः क्षेपः, बुधोच्चे चतुर्गुणः, शुक्रोच्चे रूपगुणितः इति । एतत् अपि अशेषग्रहानयनम् कर्म लघुतरम् एव कर्मनिबन्धे प्रदर्शितम्
तत्र एव अवगन्तव्यम् इति

43.11

[ युगादिकालानन्त्यनिर्देशः ]
कालप्रवृत्यानन्त्यप्रतिपादनाय आह ã
युगवर्षमासदिवसाः समम् प्रवृत्ताः तु चैत्रशुक्लादेः ।
कालः अयम् अनाद्यन्तः ग्रहभैः अनुमीयते क्षेत्रे

43.11

युगम् च वर्षम् च मासः च दिवसः च युगवर्षमासदिवसाः, एते समम् प्रवृत्ताः युगपत् प्रवृत्ताः इति अर्थः । कस्मात् इति आह ã चैत्रशुक्लादेः । चैत्रः मासः, तस्य [यः] शुक्लः पक्षः, तस्य शुक्ल[पक्ष]स्य यः आदिः, [स] अर्धोदयः इति अर्थः, तस्मात् चैत्रशुक्लादेः युगादयः ये ते युगपत् प्रवृत्ताः । ननु च युगे चैत्रशुक्लादेः प्रवृत्ते सर्वे एव समम् प्रवृत्ताः स्युः । तस्मात् युगम् चैत्रशुक्लादेः प्रवृत्तम् इति एतत् एव अस्तु । न इति आह ã शास्त्रान्तरे
वर्षादीनाम् अन्यस्मात् प्रवृत्तिः अभिहिता ã
प्रथमे वासवस्य अंशे द्वितीयांशे तु अजस्य तु ।
रेवतीनाम् तृतीयांशे चतुर्थांशे यमस्य च ॥
सौम्यस्य प्रथमांशे च द्वितीयांशे पुनर् वसोः ।
सार्पस्य अंशे तृतीये तु चतुर्थांशे भगस्य च ॥
त्वाष्ट्रस्य आद्यांशके च एव द्वितीयांशे विशाखयोः ।
ऐन्द्रस्य अंशे तृतीये च आप्यस्य अंशे चतुर्थके ॥
यदा समानाम् अधिपः बृहस्पतिः अतः उत्थितः ।
उदयति अंशकान्ते वा प्रथमः पर्ययः भवेत् ॥
इति।
एवम् वर्षाणाम् प्रवृत्तिः अतिदूरभिन्ना । तस्याम् च वर्षप्रवृत्तौ भिन्नायाम् मासदिवसप्रवृत्ती अपि भिन्ने एव भवतः । अथवा एवम् स्यात् ã इयम् वर्षाणाम् प्रवृत्तिः नानाप्रकारा फलार्थिभिः संहिताकारैः उपदिष्टा । न एषा प्रसिद्धा लोके, न परतन्त्रेषु । तस्मात् या परतन्त्रेषु लोके च प्रसिद्धा प्रवृत्तिः तस्याः ग्रहणम् भविष्यति इति । एतत् अपि न । तत् यथा ã सुराष्ट्रासु कार्तिकशुक्लप्रतिपदः प्रवृत्तिः वर्षमासदिवसानाम्, आश्वयुजः [कृष्ण]पञ्चदश्याम्
निवृत्तिः । तथा च मगधासु आषाढे कृष्णप्रतिपदः समामासदिवसानाम् प्रवृत्तिः, आषाढसितपञ्चदश्याम् निवृत्तिः । तथा च अर्थशास्त्रे अपि अभिहितम् ã "त्रिशतम् सचतुष्पञ्चाशतम् अहोरात्राणाम् कर्म सांवत्सरः, तम् आषाढीपर्यवसानम् ऊनम् पूर्णम् वा दद्यात्" इति । सिंहराजेन सहस्राक्षरे निबद्धम् ã
रव्युदये लङ्कायाम् आषाढीपौर्णमास्याम् तु सोमदिने ।
कृतकृतवर्षैः यातैः शकेन्द्रकालात् युगस्य आदिः ॥
इति ।
युगादीनाम् चैत्रशुक्लादेः प्रवृत्त्यभिधानम् सिद्धम् एव एतत् ।
इदानाम् प्रष्टव्यम् ã सिंहराजेन न शुक्लान्तः मासः स्वतन्त्रे प्रतिपादितः, तथा च लोके शुक्लान्तः एव प्रसिद्धः, होरायाम् अपि ã
चन्द्रयुतात् नवभागात् मासः शुक्लान्तनामसमः ।
इति ।
अत्र उच्यते ã यत् तु सिंहराजेन अभिहितम् तत् स्वाभिप्रायेण अधिकमासकावमानाम् युगपत् प्रवृत्तत्वात् आषाढपौर्णमासी [तः आरभ्य चतुर्दशी] पर्यन्तावसानम् संवत्सरः इति परिकल्पितः । यदि अपि उच्यते "शुक्लान्तः मासः लोके प्रसिद्धः" इति, तत् न । ननु सर्वेषु एव देशेषु मासाः । सन्ति च देशाः कृष्णान्तमासव्यवहाराः सुराष्ट्रप्रभृतयः । यत् अपि उच्यते ã
चन्द्रयुतात् नवभागात् मासः शुक्लान्तनामसमः ।
इति, अस्य अपि अन्यः एव अर्थः । चन्द्रयुतात् नवभागात् प्रष्टुः मासः वाच्यः । [स शुक्लान्तेन] नाम्ना सदृशः । शुक्लान्ते [न] हि मासस्य नामपरिज्ञानम् । कृत्तिकासु युक्तः चन्द्रमा अस्मिन् सति कार्तिकः मासः इति आदि ।
अन्यत् च ã शुक्लान्तेन मासेन न कदाचित् अपि मीनमेषसन्धौ मासस्य वर्षस्य वा अन्ते ग्रहाः स्युः ।
अत्र आह यवनेश्वरः ã
मासे तु शुक्लप्रतिपत्प्रवृत्ते पूर्वे शशी मन्दबलः दशाहे ।
इति शुक्लादिः मासः । यदा पुनर् शुक्लादिः मासः तदा पुनर् श्रुत्यर्थः अनुष्ठितः भवति । एवम् हि श्रुतौ पठ्यते ã
एषा हि वै संवत्सरस्य प्रथमा रात्रिः यत् फाल्गुनी पौर्णमासी या उत्तरा ।
इति । [यदि] कृष्ण[प्रतिपद्]आदिः मासः स्यात्, तदा कथम् इयम् उत्तरा पौर्णमासी फाल्गुनी भवति, यत् उत तत् चैत्रमासः स्यात् ? कुतः? फाल्गुन्याम् पौर्णमास्याम् फाल्गुनः मासः पूर्णः, तदा उत्तरा पौर्णमासी चैत्र[मासस्य], प्रतिपत्कृष्णादित्वात् मासस्य । ततः मन्यामहे न अद्य अपि फाल्गुनः मासः समाप्यते इति । यस्मात् आह ã
फाल्गुनी पौर्णमासी या उत्तरा ।
इति ।
अन्यत् च ã
[ या असौ] वैशाखस्य अमावास्या तस्याम् अग्निम् आदधीत, सा रोहिण्या सम्पद्यते ।
[शतपथ-ब्राह्मणम्, 11.1.1.7]
इति ।
यदि शुक्लान्तः मासः परिकल्प्यते तदा न वैशाखस्य अमावास्यायाम् रोहिण्या चन्द्रमसः योगः विद्यते । यस्मात् चैत्रपौर्णमास्याम् चित्रायाम् सोमः युज्यते, तस्याम् चैत्र्याम् व्यतीतायाम् वैशाखप्रतिपत् । ततः च स्वात्यादिषु नक्षत्रेषु प्रतिपत् [प्रभृति] गण्यमाना अमावास्या भरण्या युज्यते, न रोहिण्या । अथ चन्द्रगतिविशेषात् इति [चेत्, न] । नक्षत्रार्धस्य सकलस्य वा ह्रासवृद्धी भवतः, न नक्षत्रद्वयस्य । शुक्लादौ पुनर् मासे वैशाखपौर्णमास्याम्
व्यतीतायाम् वैशाखस्य एव अमावास्या भविष्यति । ततः कृष्णपक्षप्रतिपत्प्रभृत्यनुराधादिषु गण्यमानासु रोहिण्या अमावास्यायाः च योगः संभवति ।
अन्यत् च ã
सः अपरपक्षे अप ओषधीः प्रविशति ।
इति ।
शतपथ [11.1.5.3] एवम् पठ्यते । तत्र अपरपक्षः कृष्णः, [न] शुक्लः । अन्यत् च स्मार्तवचनम् ã
अपरपक्षे श्राद्धम् कुर्वीत ऊर्ध्वम् वा चतुर्थ्याः ।
इति अत्र कृष्णादि[मासत्वात्] पूर्वपक्षः कृष्णः, अपरः शुक्लः । अपरत्वात् शुक्लपक्षस्य शुक्लपक्षे एव श्राद्धविधिः प्राप्नोति न कृष्णे, इष्यते च शुक्ले [तरे], तस्मात् शुक्लादिः मासः इति । ततः "युगवर्षमासदिवसाः समम् प्रवृत्ताः तु चैत्रशुक्लादेः" इति ।
अत्र उत्प्रेक्षितपूर्वपक्षः द्रष्टव्यः । युगादीनाम् चैत्र[शुक्लादितः प्रवृत्ति]त्वात् कालस्य आदिमत्ताप्रसङ्गः इति आह ã कालः अयम् अनाद्यन्तः । अयम् कालः अस्माभिः युगादिः अभिहितः, चैत्रशुक्लादेः प्रवृत्तः इति । न अस्य अन्तः न अस्य आदिः । व्यवहारार्थम् आदिः अन्तः च परिकल्पितः । यदि कालस्य आदिः स्यात् ततः किम् स्यात्? आह ã संसारस्य आदिमत्ता प्राप्नोति, इष्यते च अनादिः संसारः इति । तस्मात् युक्तम् "कालः अयम् अनाद्यन्तः" इति ।
कथम् पुनर् अस्य आदिः व्यवहारार्थम् परिकल्पितः इति आह ã ग्रहभैः अनुमीयते क्षेत्रे । ग्रहाः च भानि च ग्रहभानि । तैः ग्रहभैः अनुमीयते आदिः अन्तः च । "माङ् माने" [पाणिनीयधातुपाठः 1143] इति अयम् धातुः धूमात् अग्न्यनुमानम् इति अत्र माने वर्तते । अत्र पुनर् ग्रहभैः अनुमीयते इति मानार्थः एव । व्रीह्यादिराशयः प्रस्थादिभिः अनुमीयन्ते, कुङ्कुमादयः वा पलादिभिः, एवम् ग्रहभैः इति । यदा सर्वे एव ग्रहाः युगपत्
मीनमेषसन्धौ क्षितिसंयुक्ताः तदा युगस्य आदिः इति । कः भुवः ग्रहस्य च योगः, द्वयोः अत्यन्तविप्रकृष्टयोः? न एषः दोषः । मुख्यस्य योगस्य असंभवात् गौणः योगः परिगृह्यते । यत्र भूलग्नः इव ग्रहः लक्ष्यते स भूग्रहयोः योगः । स च उदयास्तमययोः संभवति इति उदयास्तमययोः वा परिगृह्यते ।
अन्ये पुनर् अन्यथा व्यावर्णयन्ति ã ग्रहभैः अनुमीयते इति । ग्रहैः च नक्षत्रैः च कालस्य आदिः अन्तः च परिकल्प्यते । तत् यथा ã
उदेति यस्मिन् नक्षत्रे प्रवासोपगतः अङ्गिराः ।

तस्मात् संवत्सरः मासात् बार्हस्पत्यः प्रगण्यताम् ॥ इति ।
बृहस्पतिचारवशात् कालस्य आदिः परिकल्पितः । लोके च एवम् वक्तारः भवन्ति ã "स्वातौ उदिते प्रस्थास्यामहे उदयः " इति, "शुक्रे अस्तम् गते प्रस्थितः" इति, "अद्य कृत्तिकासु मध्यस्थितासु दारुकः [गतः]" इति आदि । क्षेत्रे । क्षेत्रम् भगोलः, तस्मिन् भगोले, नक्षत्रग्रहचारवशात् आदिः अन्तः च परिकल्पितः

43.12

[ ग्रहाणाम् समगतित्वम् ]
ग्रहाणाम् समगतिप्रतिपादनाय आह ã
षष्ट्या सूर्याब्दानाम् प्रपूरयन्ति ग्रहाः भपरिणाहम् ।
दिव्येन नभःपरिधिम् समम् भ्रमन्तः स्वकक्ष्यासु

43.12

षष्ट्या सूर्याब्दानाम् आदित्यवर्षाणाम् षष्ट्या ग्रहाः नक्षत्रकक्ष्याम् प्रपूरयन्ति, नक्षत्रकक्ष्यातुल्यानि योजनानि स्वासु स्वासु कक्ष्यासु गच्छन्ति इति अर्थः । [कियद्योजनानि] पुनर् नक्षत्रकक्ष्यायाम् ग्रहाः सूर्याब्दानाम् षष्ट्या पूरयन्ति? उच्यते ã वसुवियदम्बराकाशरसयमत्रिशैलचन्द्राः [173260008] । न एतत् अस्माभिः नक्षत्रकक्ष्याप्रमाणम् दृष्टम् । किम् तर्हि? का एषा प्रतिपादिता इति? उच्यते ã "भवांशे अर्कः" [गीतिकाí, 6] इति । अत्र कथम्
पुनर् एतेन एव नक्षत्रकक्ष्यातुल्यानि योजनानि गच्छन्ति इति उच्यते? यदि ख्युघृ-तुल्यैः अर्कवर्षैः स्वान्-स्वान् भगणान् ग्रहाः भुञ्जन्ते [तदा] षष्ट्या सूर्याब्दैः कियन्तः इति । षष्टिभागेन अपि षष्ट्या एकः, पुनर् षष्टिभागेन एते[षाम्] ख्युघृ-तुल्यानाम् अर्कवर्षाणाम् द्वासप्ततिसहस्राणि । एवम् यथाभागेन अविनष्टराशयः स्थाप्याः । ततः पुनर् अपि ã यदि एकेन भगणेन प्रतिस्वकक्ष्या लभ्यते [तदा] षष्ट्यब्दभोगेन का इति सर्वग्रहेभ्यः नक्षत्रकक्ष्या
लभ्यते ।
दिव्येन नभःपरिधिम् । दिवि भवम् दिव्यम्, युगम् इति अर्थः । कथम् पुनर् दिव्यशब्देन युगम् अभिधीयते? यस्मात् दिवि सञ्चरताम् ग्रहाणाम् एकत्र योगः भवति, अतः [दिव्यम् युगम् उक्तम् तेन] दिव्येन नभःपरिधिम् । नभसः परिधिः नभःपरिधिः, आकाशकक्ष्या इति अर्थः । कथम् इदम् उच्यते? ननु च वियत् अपरिमितयोजनप्रमाणम् इति श्रूयते । तस्य परिमितयोजनप्रमाणम् कथम् कक्ष्या भवेत्? उच्यते ã वियत् अस्माकम् यावत्
दिवसकरमरीचिनिधानम् अवभासयति तावत् वियत् इति । अतः परम् आकाशम् अप्रमेयम् इति । अत्र खकक्ष्याभिधानेन एतत् प्रतिपादयति, इयत्प्रमाणम् वियदर्कमरीचयः प्राप्नुवन्ति इति ।
समम् भ्रमन्तः । तुल्यया [गत्या] भ्रमन्तः इति अर्थः । यावन्ति योजनानि स्वकक्ष्यायाम् शशी संचरति तावन्ति एव योजनानि आर्किः अपि स्वकक्ष्यायाम् सञ्चरति । तत् यथा ã यदि एकेन भगणेन स्वकक्ष्या लभ्यते [तदा] युगभगणैः किम् इति खकक्ष्या लभ्यते । अथवा ã षष्ट्यब्दभोगेन नक्षत्रकक्ष्या लभ्यते स्वैः युगभगणैः किम् इति खकक्ष्या लभ्यते । एवम् योजनगतेन ग्रहाः तुल्यगतयः । कक्ष्यातः ग्रहाणाम् मध्यमानयनम् ã यदि
[युग]भूदिनैः सर्वे एव स्वासु कक्ष्यासु समगत्या भ्रमन्तः [ख]कक्ष्यातुल्यानि योजनानि प्रयान्ति, एकेन अह्ना कियन्ति इति सर्वग्रहाणाम् योजनगता दिनभुक्तिः लभ्यते इति, खकक्ष्यायाम् भूदिनैः भागे हृते योजनगता ग्रहाणाम् दिनभुक्तिः लभ्यते । तया त्रैराशिकम् भङ्क्त्वा मध्यमग्रहाः आनीयन्ते ã यदि स्वकक्ष्यायोजनैः भगणः लभ्यते तदा गतियोजनैः किम् इति आह्निकी भुक्तिः लभ्यते, ततः पुनर् अपि ã यदि एकेन अह्ना भुक्तिः लभ्यते अहर्गणेन
किम् इति । अत्र एकः पूर्वत्रैराशिके गुणकारः, [अपरे भागहारः ।] अतः गुणकारभागहारयोः तुल्यत्वात् नष्टयोः अहर्गणस्य दिन[गति]योजनानि गुणकारः स्थितः, [स्वकक्ष्यायोजनानि भागहारः, लब्धिः] भगणादयः । [उक्तम् च] ã
अम्बरकक्ष्या भूदिनहृता फलम् तत्र योजनानि तेषु ।
गताहसंगुणितेषु स्वग्रहकक्ष्याप्तभगणाद्यम् ॥
इति । अ[थवा खकक्ष्या]हर्गणसंवर्गे स्वकक्ष्याभूदिनसंवर्गहृते भगणादयः भवन्ति

43.13

[ग्रहाणाम् समगतित्वेन कक्ष्याव्यवस्था ]
समगत्या प्रवृत्तग्रहकक्ष्याव्यवस्थाप्रदर्शनार्थम् आह ã
मण्डलम् अल्पम् अधस्तात् कालेन अल्पेन पूरयति चन्द्रः ।
उपरिष्टात् सर्वेषाम् महत् च महता शनैः चारी

43.13

मण्डलम् अल्पम् अधस्तात् । सर्वेषाम् अधः व्यवस्थितम् मण्डलम् अल्पम् अल्पे[न कालेन पूरय]ति चन्द्रमाः । अधस्तात् इति अनेन एव मण्डलस्य अल्पत्वसिद्धिः, अल्पम् इति एतत् न वक्तव्यम् । कथम् अधस्तात् इति एतावति उच्यमाने मण्डलस्य अल्पत्वम् गम्यते? उच्यते ã उपरि उपरि कक्ष्याः व्यवस्थिताः । तासाम् उपरि उपरि व्यवस्थितानाम् अधः या व्यवस्थिता सा सर्वतनीयसी । तस्मात् अधस्तात् [इन्दुः] स्यात् । न एतत् अस्ति । "भानाम् अधः शनैः चर" [कालक्रियाí,
15] इति अत्र कक्ष्याणाम् उपरि उपरि व्यवस्थितिम् वक्ष्यति । ननु च अन्ये ब्रुवते ã सर्वेषाम् उपरि चन्द्रमसः कक्ष्या इति । [तत् अयुक्तम् ।] सर्वेषाम् ग्रहाणाम् अधः चन्द्रकक्ष्या इति आह । यदि उपरि स्यात् तदा चन्द्रस्य ग्रहनक्षत्रभेदे स्फुटकलङ्कहरिणे ग्रहनक्षत्र[ताराः दृश्येरन्] । सूर्यवशात् यदि उपरि चन्द्रः स्यात् तदा सूर्येण आरात् व्यवस्थितेन सदा चन्द्रमसोः अपि स्वस्य आरात् भागम् अखण्डम् दृश्येत, उपरिस्थितः [न उपलक्ष्यते] । तस्मात् सर्वेषाम्
अधः चन्द्रमाः ।
अन्ये पुनर् सुगत[मता]वलम्बिनः सूर्याचन्द्रमसोः एकाम् कक्ष्याम् आचक्षते ã
अर्धेन मेरोः चन्द्रार्कौ पञ्चाशत्सैक[योजनौ] ।
अर्धरात्रः अस्तगमनम् मध्याह्नः उदयः सकृत् ॥ इति ॥
न एवम् युज्यते । यदि पञ्चाशत् योजनानि चन्द्रः, एकपञ्चाशत् [योजनानि] सूर्यः तदा किम् इति सूर्यः [न] महान् उपलभ्यते, तुल्यौ एतौ [अर्धो]दितौ अर्धास्तमितौ पौर्णमास्याम् लक्ष्येते? अथ विदूरत्वात् अर्कः न महान् उपलक्ष्यते इति चेत् न । तर्हि मन्दरार्धे सूर्याचन्द्रमसोः दूरीभूतः अर्कः । अन्यत् च तुल्यकक्ष्याव्यवस्थितत्वात् सूर्याचन्द्रमसोः सूर्यग्रहणम् न एव स्यात् । न च चन्द्रमसम् मुक्त्वा अन्यः राहुः अस्ति येन सविता छाद्यते । यदि अपि अधः चन्द्रः
स्यात् तथा अपि महत्त्वात् सूर्यबिम्बस्य न एव अर्कः सकलः छाद्यते । न एव अर्कः चन्द्रेण छाद्यते इति चेत् तत् अपि उत्तरत्र व्याख्यास्यते ।
कालेन अल्पेन पूरयति चन्द्रः । अल्पेन स्तोकेन कालेन पूरयति । किम्? तत् अल्पम् मण्डलम् अधः व्यवस्थितम् । उपरिष्टात् सर्वेषाम् मण्डलानाम् महत् मण्डलम् महता कालेन शनैः चरः पूरयति । एतौ अल्पमहत्कक्ष्यामण्डलपरिमाणौ ग्रहौ उद्दिष्टौ, अन्येषाम् च [मण्डलानि स्वबुद्ध्या विज्ञेयानि] । तत् यथा ã चन्द्रमाः दिवससङ्ख्यया सप्तविंशत्या सार्धैकया मण्डलम् गच्छति, बुधशुक्ररवयः किञ्चित् ऊनेन वर्षेण, भौमः किञ्चित् ऊनेन
वर्षद्व[येन, गुरुः] तु वर्षैः द्वादशभिः किञ्चित् ऊनैः, शनैश्चरः तु त्रिंशता वर्षैः किञ्चित् ऊनैः इति । एवम् एते भिन्नकक्ष्यास्थाः योजनगतेन तुल्यगतयः ग्रहाः व्याख्याताः ।
अथ यदि तुल्यकक्ष्यास्थाः योजनगतेन तुल्यगतयः एव स्युः तदा एतेषाम् युगादेः संप्रवृत्तानाम् न कदाचित् वियोगः स्यात् । अथ [यदि] योजनगतेन एते भिन्नगतयः स्युः तदा एतेषाम् भुक्तिलिप्तानयने योजनैः यथास्वम् प्रसिद्धभुक्तिलिप्ताः न आगच्छेयुः । तस्मात् भिन्नकक्ष्यास्थाः अपि ग्रहाः योजनगतेन तुल्यगतयः एव इति

43.14

[ भिन्नकक्ष्यासु राश्यादीनाम् अल्पमहत्त्वम् ]
कक्ष्याणाम् अल्पमहत्त्वात् राशिभागलिप्ताः बह्व्यः अल्पाः इति सन्देहः तन्निवृत्त्यर्थम् आह ã
अल्पे हि मण्डले अल्पाः महति महान्तः च राशयः ज्ञेयाः ।
अंशाः कलाः तथा एवम् विभागतुल्याः स्वकक्ष्यासु

43.14

अल्पे मण्डले अल्पाः राशयः महति मण्डले महान्तः, एवम् अंशाः कलाः च, केवलम् तु विभागेन सदृशाः । तत् यथा ã अल्पे महति च मण्डले मण्डलद्वादशभागः राशिः, षष्टिशतत्रयभागः भागः, खखषड्घनभागः लिप्ताः इति, स्वासु स्वासु कक्ष्यासु ज्योतिश्चक्रस्य तुल्यत्वात्

43.15

[ ग्रहकक्ष्यावस्थितिक्रमः ]
कक्ष्याणाम् उपरि अधः अव[स्थिति]क्रमपरिज्ञानाय आह ã
भानाम् अधः शनैश्चरसुरगुरुभौमार्कशुक्रबुधचन्द्राः ।
एषाम् अधः च भूमिः मेधीभूता खमध्यस्था

43.15

भानि ज्योतींषि, अश्विन्यादीनि । तेषाम् अधः शनैश्चरः, तस्य अपि अधः बृहस्पतिः, ततः अङ्गारकः इति आदि । एषाम् अधः च भूमिः । एषाम् नक्षत्रादीनाम् भूः अधः । मेधीभूता । अत्र "भूत"-शब्दः बहुषु अर्थेषु वर्तमानः इव अर्थे प्रतिपत्तव्यः । मेधी इव स्थिता । खमध्यस्था । खम् आकाशम् तस्य मध्यम् खमध्यम्, तस्मिन् स्थिता खमध्यस्था । एषाम् अधः च भूमिः इति । अत्र उच्यते ã यदा दृश्ये
चक्रार्धे ग्रहनक्षत्राणि, तदा तेषाम् अधः भूमिः । यदा अतः अन्येषु ग्रहनक्षत्राणि स्मररिपुसुतहिबुकसहजधनेषु वर्तन्ते तदा कथम् अधः भूः, यत् उत उपरि स्यात् । न एवम् विज्ञायते । यस्मात् सर्वेषाम् अस्मदादीनाम् भूः अधः, उपरि च आकाशः, [तस्मात्] सर्वदा ग्रहाः उपरि, भूः अधः । वक्ष्यति च ã
यद्वत् कदम्बपुष्पग्रन्थः प्रचितः समन्ततः कुसुमैः ।
तद्वत् हि सर्वसत्त्वैः जलजैः स्थलजैः च भूगोलः ॥ इति ।
[गोलí, 7]
[अन्ये तु इमाम् कल्पनाम्] दूरविप्रतिपन्नाम्, भगणशनैःचरबृहस्पतिकुजरविसितबुधनिशाकरान् उपर्युपरिव्यवस्थितान् तुल्य[गतिकान् मन्यन्ते । तत् यथा ã या]वत् अल्पमण्डलम् भानि भ्रमन्ति, तावत् महान्ति मण्डलानि शनैश्चरादयः [न] शक्नुवन्ति पूरयितुम् इति पृष्ठतः लक्ष्यन्ते, यथाकक्ष्या[मण्डलक्रमेण] इति । अत्र परिहारः प्राक् प्रदर्शितः ã यदि उपरि स्यात् तदा चन्द्रस्य ग्रहनक्षत्रभेदे स्फुटकलङ्कहरिणे ग्रहनक्षत्रताराः
कृश्येरन् [पृí 212] इति आदिना ग्रन्थेन ।
अन्ये मन्यन्ते ã तुल्यकक्ष्यास्थाः एव भगणशनैश्चरबृहस्पतिकुजरविसितबुधनिशाकराः । किन्तु यथाक्रमेण शीघ्रगतयः । अतः द्रुतगतिभिः नक्षत्रैः ईषमन्दगतिः ईषत् जीयते, अतिमन्दगतिः तु दूरात् इति । ईषन्मन्दगतित्वात् शनैश्चरः इषत् जीयते, अतिमन्दगतित्वात् चन्द्रमाः [दू]रम् इति । अत्र अपि यदि प्राङ्मुखाः ग्रहादयः तदा प्राङ्मुखैः द्रुतगतिभिः नक्षत्रैः जीयमानः अश्विन्याम् दृष्टः रेवत्याम् उपलक्ष्येत, न भरण्याम् । वक्रकाले
अपि च, प्रतिलोमगतित्वात् अश्विन्याम् दृष्टः भरण्याम् एव उपलक्ष्येत । अथ एते ग्रहादयः अपराभिमुखाः कल्प्यन्ते, तथा अपि वक्रकाले अश्विन्याम् दृष्टः प्रतिलोमगतित्वात् भरण्याम् उपलक्ष्येत । तुल्यकक्ष्याव्यवस्थितानाम् च लम्बनविशेषः न स्यात् । अन्यत् च ã अन्योन्यबिम्बच्छादनम् न स्यात् । ग्रहोपरागः अपि च तुल्यकक्ष्याव्यवस्थितत्वात् न युज्यते । तस्मात् "भानाम् अधः शनैश्चरः" इति आदि सुष्ठु उक्तम्

43.16

[ कालहोरादिनाधिपतिज्ञानम् ]
कालहोरादिनाधिपतिज्ञापनाय आह ã
सप्त एते होरेशाः शनैश्चराद्याः यथाक्रमम् शीघ्राः ।
शीघ्रक्रमात् चतुर्थाः भवन्ति सूर्योदयात् दिनपाः

43.16

एते ग्रहाः शनैश्चरादयः तुल्यगतयः अपि सन्तः यथाक्रमेण शीघ्राः लक्ष्यन्ते, मण्डलानाम् यथाक्रमेण अल्पत्वात् । ते एव होरेशाः यथाक्रमेण । तत् यथा ã शनैश्चरस्य कालहोरायाम् निवृत्तायाम् बृहस्पतेः कालहोरा, ततः अङ्गारकस्य, ततः रवेः इति आदि । एवम् सूर्योदयात् प्रभृति यावत् सूर्यस्य अर्धास्तमयः इति द्वादश कालहोराः । ततः च अर्धास्तमयात् अर्धोदयः इति पुनर् द्वादश । एवम् अहोरात्रे चतुर्विंशतिकालहोराः । कालहोरा हि नाम लग्नराशेः
अर्धोदयस्य कालः । सा च दिवसे दिवसे दिवसाधिपातः प्रभृति प्रतिपत्तव्या । उक्तम् च स्फुजिध्वजयवनेश्वरेण ã
आदित्यशुक्रेन्दुजचन्द्रसौरजीवावनेयाः स्युः अहर्निशासु ।
होरेश्वराः तद्दिवसाधिपादिक्रमेण ताः तत्र चतुर्गुणाः षट् ॥
एवम् दिवसाधिपात् सूर्योदयात् गण्यमानात् उत्तरदिवसस्य अधिपात् एव अर्धोदयात् शीघ्रक्रमात् चतुर्थः, यः शीघ्रक्रमः अभिहितः "भानाम् अधः शनैश्चरः" इति आदि तस्मात् चतुर्थः दिवसाधिपतिः । तत् यथा ã शनैश्चरात् चतुर्थः सूर्यः दिवसाधिपतिः, सूर्यात् सोमः चतुर्थः, सोमात् अङ्गारकः इति आदि । एवम् अनेन क्रमेण मासाधिपाः अब्दाधिपाः च अवगन्तव्याः । कथम्? [मासस्य वर्षस्य च यः] प्रथमदिवसे अधिपः स मासाधिपः वर्षाधिपः च
। सूर्योदयात् दिनपाः । सूर्यस्य उदयः सूर्योदयः । यदि अपि शेषेण उक्तः सूर्योदयशेषेण अर्धोदयः प्रतिपत्तव्यः । कुतः? इदम् बिम्बावयवाभिधाने अपि तदवयवप्रमाणस्य मानकालावधारणाशक्यत्वात् अर्धोदयस्य च व्यक्तलक्षणत्वात् सुपरिच्छेदनया अर्धोदयः आश्रियते । अथवा अनिर्दिष्टेषु वस्तुषु मध्यमप्रतिपत्तेः अर्धोदयात् आरभ्य पुनर् अर्धोदयः इति ।
अत्र केचित् अर्धास्तमयात् वारप्रवृत्तिम् मन्यन्ते । तत् च अयुक्तम् । यस्मात् उक्तम् ã
आसीत् इदम् तमोभूतम् अप्रज्ञातम् अलक्षणम् ।
अप्रतर्क्यम् अविज्ञेयम् प्रसुप्तम् इव सर्वतः ॥
[मनुस्मृतिः, 1.5]
अत्र जनपदज्योतिश्चक्राभावात् न वारादिव्यवहारः सञ्जातः । यदा प्रोत्पन्नः सहस्रकिरणः तदा प्रभृति वारादिव्यवहारः सञ्जातः इति । अतः सुष्ठु उक्तम् सूर्योदयात् दिनपाः इति

43.17

[ प्रतिमण्डलविधिना ग्रहगतिनिरूपणम् ]
एते ग्रहाः कस्मिन् मण्डले भ्रमन्ति इति [न ज्ञायते] अतः तन्निरूपणाय आह ã
कक्ष्याप्रतिमण्डलगाः भ्रमन्ति सर्वे ग्रहाः स्वचारेण ।
मन्दोच्चात् अनुलोमम् प्रतिलोमम् च एव शीघ्ह्रोच्चात्

43.17

कक्ष्यायाः प्रतिमण्डलम् कक्ष्याप्रतिमण्डलम्, तत् गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अथवा कक्ष्या च प्रतिमण्डलम् च कक्ष्याप्रतिमण्डले, ते गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अत्र कक्ष्यागाः मध्यमाः ग्रहाः, स्फुटाः [प्रति]मण्डलगाः । अथवा कक्ष्याप्रतिमण्डलयोः यत्र सम्पातः स कक्ष्याप्रतिमण्डलशब्देन उच्यते । तम् गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अत्र अनेकत्वात् विग्रहयोगस्य, कतमः विग्रहः परिगृह्यते इति सन्देहे
उच्यते ã कक्ष्या च प्रतिमण्डलम् च कक्ष्याप्रतिमण्डले । ते गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः, इति अयम् परिगृह्यते । कथम्? इष्टत्वात् शेषविग्रहार्थवाचकत्वात् च अत्र इष्यते । कक्ष्यागाः मध्यमाः ग्रहाः यस्मात् तुल्यभुक्तयः, प्रतिमण्डलगाः स्फुटग्रहाः यतः ससदृशभुक्तयः ।
अथ के ते मध्यमाः, के वा स्फुटाः ग्रहाः? ननु च एकः एव सूर्यः, एकः एव चन्द्रमाः, एकः एव अङ्गारकः इति आदि । मध्यमस्फुटतायाम् परिगृह्यमाणायाम् ग्रहद्वयम् प्राप्नोति । न एवम् विज्ञायते मध्यमः ग्रहः स्फुटः ग्रहः इति । कथम् तर्हि? मध्यमग्रहशब्देन मध्यमग्रहस्य ग्रहगतिः अभिधीयते, स्फुटग्रहशब्देन च स्फुटग्रहगतिः इति? तत् यथा ã कश्चित् सांवत्सरम् पृच्छति ã "कः सविता" इति, स तस्मा आह ã राशिः
एकः पञ्चदश भागाः त्रिंशत् लिप्ताः इति । तत्र यः परिपृच्छति यः च आचष्टे तयोः उभयोः अभि[प्राय]द्वयप्रसङ्गः । न एष दोषः । या मध्यमा गतिः सा स्फुटगतिसाधनस्य उपायः । अन्यथा अनियतत्वात् स्फुटगतिः अशक्या स्यात् विज्ञातुम् । एवम् एव च [मध्यमग्रहः] प्रतिमण्डलपरिज्ञानार्थम् परिकल्पितः । यत् अस्य ग्रहस्य व्यासार्धतुल्यम् भूताराग्रहविवरम् स तस्मात् प्रदेशात् प्रभृति कक्ष्यामण्डलस्य उपरि अधः वा अवतिष्ठते ।
अथ कः असौ अयम् प्रदेशः? उच्यते ã यदा तृतीये कर्मणि द्वितीये पदे मन्दोच्चकेन्द्रम् राशित्रयम् द्वौ भागौ पञ्चाशत् लिप्ताः, तदा बृहस्पतेः मन्दोच्चकर्णः व्यासार्धतुल्यः । चतुर्थे कर्मणि यदा शीघ्रोच्चकेन्द्रम् राशित्रयम् पञ्चभागाः विंशतिः च कला, तदा व्यासार्धतुल्यः शीघ्रोच्चकर्णः । अत्र व्यासार्धतुल्यम् भूताराग्रहविवरम् । अस्मात् प्रदेशात् प्रभृति भूताराग्रहविवरम् प्रतिदिनम् अपचीयते । अनया युक्त्या शेषाणाम् अपि ग्रहाणाम्
व्यासार्धतुल्यम् भूताराग्रहविवरम् ऊह्यम् ।
भ्रमन्ति सर्वे ग्रहाः स्वचारेण इति एतत् निगदव्याख्यानम् एव । मन्दोच्चात् अनुलोमम् । "मन्दोच्चात्" इति हेतौ पञ्चमी । तेन मन्दोच्चात् हेतोः अनुलोमम् इति व्याख्यायते, यस्मात् न मन्दोच्चे वक्रपरिज्ञानम् । प्रतिलोमम् च एव शीघ्रोच्चात् । शीघ्रोच्चात् हेतोः प्रतिलोमम्, यस्मात् शीघ्रोच्चे वक्रपरिज्ञानम् । कथम् पुनर् शीघ्रोच्चे वक्रपरिज्ञानम्? उच्यते ã यदा शीघ्रोच्चकेन्द्रम् द्वितीयपदे तदा सर्वे ग्रहाः वक्रिणः भवन्ति, यदा च तृतीयपदे शीघ्रोच्चकेन्द्रम्
तदा अनुवक्रगतयः । उक्तम् च ã
ग्रहोनशीघ्रग्रहेषु कृतषड्वसुषु क्रमात् ।
भवेत् वक्रातिवक्रा च तथा अनुकुटिला गतिः ॥
इति । सूक्ष्मतरः [च अयम्] विधिः इति । उच्यते ã यदा अद्यतनात् ग्रहात् श्वस्तनः ग्रहः तुल्यः भवति तदा वक्रप्रारम्भः । अथवा ह्यस्तनात् ग्रहात् अद्यतनः ग्रहः तुल्यः तदा अपि वक्रप्रारम्भः । यदा अद्यतनात् तृतीयपदे श्वस्तनः ग्रहः अधिकः तदा वक्रस्य निवृत्तिः । अथवा ह्यस्तनात् ग्रहात् अद्यतनः ग्रहः अधिकः तृतीयपदे तदा अपि वक्रस्य निवृत्तिः । यदा ग्रहः बह्वीः लिप्ताः निवर्तते तदा अतिवक्रगतिः ।
कथम् पुनर् इदम् विधानम् शीघ्रोच्चात् एव गणकः प्रजानते, न पुनर् मन्दोच्चात् इति? उच्यते ã यस्मात् सूर्यवशात् ग्रहाणाम् उदयास्तमयवक्रानुवक्राः गतयः । यदि एवम् अत्र कथम् बुधशुक्रयोः अन्यत् शीघ्रोच्चम्, [मध्यः] सूर्यः । अत्र अपि सूर्यवशात् एव तयोः उदयास्तमयपरिज्ञानम् । वक्रगतिः तु एकत्वात् उपायान्तरेण विज्ञायते । अथवा उच्चनीचमध्यमपरिधिः इति एवमादिस्फुटगतिसाधनोपाय[भूतानाम् च] उपायानाम् न [एव नियमो]क्तिः
वा विद्यते । केवलम् तु उपेयसाधकाः उपायाः । तस्मात् इयम् सर्वा प्रक्रिया असत्या, यया ग्रहाणाम् स्फुटगतिः साध्यते । [एवम् च परमार्थजिज्ञासुभिः असत्योपाये]न सत्यम् प्रतिपद्यते । तथा हि भिषजः हि उत्पलनालादिषु वधादीनि अभ्यस्यन्ते । नापिताः पिठरादिषु मुण्डनादीनि, यज्ञशास्त्रविदः शु[ष्केष्ट्या] यज्ञादीनि, शाब्दिकाः प्रकृतिप्रत्ययविकारागमवर्णलोपव्यत्ययादिभिः शब्दान् प्रतिजानते । एवम् अत्र अपि
मध्यममन्दोच्चशीघ्रोच्चतत्परिधिज्याकाष्ठभुजाकोटिकर्णादि-व्यवहारेण सांवत्सराः ग्रहाणाम् स्फुटगतिम् प्रतिजानते । तस्मात् उपायेषु असत्येषु सत्यप्रतिपादनपरेषु न चोद्यम् अस्ति ।
अथ किम् अर्थम् इमे ग्रहाः प्रतिदिनम् भ्राम्यन्ति । अथ च लोके कश्चित् भ्रमन् कारणेन भ्रमति । अन्यत् च ã न एवंविधः कश्चित् दृश्यते अनवरतगतिः यथा इमे ताराग्रहाः भ्रमन्ति इति दृष्टान्तत्वेन उदाहरणभूतः इति । उच्यते ã सर्वादौ किल भगवान् प्रजापतिः ग्रहान् उक्तवान् यत् "भवन्तः मेषादिगणेषु प्रजानाम् शुभाशुभफलाय भ्राम्यत" इति । उक्तम् च स्फुजिध्वजयवनेश्वरेण ã
प्रजाः सिसृक्षुः किल विश्वधाता
प्रजापतिः प्राग्व्रतम् आचचार ।
स द्वादशाङ्गप्रभवम् स्वदेहम्
सृष्ट्वा आदितः वै भगणम् ससर्ज ॥
तेभ्यः स मेषादिगणान् प्रजज्ञे
तेभ्यः च तद्भेदविकल्पतः अन्यान् ।
अतः भवर्गस्य विभुः प्रणेता
प्रजाभवाभावविधीश्वरत्वम् ॥ इति आदि ।
अथवा शब्देन अर्थानुमानम् क्रियते । श्रूयन्ते च शब्दाः ये च अपरे अत्र गतिवाचकाः । तत् यथा ã "पथः ष्कन्" [अष्टाध्यायी, 5.1.75] इति वर्तमाने "पन्थः ण नित्यम्" [अष्टाध्यायी, 5.1.76] इति अनेन नित्यम् पन्थानम् गच्छति इति अस्मिन् अर्थे पान्थः इति अयम् शब्दः । अत्र लोके न कश्चित् अध्वानम् अनवरतम् गच्छन् दृश्यते, तस्मात् अमी एव ग्रहाः पान्थाः । न च अयम् शब्दः असत्स्वार्थेषु शशविषाणकूर्मरोमवन्ध्यापुत्रशब्दवत् प्रवृत्तः । तस्मात्
सुष्ठु उच्यते शब्देन अर्थानुमानम् पान्थाः ग्रहाः इति ।
अथवा अयम् अपरः प्रकारः । मन्दोच्चात् अनुलोमम् प्रतिलोमम् च एव शीघ्रोच्चात् । मन्दोच्चात् यतः मन्दोच्चकेन्द्रात् प्रतिमण्डलविधानेन आनीतम् फलम् प्रत्यहम् उपचीयते । क्व? अन्यस्य अश्रुतत्वात् मन्दोच्चे एव । तस्मात् मन्दोच्चात् अनुलोमम् । प्रतिलोमम् च एव शीघ्रोच्चात् । यस्मात् प्रतिमण्डलविधानेन आनीतम् फलम् सर्वदा अपचीयते । कुतः? अन्यस्य अशृउतत्वात् शीघ्रोच्चात् एव । तस्मात् "प्रतिलोमम् च एव शीघ्रोच्चात्" इति

43.18

[ प्रतिमण्डलविधानम् ]
स्फुटाः प्रतिमण्डले भ्रमन्ति इति उक्तम्, अतः तज्ज्ञापनाय आह ã
कक्ष्यामण्डलतुल्यम् स्वम् स्वम् प्रतिमण्डलम् भवति एषाम् ।
प्रतिमण्डलस्य मध्यम् घनभूमध्यात् अतिक्रान्तम्

43.18

कक्ष्यामण्डलतुल्यम् । कक्ष्यामण्डलेन तुल्यम् कक्ष्यामण्डलतुल्यम् । कक्ष्यामण्डलप्रमाणम् "शशिराशयष्ठ चक्रम्" [गीतिकाí, 6] इति एतस्मिन् सूत्रे व्याख्यातम् । स्वम् स्वम् प्रतिमण्डलम् आत्मीयम् आत्मीयम् प्रतिमण्डलम्, भवति । एषाम् ग्रहाणाम् । प्रतिमण्डलस्य मध्यम् । यत् मध्यम् केन्द्रम् तत् घनभूमध्यात् अतिक्रान्तम् । घनाः च असौ भूः च घनभूः, तस्याः घनभुवः मध्यम् घनभूमध्यम्, तस्मात् घनभूमध्यात्,
अतिक्रान्तम् निर्गतम् उपरिस्थितम् इति अर्थः । तत् यथा ã यावत् प्रमाणपरिकल्पितम् षष्टिशतत्रयांशावच्छिन्नम् कक्ष्यामण्डलम् पूर्वापरम् ऊर्ध्वम् विन्यस्य, तादृश् एव अन्यत् मण्डलम् उपरि अधः कक्ष्यामण्डलात् वक्ष्यमाणेन अन्तरेण पूर्वापरयोः दिशोः यत्र सम्पातः तत्र यत् बध्यते गोले तत्प्रतिमण्डलम् नाम । एवम् एते कक्ष्याप्रतिमण्डले व्याख्याते

43.19

[ नीचोच्चवृत्तिविधिना ग्रहगतिप्रतिपादनम् ]
कक्ष्याप्रतिमण्डलान्तरप्रतिपादनार्थम् आह ã
प्रतिमण्डलभूविवरम् व्यासार्धम् स्वोच्चनीचवृत्तस्य ।
वृत्तपरिधौ ग्रहाः ते मध्यमचारात् भ्रमन्ति एवम्

43.19

प्रतिमण्डलस्य भूमण्डलस्य च विवरम् प्रतिमण्डलभूविवरम् । व्यासार्धम् स्वोच्चनीचवृत्तस्य । उच्चवृत्तम् नीचवृत्तम् च उच्चनीचवृत्तम्, स्वस्य उच्चनीचवृत्तम् स्वोच्चनीचवृत्तम्, तस्य स्वोच्चनीचवृत्तस्य व्यासार्धम् प्रतिमण्डलभूविवरम् । तत् यथा ã "झार्धानि मन्दवृत्तम्" इति अधिकृत्य "शशिनः छ" [गीतिकाí, 10] इति सप्त शशिनः झार्धानि उच्चनीच्चवृत्तम्, सार्धैकत्रिंशद्भागप्रमाणम् इति अर्थः । यस्य यत् व्यासार्धम् तत् त्रैराशिकगणितेन
सिद्धम् । यदि "चतुरधिकम् शतम् अष्टगुणम्" [गणितí, 10] इति एवमादेः परिधेः अयुततुल्यम् व्यासार्धम् लभ्यते तदा सार्धैकत्रिंशद्भागप्रमाणस्य परिधेः किम् इति लब्धम् भागाः पञ्च, लिप्ता च अर्धाधिकेन एका । सूर्यस्य अपि त्रीणि झार्धानि मन्दवृत्तम्, सार्धत्रयोदशभागप्रमाणम्, तस्य च त्रैराशिकेन स्ववृत्तविष्कम्भार्धम् लब्धम् भागद्वयम्, अर्धाधिकेन नव लिप्ताः । अथवा ã यदि षष्टिशतत्रय[भागमित]परिधेः [वसुत्रिकृतवह्निलिप्तामितम्]
व्यासार्धम् लभ्यते तदा उच्चनीचपरिधेः किम् इति लब्धम् चन्द्रस्य उच्चनीचव्यासार्धम् लिप्तात्रिशती सार्धाधिकरूपा । एवम् सूर्यस्य अपि शतम् एकोनत्रिंशदुत्तरम् [सार्धम्] । तत्र भागप्रमाणेन लिप्ताप्रमाणेन वा कक्ष्याप्रतिमण्डलमध्यान्तरम् परिकल्प्यम् । एवम् सूर्याचन्द्रमसोः । अन्यथा अन्येषाम् समविषमवृत्तमन्दोच्चशीघ्रोच्चभेदेन अनेकप्रतिमण्डलप्रसङ्गभयात् उत्तरत्र वक्ष्यति ã "भूताराग्रहविवरम्" [कालक्रियाí, 25] इति । वृत्तपरिधिः
कक्ष्यामण्डलम्, तस्मिन् वृत्तपरिधौ मध्यमचारम् ग्रहाः भ्रमन्ति । प्रतिमण्डलेषु स्फुटचारम् भ्रमन्ति इति अर्थात् अवसीयते

43.20

[ नीचोच्चवृत्तपरिधौ ग्रहगतिः ]
ग्रहभुक्त्यानयनवक्रानुवक्रपरिज्ञानाय आह ã
यः शीघ्रगतिः स्वोच्चात् प्रतिलोमगतिः स्ववृत्तकक्ष्यायाम् ।
अनुलोमगतिः वृत्ते मन्दगतिः यः ग्रहः भवति

43.20

शीघ्रा गतिः यस्य तत् शीग्रह्गतिः, शीघ्रगतिः च तत् स्वोच्चम् च शीघ्रगतिः स्वोच्चम्, शीघ्रततिःस्वोच्चात् यः प्रतिलोमगतिः शीघ्रगतिः । स्वोच्चशब्देन स्वशीघ्रोच्चभुक्तिः परिगृह्यते । सा यदि शीघ्रोच्चभुक्तिः स्वकेन्द्रान्तज्या[साधितस्फुटमध्य]मभुक्तेः [न पतति] तदा सा एव स्फुटमध्यमा भुक्तिः स्वकेन्द्रान्तज्यासाधिता स्वशीघ्रोच्चभुक्तेः प्रतिलोमे[न] पात्यते । तदा शीघ्रगतिः स्वोच्चगतिः इति उच्यते । प्रतिलोमशब्देन च विपरीतपातितशेषलिप्ताः
परिगृह्यन्ते । एवम् अयम् विग्रहार्थः निष्पन्नः भवति । प्रतिलोमा गतिः यस्य सः प्रतिलोमगतिः इति ।
आदितः एव एतत् भुक्त्यानयनम् प्रति वक्ष्यते । तत् यथा ã मन्दोच्चकेन्द्रान्तज्याम् क्रमेण उत्क्रमेण वा निष्पन्नाम् स्वमध्यमभुक्तिलिप्ताभिः गुणयेत् । पुनर् च तत् कालप्रतिधिना गुणितस्य अष्टादशभिः सहस्रैः भागलब्धम् केन्द्रपदवशात् अर्धीकृत्य ग्रहमध्यमभुक्तिलिप्तासु प्रक्षिप्य विशोध्य वा स्वशीघ्रोच्चभुक्तिलिप्ताभिः शोधयेत् । शेषम् स्वशीघ्रोच्चकेन्द्रान्तज्याक्रमोत्क्रमज्यागुणम् तत् कालशीघ्रोच्चपरिधिना गुणयेत् । भागः अष्टादशभिः
सहस्रैः । लब्धम् व्यासार्धगतम् स्वकर्णेन विभजेत् । लभ्दस्य अर्धम् केन्द्रपदवशात् ग्रहमध्यमभुक्तिलिप्तासु क्षिपेत्, विशोधयेत् वा । ततः तम् क्षिप्तविशोधितशेषम् गृहीत्वा तृतीयकर्म ã मन्दोच्चकेन्द्रान्तज्याक्रमोत्क्रमज्याम् तत् कालपरिधिगुणम् अष्टादशभिः सहस्रैः विभजेत् । लब्धम् समस्तम् एव ग्रहमध्यमभुक्तिलिप्तासु मन्दकेन्द्रपदवशात् क्षिपेत्, विशोधयेत् वा । क्षिप्तम् विशोधितशिष्टम् वा स्फुटमध्यमभुक्तिलिप्ताः अविनष्टाः
ताः स्वशीघ्रोच्चभुक्तिलिप्ताभ्यः विशोधयेत् । शेषम् [गृहीत्वा] चतुर्थकर्म ã शीघ्रोच्चकेन्द्रान्त[ज्याक्रमोत्क्रम]ज्याम् तत् कालपरिधिगुणम् अष्टादशभिः सहस्रैः विभजेत् । लब्धम् व्यासार्धगुणम् कर्णेन विभजेत् । तत्र यद् अवाप्तम् तत् यदि क्षेप्यम् स्फुटमध्यमभुक्तिलिप्तासु क्षिपेत्, निष्पन्ना ग्रहस्य स्फुटभुक्तिः । अथ विशोध्यम् सद् यदि स्फुटमध्यमभुक्तितः न पतति तदा प्रतिलोमगतिः ग्रहः स्फुटमध्यमभुक्तिलिप्ताः एव विपरीतम्
शोध्याः । शेषम् वक्रभोगः । अस्मिन् अर्थे इयम् कारिका ã
यः शीघ्रगतिः स्वोच्चात् प्रतिलोमगतिः स्ववृत्तकक्ष्यायाम् ।
प्रतिलोमगतिः वक्रगतिः इति अर्थः ।
अनुलोमगतिः वृत्ते । असौ अनुलोमगतिः भवति । यदा शीघ्रोच्चात् शीघ्रोच्चकेन्द्रान्तज्यानिष्पन्ना लिप्ताः स्फुटमध्यमभुक्तिलिप्ताभ्यः विशुद्धाः, तदा असौ ग्रहः अनुवक्री । तत्र च विशेषलिप्ताः अनुलोमशब्दवाच्याः । ततः अर्थात् अयम् विग्रहः अवसितः ã अनुलोमा गतिः यस्य स अनुलोमगतिः इति । स च अल्पम् गच्चहति इति मन्दगतिः अभिधीयते

43.21

[ नीचोच्चवृत्तभ्रमणप्रकारान्तरम् ]
ग्रहाणाम् स्फुटीकरणप्रकारान्तरम् आह ã
अनुलोमगानि मन्दात् शीघ्रात् प्रतिलोमगानि वृत्तानि ।
कक्ष्यामण्डललग्नस्ववृत्तमध्ये ग्रहः मध्यः

43.21

अनुलोमम् गच्छति इति अनुलोमगतिः । तत् उक्तम् ã मन्दात्, उक्तमन्दोच्चावधेः मध्यमात् इति । तत् अत्र अपि शीघ्रोच्चावधेः मध्यमात् इति एतत् एकप्रक्रमेण भवितव्यम् । न इति आह ã शीघ्रा[त् प्रतिलोमग]तिः प्रतिलोमावधेः । शीघ्रोच्चस्य प्रतिलोमगतीनि विपरीतगतीनि यानि वृत्तानि परिधयः । अत्र वृत्तस्य एकदेशे वृत्तशब्दोप[चारात् परिधयः च] इति, यथा मन्दशीघ्रकेन्द्रयोः तज्ज्याकाष्ठे धनूंषि । अतः तानि धनूंषि मन्दकेन्द्रात् जातानि क्रमेण
उप[चीयन्ते, शीघ्रकेन्द्रात्] जातानि उत्क्रमेण उपचीयन्ते । अतः "अनुलोमगानि मन्दात् शीघ्रात् प्रतिलोमगानि वृत्तानि" । कथम् पुनर् वृत्तानि मन्दशीघ्रकेन्द्रयोः तज्ज्याधनूंषि क्रमोत्क्रम[गतीनि? गते]ः अवस्थावाचकत्वात् । यथा ã
गतिः अस्ति इति भूतानाम् सुकुमारायते मनः ।
[अनस्त्वनिशम् एव ऊढम् धुरम्] वहति गौः इव ॥
तथा ã
दानम् भोगः नाशः तिस्रः गतयः भवन्ति वित्तस्य ।
यः न ददाति न भुङ्क्ते तस्य तृतीया गतिः भवति ॥
[भर्तृहरिः, नीतिशतकम्, 34]
तस्मात् यानि एव ज्याधनूंषि तानि एव प्रतिलोमानुलोमगतीनि ।
अथ अत्र इदम् प्रष्टव्यम् ã मन्दोच्चज्याधनूंषि मन्दोच्चात् उपचीयन्ते, शीघ्रोच्चज्याधनूंषि शीघ्रोच्चात् अपचीयन्ते । कुतः एतत्? सम्प्रदायाविच्छेदात् । अथ "व्याख्यानतः विशेषप्रतिपत्तिः, न हि सन्देहात् अलक्षणम्" [अष्टाध्यायी, शिवसूत्रम् 6, पातञ्जलमहाभाष्यम्] इति । अथवा मन्दोच्चशीघ्रोच्चश्रवणात् मन्दोच्चशीघ्रोच्चयोः एव प्रतिपत्तिः, अन्यस्य अश्रुतत्वात् च ।
[ प्रतिमण्डलविधिना ग्रहस्फुटीकरणप्रक्रिया ]
अयम् आर्यासूत्रार्थः यथा घटते तथा कर्मणा प्रतिपादयिष्यामः । इष्टात् ग्रहात् तत् मन्दोच्चम् विशोधयेत् । शेषम् राश्यादिकम् मन्दोच्चात् प्रवृत्तम् तत् कक्ष्यामण्डलोत्पन्नम् इति प्रतिमण्डले क्रियते, यस्मात् प्रतिमण्डले स्फुटग्रहः भ्रमति । तेन तस्मात् मन्दोच्चात् आरभ्य यत् काष्ठम् तत् महति मण्डले अल्पम् भवति । "महति महान्तः च राशयः ज्ञेयाः । अंशाः कलाः तथा एवम् [कालक्रियाí, 14] इति । अल्पे प्रतिमण्डले तत् एव काष्ठम् बहुतरम्
भवति, मानाल्पत्वात् । व्रीह्यादयः महता मानविशेषेण प्रमीयमानाः प्रस्थादिसङ्ख्यया अल्पाः भवन्ति, [ते] एव अल्पेन मानविशेषेण मीयमानाः प्रस्थादिशङ्ख्यया बहवः भवन्ति एवम् अत्र अपि । कथम् पुनर् तत् काष्ठम् कक्ष्यामण्डलोत्पन्नम् प्रतिमण्डले प्रमीयते? उच्यते ã तत् काष्ठस्य पदानि व्यतीतानि प्रत्याकलय्य वर्तमानपदस्य भुजाकोटिज्यया कर्म इदम् क्रियते ã "प्रतिमण्डलस्य मध्यम् घनभूमध्यात् अतिक्रान्तम्" [कालक्रियाí,
18] इति प्रतिमण्डलभूविवरम् कोट्याम् प्रथमचतुर्थयोः पदयोः प्रक्षिप्यते, द्वितीयतृतीययोः अपनीयते ।
एतत् प्रतिपादनार्थम् समायामवनौ वृत्तकेन्द्रम् निधाय यावत् तावत् प्रमाणपरिकल्पितव्यासार्धप्रमाणेन कर्कटकेन वृत्तम् आलिखेत् । तस्य वृत्तस्य पूर्वापर[दक्षिणोत्तर]लेखे कृत्वा [तद्वृत्तकेन्द्रात् अन्त्य]फल[ज्या]प्रमाणम् [सूत्रम् मन्दोच्चाभिमुखम्] दक्षिणेन निधाय तत्र कक्ष्यामण्डलव्यासार्धतुल्यकर्कटकेन वृत्तम् आलिखेत् । तत् प्रतिमण्डलम् इति उच्यते । [तत् प्रथमचतुर्थपदयोः] कक्ष्यामण्डलात् उपरि अवतिष्ठते, द्वितीयतृतीययोः
अधः । तत्र या कोटिज्या सा कक्ष्यामण्डलोत्पन्ना कक्ष्यामण्डलभूम्यन्तरालप्रमाणा । तेन प्रतिमण्डलभूविवरान्तरालमात्रेण प्रतिमण्डलम् प्रथमचतुर्थयोः पदयोः कोटिः न प्राप्नोति इति प्रक्षिप्यते, द्वितीयतृतीयपदयोः तावता अतीतात् प्रतिमण्डलात् कोटिः इति अपनीयते । एवम् प्रतिमण्डलोत्पन्ना कोटिः भवति । अथ यदि कोटि[ज्यातः] प्रतिमण्डलभूविवरम् न शुध्यति, तदा प्रतिमण्डलभूविवरात् कोटिज्या शोध्यते । तावती प्रतिमण्डलकोटिः भवति
। तत्र एवम् निष्पन्नायाः कोटेः भुजज्यायाः च वर्गसमासमूलम् कर्णः । तत् सूक्ष्मार्थिभिः अविशिष्यते, प्रतिमण्डलकर्णस्य वृद्धिह्रासवशात् दृष्टिः भिद्यते इति । तत् यदि व्यासार्धतुल्येन प्रतिमण्डलकर्णेन यथा उक्तम् प्रतिमण्डलभूविवरम् लभ्यते तदा तेन प्रतिमण्डलकर्णेन किम् इति । लब्धम् पूर्वकोटिज्यायाम् प्रक्षिप्यते अपनीयते वा । ततः तद्भुजज्यावर्ग[समास]मूलम् कर्णः । तेन पुनर् प्रतिमण्डलभूविवरानयनम् इति यावत् अविशेषः । ततः
अविशिष्टकर्णेन व्यस्तत्रैराशिकम् क्रियते ã यदि व्यासार्धविष्कम्भस्य कक्ष्यामण्डलस्य इयम् भुजज्या लभ्यते, तदा तेन कर्णेन प्रतिमण्डलजेन का इति । व्यस्तत्रैराशिकत्वात् व्यासार्धम् गुणकारः, कर्णः भागहारः, लब्धम् प्रतिमण्डलभुजज्या । तत् काष्ठम् मन्दोच्चे प्रक्षिप्य स्फुटः ग्रहः भवति, यस्य मन्दोच्चकेन्द्रम् प्रथमपदे । द्वितीयपदे षड्भ्यः राशिभ्यः विशोध्य भुजा गृहीता इति षङ्भ्यः अपनीयते, शेषम् मन्दोच्चे प्रक्षिप्यते ।
तृतीयपदे चक्रार्धाधिकभुजा इति तत् चापम् चक्रार्धसहितम् मन्दोच्चे प्रक्षिप्यते । चतुर्थपदे द्वादशेभ्यः विशुद्धशेषम् भुजा इति चक्रात् तत् काष्ठम् विशोध्य शेषम् मन्दोच्चे प्रक्षिप्यते । एवम् स्फुटग्रहः भवति, यस्य शीघ्रोच्चम् न विद्यते ।
येषाम् पुनर् शीघ्रोच्चम् विद्यते तेषाम् कर्मविशेषः उच्यते । तत् यथा ã परिधिचालनाप्रयोगेण स्फुटीकृतपरिधिना व्यासार्धम् सम्गुणय्य अशीत्या भागलब्धम् प्रतिमण्डलभूविवरम् मन्दशीघ्रोच्चयोः । तेन अनन्तराभिहितमन्दोच्चकर्मणा मन्दोच्च[फलम्] साधयेत् । [तत्] सकलसंस्कृतः ग्रहः भवति । तत् एवम् निष्पन्नस्य, मध्यमस्य ग्रहस्य [च] यत् अन्तरार्धम् तत् मध्यमात् मन्दोच्चसिद्धे अधिके मध्यमग्रहे धनम्, ऊने ऋणम्
। एवम् मन्दोच्चसं[स्करणम्] । एतत् एव कर्म "शनिगुरुकुजेषु मन्दे अर्धम् ऋणधनम् भवति पूर्वम्" [कालक्रियाí, 22] इति अनेन ग्रन्थेन अभिधीयते । कथम्? सनिगुरुकुजेषु, मन्दारगुरुषु मध्यमेषु मध्यमकर्मणा सिद्धेषु मन्दारगुरुषु इति अर्थः । "अर्धम् ऋणधनम् भवति पूर्वम्" [कालक्रियाí, 22] इति कस्य अर्धम् ऋणम् धनम् वा भवति इति अत्र सम्प्रदायाविच्छेदात् मन्दसिद्धमध्यमान्तरम् परिगृह्यते । किम् तस्य अर्धम् मध्ये ग्रहे
धनम् ऋणम् वा पूर्वसिद्धे मन्दोच्चकर्मणि भवति? इदम् च कर्म मन्दोच्चशीघ्रोच्चयोः सामान्येन प्रसिद्धम् । कुतः? विशेषानुवादना[भावा]त् । तत् यथा ã एवम् अर्धेन फलेन संस्कृतम् मध्यमम् ग्रहम् शीघ्रोच्चात् ग्रहात् विशोधयेत् । तत्र केन्द्रपदविभागेन भुजाकोटिज्ये गृहीत्वा स्फुटीकृतस्वशीघ्रोच्चपरिधिना व्यासार्धम् संगुणय्य अशीत्या भागलब्धप्रतिमण्डलभूविवरेण पूर्वकर्मणा एव संस्कृतात् कर्णम् आनयेत् । अत्र अविशेषाभावात्

अविशेषकर्म न प्रवर्तते । ततः भुजज्यया व्यासार्धम् संगुणय्य कर्णेन भागलब्धस्य काष्ठम् शीघ्रोच्चकेन्द्रे प्रथमपदे शीघ्रोच्चात् अपनीयते, द्वितीये पदे षड्भ्यः विशोध्य शेषम् शीघ्रोच्चात् अपनीयते । तृतीये पदे चक्रार्धयुक्तम्, चतुर्थे पदे द्वादशभ्यः विशुद्धशेषम्, "शीघ्रात् प्रतिलोमगानि वृत्तानि" इति वचनात् । एवम् सीघ्रोच्चसकलफलसंस्कृतः ग्रहः भवति । तस्य मन्दोच्चसिद्धस्य च पूर्ववत् एव अन्तरार्धम् मन्दोच्चसिद्धे पूर्वकल्पनया
एव धनम् ऋणम् वा कुर्यात् । तत् मन्दशीघ्र[सिद्ध]म् अविनष्टम् विधाय तस्मात् मन्दोच्चम् विशोध्य पूर्ववत् एव मन्दोच्चम् साधयेत् । तस्य मन्दोच्चसिद्धस्य द्विसंस्कृतस्य अविनष्टस्थापितस्य च यः विशेषः तम् सकलम् एव द्विसंस्कृतहीनमध्यमात् विशोधयेत्, अधिकमध्यमे प्रक्षिपेत् । [अर्थात् द्विसंस्कृतमन्दसिद्धे ऊने सति विशोधयेत् अन्यथा प्रक्षिपेत्] । तम् एवंकृतम् शीघ्रोच्चात् विशोध्य शीघ्रोच्चप्रसिद्धकर्मणा संसिद्धः स्फुटः ग्रहः भविष्यति
इति । एतत् एव कर्म संक्षेपेण अस्माभिः कर्मनिबन्धे उक्तम् ã
प्रतिमण्डलकर्म अपि योज्यम् अत्र विपशिचिता ।
मन्दोच्चे पूर्ववत् कुर्यात् शीघ्रोच्चात् तत् विशोध्यते ॥
तत् एव केवलम् शोध्यम् [चक्रार्धात् शोध्य तत् चलात्] ।
चक्रार्धसंयुतम् चापम् चक्रात् शुद्धम् च शेषयोः ॥
स्फुटवृत्तगुणाम् त्रिज्याम् भक्त्वा अशीत्या स्वकोटितः ।
त्यक्त्वा पदेषु युक्त्वा वा कर्णः प्राग्वत् प्रसाध्यते ।
मन्दोच्चसिद्धतन्मध्यविश्लेषार्धसमन्वितः ।
मन्दसिद्धे अधिके हीने रहितः मध्यमः ग्रहः ॥
स शीघ्रोच्चात् पुनर् साध्यः सिद्धयोः अन्तरालजम् ।
अर्धीकृत्य सकृत् सिद्धे पूर्ववत् परिकल्पयेत् ॥
एवंकृतस्य भूयः अपि मन्दसिद्धिम् समाचरेत् ।
मन्दसिद्धस्य तस्य अयम् विशेषः यः अभिधास्यते ॥
द्विसिद्धमन्दसिद्धस्य द्विसिद्धस्य यत् अन्तरम् ।
प्राग्वत् तत् मध्यमे कृत्वा शीघ्रसिद्धः स्फुटः ग्रहः ॥
[महाभास्करीयम्, 4.45-51]
अत्र शनिगुरुकुजग्रहणम् शीघ्रोच्चवत् ग्रहप्रतिपादनार्थम् । तेन बुधशुक्रयोः अपि इदम् कर्म क्रियते ।
कक्ष्यामण्डललग्नस्ववृत्तमध्ये । कक्ष्यामण्डले लग्नम् कक्ष्यामण्डललग्नम् । किम् तत्? स्ववृत्तमध्यम्, स्ववृत्तमण्डलमध्यम् । कक्ष्यामण्डललग्नम् च तत् स्ववृत्तमध्यम् च कक्ष्यामण्डललग्नस्ववृत्तमध्यम् । तस्मिन् कक्ष्यामण्डललग्नस्ववृत्तमध्ये । ग्रहः मध्यः । यः असौ मध्यः ग्रहः स कक्ष्यामण्डललग्नस्ववृत्तमध्ये भवति । एतत् उक्तम् भवति ã कक्ष्याप्रतिमण्डलयोः यत्र सम्पातः तत्र यः असौ मध्यमग्रहः,
स एव स्फुटः इति ।
[ ग्रहस्फुटीकरणे अन्येषाम् मतप्रदर्शनम् ]
अथ अन्ये अन्यथा व्याख्यानम् कुर्वन्ति । अनुलोमम् गच्छन्ति इति अनुलोमगानि । कानि? वृत्तानि, परिधयः इति अर्थः । मन्दात् । मन्दोच्चात् प्रभृति यानि मन्दोच्चवृत्तानि मन्दोच्चात् आरभ्य अनुलोमम् गच्छन्ति, यस्मात् मन्दोच्चकेन्द्रम् अहर् अहर् उपचीयते । शीघ्रात् प्रतिलोमगानि । शीघ्रात् शीघ्रोच्चात् आरभ्य यानि शीघ्रोच्चवृत्तानि तानि प्रतिलोमम् गच्छन्ति, यस्मात् शीघ्रोच्चकेन्द्रम् अहर् अहर् अपचीयते । अत्र इदम् प्रष्टव्यम् ã कथम् वा मन्दोच्चकेन्द्रम्
अहर् अहर् उपचीयते, कथम् वा शीघ्रोच्चकेन्द्रम् अहर् अहर् अपचीयते इति? उच्यते ã ग्रहात् पतिते मन्दोच्चे [मन्दकेन्द्र]भुक्तयः उपचीयन्ते, ग्रहात् पतिते शीघ्रोच्चे शीघ्रकेन्द्रभुक्तयः अपचीयन्ते । यदि एवम् ग्रहात् शीघ्रोच्चम् न पतति महत्त्वात् तर्हि मण्डलम् प्रक्षिप्य पात्यते इति । तत्र भगणाः भगणेभ्यः विशोध्याः, राशयः राशिभ्यः, भागाः भागेभ्यः, लिप्ताः लिप्ताभ्यः इति एषः क्रमः । तत्र ग्रहभगणेभ्यः शीघ्रोच्चभगणाः एव तावत् न
शुद्ध्यन्ति । कुतः असौ भगणः यम् प्रक्षिप्य शीघ्रोच्चम् विशोध्यते? तस्मात् गणितयुक्त्या यानि अपि शीघ्रवृत्तानि तानि अपि अनुलोमगानि एव । आचार्येण तु करणलाघवार्थम् "प्रतिलोमगानि वृत्तानि" इति उक्तम् । किम् पुनर् अत्र करणलाघवम्? कामचारः । यदि ग्रहः शीघ्रोच्चात् पतति तदा ग्रहः शीघ्रोच्चात् विशोध्यते । यदा च शीघ्रोच्चम् ग्रहात् पतति तदा ग्रहात् शीघ्रोच्चम् विशोध्यते इति । सत्यम् एव एतत्, किन्तु ज्यापरिधिकल्पना व्यभिचरति । यदा ग्रहात् शीघ्रोच्चम्
विशोधितम् भवति तदा अन्यथा ज्या अन्यथा परिधिः, तदानीम् एव शीघ्रोच्चात् विशुद्धे ग्रहे अन्यथा ज्या अन्यथा एव परिधिः । अथ मन्यते शीघ्रोच्चविशुद्धे ग्रहे यत् प्रथमपदम् तत् चतुर्थपदम्, यत् द्वितीयपदम् तत् तृतीयपदम्, यत् तृतीयपदम् तत् द्वितीयपदम्, यत् चतुर्थपदम् तत् प्रथमपदम् इति । एवम् तर्हि यत् ज्यायसी कल्पना, तस्मात् मन्दोच्चम् ग्रहात् विशोध्यम् । ग्रहः च शीघ्रोच्चात् । मन्दशीघ्रवृत्तानि क्रमोत्क्रमेण एव गच्छन्ति ।
कक्ष्यामण्डललग्नः । कक्ष्यायाः मण्डलम् कक्ष्यामण्डलम् । अथवा कक्ष्या च सा मण्डलम् च तत् कक्ष्यामण्डलम् । तेन कक्ष्यामण्डलेन लग्नः कक्ष्यामण्डललग्नः । कः? ग्रहः मध्यः । स्ववृत्तमध्ये । स्वस्य वृत्तम् स्ववृत्तम् । तत् च सामान्येन मन्दवृत्तम् शीघ्रवृत्तम् च परिगृह्यते । तस्य स्वमन्दवृत्तस्य [स्वशीघ्र]वृत्तस्य च मध्यम् स्ववृत्तमध्यम् । तत्र ग्रहस्य मध्यः, स च कक्ष्यामण्डलासक्तः । स्ववृत्तस्य कक्ष्यामण्डले
यथा मध्यम् भवति तथा बध्नीयात् । तस्मिन् स्ववृत्ते यथा कक्ष्यामण्डले यथा मध्यम् भवति तथा बध्नीयात् । तस्मिन् स्ववृत्ते यथा कक्ष्यामण्डले ज्या अवितिष्ठते तथा एव अवतिष्ठमाना द्रष्टव्या । कथम्? यथा कक्ष्यामण्डलस्य षण्णवत्यंशका काष्ठज्या । एवम् अत्र अपि षण्णवत्यंशका काष्ठज्या परिकल्पनीया । तत् यथा ã उच्चात् आरभ्य भुजज्याकोटिज्याभ्याम् त्रैराशिकम् ã यदि षष्टिशतत्रयपरिधौ इमे भुजज्याकोटिज्ये, [तदा] उच्चनीचपरिधौ
के इति । अथवा ã व्यासार्धेन इमे भुजज्याकोटिज्ये, ततः अन्त्यफलतुल्येन उच्चनीचवृत्तव्यासार्धेन के इति । लब्धे उच्चनीचवृत्तस्य भुजज्याकोटिज्ये । तत्र प्रथमचतुर्थयोः पदयोः व्यासार्धात् उपरि कोटिसाधनम् स्थितम् इति व्यासार्धे प्रक्षिप्यते । द्वितीयतृतीययोः पदयोः व्यासार्धोनम् प्रवृत्तम् इति व्यासार्धात् अपनीयते । एवम् कोटिका निष्पन्ना भवति, भुजाकोटिवर्गसमासमूलम् कर्णः । एवम् मन्दशीघ्रयोः कर्णोत्पत्तिः

43.22

[ नीचोच्चवृत्तविधिना शनिगुरुकुजस्फुटीकरणम् ]
ग्रहाणाम् ऋणधनप्रतिपादनाय आह ã
क्षयधनधनक्षयाः स्युः मन्दोच्चात् व्यत्ययेन शीघ्रोच्चात् ।
शनिगुरुकुजेषु मन्दात् अर्धम् ऋणम् धनम् भवति पूर्वे

43.22

क्षयधनधनक्षयाः । क्षयः च धनः च धनः च क्षयः च क्षयधनधनक्षयाः । एते क्षयधनधनक्षयाः यथासङ्ख्येन पदेषु प्रत्येतव्याः । तत् यथा ã प्रथमे पदे क्षयः, द्वितीये पदे धनम्, तृतीये पदे धनम् एव, चतुर्थे पदे क्षयः इति । अयम् क्षयादिक्रमः ।
पदक्रमः च कस्मात् परिगृह्यते इति आह ã मन्दोच्चात् प्रवृत्तात् ग्रहात् । कुतः? उच्यते ã "मन्दोच्चात्" इयम् पञ्चमी मर्यादाभिधायिनी । ततः मन्दोच्चात् इति अनेन मन्दोच्चात् प्रवृत्तः ग्रहः परिगृह्यते । स कथम् मन्दोच्चात् प्रवृत्तः ग्रहः ज्ञेयः? उच्यते ã न अत्र किञ्चित् अपि ज्ञेयम् । यावद्भिः मन्दोच्चात् अधिकः ग्रहः तवता असौ मन्दोच्चात् प्रवृत्तः ग्रहः ज्ञेयः । तेन तत्परिज्ञानार्थम् मन्दोच्चम् ग्रहात् पात्यते, तत्र शेषेण राश्यादिना मन्दोच्चात्
प्रवृत्तः असौ ग्रहः भवति । तस्मात् प्रथमपदे या क्रमज्या तस्याः फलम् त्रैराशिकेन आनीयते । यदि षष्टिशतत्रयपरिधेः इयम् ज्या, तदा इष्टग्रहपरिधेः का इति फलम् लभ्यते । एतत् एव त्रैराशिकम् । झार्धापवर्तमानषष्टिशतत्रयपरिधेः अशीतिः, स्वपरिधिभागानाम् यथा उक्ताक्षरसङ्ख्या । तेन परिधिना गुणितज्यायाः अशीतिः भागहारः । स्वपरिध्यक्षरसङ्ख्या गुणकारः । लब्धम् फलम् ऋणम् एव । द्वितीयपदे उत्क्रमेण ज्या व्यवस्थिता इति,
उत्क्रमज्याफलम् धनम् । पुनर् तृतीयपदे क्रमेण ज्या व्यवस्थिता इति क्रमज्याफलम् धनम् । चतुर्थे पदे उत्क्रमेण ज्या व्यवस्थिता इति उत्क्रमज्याफलम् क्षयः । तत्र प्रथमपदे एव मन्दकेन्द्रम्, तत् उत्पन्नम् एव फलम् ग्रहमध्ये क्षयः । यदा द्वितीयपदे केन्द्रम् तदा प्रथमपदव्यासार्धज्योत्पन्नम् अशेषफलम् क्षयः, द्वितीयपदोत्क्रमज्याफलम् धनम् । प्रथमद्वितीयपदाभ्याम् तृतीयचतुर्थपदे व्याख्याते ।
अथवा करणलाघवार्थम् एवम् क्रियते ã प्रथमपदे यत् उत्पन्नम् क्रमेण ज्याफलम् क्षयः । द्वितीयपदे यत् उत्पन्नम् पुनर् यत् गतम् राश्यादिकम् अतीतम् प्रथमपदसंज्ञितराशित्रयात् क्षयात्मकात् धनात्मकम् तत् द्वितीयपदस्य यत् गतम् तत् विशोध्य शेषम् तत्र क्षयः एव अवतिष्ठते, तेन तत् उत्पन्नम् फलम् मध्यमग्रहे क्षयः । एवम् द्वितीयपदान्ते क्षयधनयोः तुल्यत्वात् न किञ्चित् अवतिष्ठते । तस्मात् सामर्थ्यतः अयम् अर्थः
संजातः ã प्रथमपदे गतज्याफलम् क्षयः, द्वितीयपदे अपि आगतज्याफलम् क्षयः । एतेन मन्दकेन्द्रफलम् मेषादिके क्षयः । तत् एतत् प्रथमपदे गतम् भुजासंज्ञितम् द्वितीयपदे अनागतम् । कोटिसंज्ञितम् [प्रथमपदे अनागतम्] द्वितीयपदे गतम् । तृतीयचतुर्थयोः च । तृतीयपदे क्रमज्याफलम् धनम् । चतुर्थपदे तृतीयपदराशित्रयात् धनात् धनसंज्ञितात् चतुर्थपदराश्यादिगतक्षयसंज्ञितम् विशोध्यते, शेषम् धनम् एव अवतिष्ठते । एवम्
चतुर्थपदान्ते धनक्षययोः तुल्यत्वात् न किंचित् अवशिष्यते । तस्मात् अत्र अपि स एव अर्थः तुलादिकेन्द्रे भुजाफलम् धनम् इति ।
सुष्ठु खलु एतत् अवगम्यते । यदि पदेषु सर्वेषु तुल्याः परिधयः तदा एवम् स्यात् । न च तुल्याः परिधयः पठ्यन्ते । अतुल्येषु च परिधिषु प्रतिमण्डलस्य च अपि अवस्था विरुध्यते । कुतः? प्रथमपदे शुक्रस्य चतुष्कः परिधिः । तत्र द्वितीयपदप्राप्तौ एव द्विकः परिधिः । तत्र अर्धपहलम् परिहीयते । ग्रहः तु गच्छन् क्रमेण गच्छति, न हरिणप्लुतेन । न एष दोषः । तुल्याः परिधयः । ननु च उक्तम् ã न च तुल्याः परिधयः पठ्यन्ते
इति । न एतत् अस्ति । एवम् विज्ञायते ã एते परिधयः उपचया[पचया]त्मकाः, यतः तेन तुल्योपचयापचयात्मकत्वात् क्रमोत्क्रमव्यवस्थायाः, यतः ते एव भवन्ति इति । तेन तुल्याः उच्यन्ते । तत् यथा ã प्रथमपदे क्रमज्याम् परिध्यन्तरेण हत्वा व्यासार्धेन लब्धम् ऊने विषमपदपरिधौ प्रक्षिप्यते, अधिके अपनीयते । प्रथमद्वितीयपदाभ्याम् तृतीयचतुर्थपदे व्याख्याते ।
व्यत्ययेन शीघ्रोच्चात् । शीघ्रोच्चकेन्द्रात् पदवशात् क्रमोत्क्रमज्याफलम् विपरीतम् । प्रथमचतुर्थयोः पदयोः धनम्, द्वितीयतृतीययोः क्षयः इति विपर्ययः । अथवा भुजाफलम् शीघ्रक्रमेण आनीतम् मेषादौ धनम्, तुलादावृणम् । परिधिचालनाद्यशेषम् पूर्ववत् एव । अत्र शीघ्रफलम् व्यासार्धेन संगुणय्य तत् उत्पन्नक्रर्णेन भागलब्धम् फलम् धनम् ऋणम् वा । एतत् च कर्म त्रैराशिकम् ã यदि व्यासार्धमण्डले इदम् फलम्
लभ्यते, तदा शीघ्रोच्चकर्णमण्डले कियत् इति व्यस्तत्रैराशिकेन व्यासार्धम् गुणकारः, कर्णः भागहारः । अत्र किम् इति व्यस्तत्रैराशिकम्? उच्यते ã "अल्पे हि मण्डले अल्पाः महति महान्तः च राशयः ज्ञेयाः" [कालक्रियाí, 14] इति अनेन । अथ मन्दोच्चफलम् एवम् कस्मात् न क्रियते? उच्यते ã क्रियमाणे अपि तावत् एव तत् फलम् भवति इति न क्रियते । कुतः? मन्दोच्चकर्णः अविशिष्यते । तत्र च अविशेषितेन फलेन व्यासार्धम् संगुणय्य कर्णेन भागे हृते पूर्वम्
आनीतम् एव फलम् भवति इति । अथ किम् इति शीघ्रोच्चकर्णः न अविशिष्यते? अभावात् अविशेषकर्मणः ।
अथ अत्र इदम् प्रष्टव्यम् ã कक्ष्यामण्डलस्य यथा स्वयोजनकर्णः व्यासार्धः, तत् च स्वलिप्ताभिः मीयमानः वस्वग्निवेदरामाः [3438], प्रतिमण्डलस्य अपि एतत् एव व्यासार्धम् इति एतत् । कक्ष्यामण्डलोत्पन्नज्याफललिप्ताभिः त्रैराशिकाभावः, कक्ष्याप्रतिमण्डलयोः तुल्यव्यासार्धत्वात् । अथ मन्यते ã तत्कालोत्पन्नभुजाकोटिनिष्पन्नकर्णः व्यासार्धम् प्रतिमण्डलस्य । तेन त्रैराशिकोपपत्तिः । एवम् तर्हि न कक्ष्यामण्डलतुल्यम् प्रतिमण्डलम्
इति । अत्र उच्यते ã चतुर्थपदादौ कक्ष्याप्रतिमण्डले तुल्ये । तेन कक्ष्याप्रतिमण्डलयोः तुल्यम् व्यासार्धम् । ततः प्रभृति प्रतिमण्डलव्यासार्धम् [क्रमेण उपचीयते] । एवम् क्रमेण उपचीयमानम् उच्चतुल्यग्रहे स्वोच्चवृत्तविष्कम्भार्धम् उपचितम् भवति । तत् एव प्रथमपदादौ प्रभृति उत्क्रमेण अपचीयमानम् प्रथमपदान्ते व्यासार्धम् एव भवति । एवम् क्रमेण अपचीयमानम् द्वितीयपदान्ते उच्चवृत्तविष्कम्भार्धम् अपचितम् भवति । तृतीये
[पदान्ते] च उत्क्रमेण उपचीयमानम् इति एतत् कक्ष्यामण्डलव्यासार्धम् एव । ग्रहस्य उच्चनीचगतिक्रमात् उपचयापचयात्मकम् भवति इति अतः प्रतिमण्डलस्य उपदेशः । घनभूमध्यात् एव ग्रहस्य उच्चनीचपरिज्ञानम् इति अतः व्यासार्धम् एव कोटिफलेन उपचीयते अपचीयते वा । अथ यदि प्रतिमण्डलमध्यात् व्यासार्धस्य वृद्धिह्रासौ स्याताम् । तदा तृतीयम् मण्डलम् परिकल्पयितव्यम् स्यात् । घनभूमध्यात् कर्णस्य उपचयापचयौ, तेन तत्कर्णेन
व्यस्तत्रैराशिकोपपत्तिः इति । एतत् गणितन्यायसिद्धम् एव ।

शनिगुरुकुजेषु । शनिः च गुरुः च कुजः च शनिगुरुकुजाः । अतः तेषु शनिगुरुकुजेषु मन्दात् मन्दोच्चात् प्रभृति य[त् फलम् उपपद्यते] तत् अर्धम् ऋणम् धनम् वा भवति । पूर्वे पूर्वकर्मणि, मन्दात् प्रभृति इति । शीघ्रात् अपि च यत् फलम् तत् तेषु अर्धम् क्रियते प्रथमे शीघ्रकर्मणि । अन्यत्र द्वितीयकर्मणि मन्दशीघ्रयोः सकलफलम् इति अर्थात् अवसीयते । मन्दशीघ्रफलानि काष्ठानि ऋणम् धनम् वा परिकल्प्यते । यतः काष्ठेन ग्रहः
भ्रमति । तत् फलम् क्व ऋणम् क्व वा धनम् इति ã शनिगुरुकुजेषु । अत्र शनिगुरुकुजाः मध्यमाः एव परिगृह्यन्ते । कुतः? मध्यमस्य स्फुटीकरणोपायत्वात् । तदा हि एते स्फुटीभवन्ति ।
यदि एतत् कर्म शनिगुरुकुजेषु मध्यमेषु क्रियते, मन्दोच्चफलार्धेन मध्यमे ऋणधने कृते तस्य ऋणधनीकृतस्य मध्यमत्वम् हीयते । [अतः] शीघ्रोच्चफलचापार्धस्य अविकृतमध्यमे धनर्णे प्राप्नुतःज्। न एतत् अस्ति । मन्दोच्चफलचापार्धधनर्णीकृतः एव भविष्यति । कुतः? "एकदेशविकृतम् अनन्यवत् भवति" इति [अष्टाध्यायी, 4.1.83 पातञ्जलमहाभाष्यम्] एकदेशविकृतः अपि मध्यः एव । यथा देवकत्तः स्वलङ्कृतः अपि स्वम् आख्यानम्
न जहाति, न च कर्णनासावच्छेदेन अपि, एवम् अत्र अपि, द्वे कर्मणी तत्र तत्र एव मध्यमे क्रियेते । अथवा प्रथममध्यमात् मन्दोच्चायातम् फलार्धम् मध्यमोत्पन्नत्वात् मध्यमे क्रियते । यत् पुनर् शीघ्रोच्चायातम् सकृत्संस्कृतात् फलार्धम् तत् सकृत्संस्कृतायातम् एव इति कृत्वा सकृत्संस्कृतः एव क्रियते । तस्मात् द्विकर्मसंसिद्धात् मन्दोच्चफलम् तत् सकलम् एव मध्यमे ग्रहे क्रियते । स स्फुटमध्यमः भवति ।
अथ इदम् प्रष्टव्यम् ã यत् एतत् द्विकर्मसिद्धमन्दोच्चायातम् तत् द्विकर्मसंसिद्धे एव कस्मात् न क्रियते । उच्यते ã " मन्दोच्चात् स्फुटमध्याः" [कालक्रियाí, 23] इति मध्यमे क्रियते । ननु च द्विकर्मसिद्धः अपि मध्यमः एव । कुतः? "एकदेशविकृतम् अनन्यवत् भवति" इति वचनात् । एवम् तर्हि सिद्धे, पुनर् स्फुटमध्यमग्रहणम् कुर्वन् आचार्यः ज्ञापयति अविकृतमध्यः इति । अन्यथा हि स्फुटमध्यमग्रहणम् अतिरिच्यते । तस्मात् द्वितीयफलम्
मन्दोच्चायातम् तत् सकलम् एव मध्यमे ग्रहे क्रियते ।
शीघ्रोच्चात् च स्फुटाः ज्ञेयाः इति । स एवंकृते स्फुटमध्यमः शीघ्रोच्चकर्मणा स्फुटः भवति इति स्फुटमध्यमे शीघ्रोच्चफलधनुः सकलम् क्रियते, स्फुटः भवति ।
ऋणधनयुक्तिप्रदर्शनार्थम् व्यासार्धतुल्येन कर्कटकेन समायामवनौ समवृत्तमण्डलम् आलिख्य मातृपितृरेखाम् कुर्यात् । तत् कक्ष्यामण्डलम् राशिज्यारेखाविरचितम् । तन्मण्डलकेन्द्रात् यावत्यः अभीष्टग्रहान्त्यफललिप्ताः तावति अन्तरे च दक्षिणेन केन्द्रम् कृत्वा व्यासार्धतुल्येन एव कर्कटकेन तथा एव समवृत्तमण्डलम् आलिखेत् । तत् प्रतिमण्डलम् । [कक्ष्या]मण्डलात् यावद्भिः प्रतिमण्डलम् निष्क्रान्तम् तावता व्यासार्धेन
कक्ष्यामण्डलदक्षिणोत्तररेखासंपाते केन्द्रम् कृत्वा उभयत्र वृत्तद्वयम् आलिख्य[ते । ते नीचोच्च]वृत्ते । तयोः यथा कक्ष्यामण्डले राशिज्याविकल्पः तथा करणीयम् । प्रथमचतुर्थयोः पदयोः कक्ष्यामण्डलात् उपरिस्थितत्वात् प्रतिमण्डलस्य व्यासार्धे कोटिसाधनम् प्रक्षिप्य कर्णः कृतः, तावत् प्रमाणम् सूत्रम् [प्रतिमण्डलपरिधिम्] यत्र स्पृशति तत्र स्थाने स्फुटः ग्रहः । कक्ष्यामण्डलज्या च तस्मात् पुरतः इति अर्थः । प्रथमचतुर्थयोः पदयोः
तत् उत्पन्नम् फलम् मध्यमग्रहात् अपचीयते । द्वितीयतृतीययोः पदयोः कक्ष्यामण्डलात् अधोव्यवस्थितत्वात् प्रतिमण्डलस्य, व्यासार्धात् कोटिसाधनम् अपनीय कृतः कर्णः, तावत्प्रमाणम् सूत्रम् कक्ष्यामण्डलमध्यात् प्रतिमण्डलपरिधिम् यत्र स्पृशति तत्र स्फुटः ग्रहः । स च कक्ष्यामण्डलज्याप्रदेशात् पुरतः अवतिष्ठते । तेन तत् उत्पन्नम् फलम् द्वितीयतृतीययोः पदयोः मध्यमग्रहात् उपचीयते ।
शीघ्रोच्चे पुनर् येषाम् क्षयधनधनक्षयाः स्युः मन्दोच्चात् एवम् एव शीघ्रोच्चात् इति अयम् पाठः तेषाम् इयम् ऋणधनोपपत्तिः । येषाम् पुनर् व्यत्ययेन शीघ्रोच्चात् इति अयम् पाठः तेषाम् इयम् एव उपपत्तिः विपरीता । कथम्? प्रतिमण्डले स्फुटः च ग्रहः, मध्यमः च शीघ्रोच्चपरिकल्पनाय कक्ष्यामण्डले । पुनर् केन्द्रज्या तेन प्रथमचतुर्थयोः पदयोः पृष्ठतः स्थितत्वात् मध्यमस्य केन्द्रज्याग्रहस्य आनीयमानस्य केन्द्रज्योत्पन्नम्
फलम् धनम् भवति पुरःस्थितत्वात् केन्द्रज्याग्रहस्य, द्वितीयतृतीययोः पदयोः पृष्ठतः स्थितत्वात् केन्द्रज्याग्रहस्य तत् फलम् अपनीयते । अतः एवम् मन्दशीघ्रयोः परस्परविरुद्धत्वात् उपपत्तेः, आचार्येण परमार्थस्फुटग्रहप्रदेशः भूताराग्रहविवरप्रमाणप्रदेशः दर्शितः । तेन यावत् भूताराग्रहविवरप्रमाणम् सूत्रम् कक्ष्यामण्डलमध्यात् प्रतिमण्डलपरिधिम् पदविभागेन प्रसारितम् यत्र स्पृशति, तत्र स्फुटः ग्रहः ।
अन्ये पुनर् अन्यथा पठन्ति ã शनिगुरुकुजेषु मन्दे अर्धम् ऋणम् धनम् भवति पूर्वम् इति । मन्दे मन्दोच्चे अर्धम् फलस्य ऋणम् धनम्, यदि तत् ग्रहे ऋणम् धनम् तदा तत् मन्दोच्चे धनम् ऋणम् इति अर्थात् अवसीयते । तत्र कियत् तत् फलम् मन्दोच्चे ऋणम् सत् धनम् भवति, धनम् सत् ऋणम् भवति इति उच्यते ã शीघ्रोच्चफलम् यस्मात् मन्दोच्चफलम् च फलद्वयम् एतत् । तयोः मन्दोच्चम् आधारः । फलद्वयम् आधेयः । अतः शीघ्रोच्चफलम्
क्रियते । कर्मचतुष्टयग्रहणात् तत् उत्पन्नम् च फलम् तत्र एव । तत् यथा ã प्राग् एव शीघ्रफलम् आनीय तत् अर्धम् ऋणम् धनम् वा मन्दोच्चे कृत्वा तत् मन्दायातम् च तेन फलद्वयसंस्कृतेन मन्दोच्चेन संस्कृतः स स्फुटमध्यः ग्रहः भवति । स शीघ्रकर्मणा स्फुटः इति प्रक्रियान्तरम् एतत्

43.23

[ प्रकारान्तरेण शनिगुरुकुजस्फुटीकरणम् ]
ग्रहाणाम् स्फुटीकरणप्रकारान्तरम् आह ã
मन्दोच्चात् शीघ्रोच्चात् अर्धम् ऋणम् धनम् ग्रहेषु मन्देषु ।
मन्दोच्चात् स्फुटमध्याः शीघ्रोच्चात् च स्फुटाः ज्ञेयाः

43.23

मन्दोच्चात् यत् फलम् आयातम् तस्य चापार्धम् ऋणम् धनम् वा ग्रहेषु ऋणम् धनम् [मन्देषु वा कर्तव्यम्] । एवम् तर्हि चकारः कर्तव्यः । चकारेण विना ग्रहेषु मन्देषु च इति चार्थः न लभ्यते । न चकारः कर्तव्यः । अन्तरेण अपि चकारम् चार्थः अवगम्यते । [कथम्?] एवम् ã
बाले वृद्धे क्षते क्षीणे क्षीरम् युक्त्या प्रयोजयेत् ।
इति अत्र चकारेण विना चार्थस्य अवगमनात् । एवम् अयम् अपि । "स्व"मन्देषु अपि वक्तव्यम्, येन स्वेषु मध्यमेषु स्वेषु च मन्देषु क्रियते । "स्व"शब्दः अपि न कर्तव्यः । स्वस्य ग्रहस्य यः मध्यमः स्वस्य च यत् मन्दम् तत्र एव कर्मसिद्धेः । यथा "मातरि वक्तव्यम् पितरि शुश्रूषितव्यम्" इति । न च तत्र उच्यते ã "स्वस्याम् मातरि स्वस्मिन् वा पितरि" इति । एवम् अत्र अपि इति ।
अथ यत् एतत् मन्दोच्चायातम् फलार्धम् तत् क्षयधनक्रमेण मध्ये ग्रहे धनम् ऋणम् वा क्रियते । मन्दे पुनर् कथम् क्रियते, मन्दस्य ऋणधनक्रमस्य अनभिधानात्? उच्यते ã मन्दोच्चम् सर्वदा एव ग्रहस्य ऋणभूतम् । तत्र यत् ग्रहस्य ऋणम् तत् मन्दोच्चे प्रक्षिप्यते, ऋणभूतत्वात् । यत् ग्रहे धनभूतम् तत् मन्दोच्चात् अपनीयते, मन्दोच्चस्य ऋणभूतत्वात् एव । अयम् च गणितन्यायः ã
ऋण[ऋणयोः धन]धनयोः संक्षेपः ऋणधनयोः च विशेषः ।
इति । तस्मात् अनेन क्रमेण मन्दोच्चे फलार्धस्य उपचयापचयौ भवतः । शीघ्रोच्चात् च यत् फलार्धम् तत् अपि एवम् एव ग्रहवैपरीत्येन मन्दे धनम् ऋणम् वा क्रियते । ग्रहेषु पुनर् प्रयोजनाभावात् न क्रियते ।
मन्दोच्चात् । मन्दोच्चशीघ्रोच्चफलार्धेन संस्कृतम् मन्दोच्चम् परिगृह्यते । कुतः? कर्मद्वयवृत्तौ मन्दनिर्देशात् । तेन तादृग्विधेन मन्देन मध्यमात् विशोधितेन यत् फलम् आयातम् तत् सकलम् मध्येषु ऋणम् धनम् वा क्रियते । स्फुटमध्याः । [मध्यमस्य] स्फुटस्य अन्तर्वर्तित्वात् [स्फुटाः ये न, न अविकृतेषु] मध्यमेषु फलस्य करणात् मध्यमाःज्। अथवा स्फुटस्य मध्यमाः स्फुटमध्यमाः । एकेन कर्मणा निष्पन्ना येन
द्वितीयम् कर्मान्तरम् अपेक्षन्ते । शीघ्रोच्चात् च स्फुटाः ज्ञेयाः । शीघ्रोच्चात् आयातम् फलम् तेन संस्कृताः स्फुटाः । चकारः फलयोः समुच्चयम् अभिधत्ते । ज्ञेयाः अवगन्तव्याः बोद्धव्याः इति यावत्

43.24

[ भृगुबुधयोः स्फुटीकरणम् ]
भृगुबुधयोः कर्म आह ã
शीघ्रोच्चात् अर्धोनम् कर्तव्यम् ऋणम् धनम् स्वमन्दोच्चे ।
स्फुटमध्यौ तु भृगुबुधौ सिद्धात् मन्दात् स्फुटौ भवतः

43.24

शीघ्रोच्चात् इति प्राक् शीघ्रोच्चनिष्पन्नम् फलम् गृह्यते । तत् एव शीघ्रोच्चफलम् अग्रे । तत्र तत् अर्धोनम् अर्धम् इति अर्थः । ऋणधनम् कर्तव्यम् । यदि ग्रहे ऋणम् तदा धनम् कर्तव्यम् । धनस्य ऋणम् कर्तव्यम् इति अर्थात् अवसीयते । क्व इति आह ã स्वमन्दोच्चे । स्वकीयम् मन्दोच्चम् स्वमन्दोच्चम्, तस्मिन् स्वमन्दोच्चे । स्फुटमध्यौ भृगुबुधौ भवतः । कथम्? सिद्धात् मन्दात् । यत् एव शीघ्रोच्चफलार्धेन संस्कृतम् मन्दोच्चम् तत् सिद्धम्
इति अभिधीयते । तस्मात् सिद्धात् मन्दात् स्फुटमध्यौ भवतः । एतत् उक्तम् भवति ã यत् एत[त् सिद्धमन्दम् तत् मध्यम]ग्रहात् विशोध्य शेषफलस्य च ऋणधनेन तयोः भृगुबुधयोः मध्यौ स्फुटमध्यौ भवतः । "तु"-शब्दात् "शीघ्रोच्चात् च स्फुटाः ज्ञेयाः" [कालक्रियाí, 23] इति एतत् क्रियते

43.25

[ भूताराग्रहान्तरालम् ]
[भूताराग्रहा]न्तरालप्रमाणानयनाय आह ã
भूताराग्रहविवरम् व्यासार्धहृतः स्वकर्णसंवर्गः ।
कक्ष्यायाम् ग्रहवेगः यः भवति स मन्दनीचोच्चे

43.25

ताराग्रहाणाम् भुवः च यत् अन्तरम् तस्य आनयनोपायः उच्यते । भूताराग्रहविवरम् भुवः ताराग्रहस्य च यत् अन्तरम् तत् भूताराग्रहविवरम् भवति इति वक्ष्यति । व्यासार्धहृतः स्वकर्णसंवर्गः । व्यासार्धम् त्रिज्या । त्रिज्यया हृतः व्यासार्धहृतः । स्वकर्णयोः संवर्गः स्वकर्णसंवर्गः । एतत् उक्तम् भवति ã मन्दोच्चकर्णस्य शीघ्रोच्चकर्णस्य च यः घातः सः स्वकर्णसंवर्गः व्यासार्धहृतः । कक्ष्यायाम् ग्रहवेगः । तावत् उच्छ्रितायाम्
[कक्ष्यायाम्] ग्रहस्य यः मन्दशीघ्रोच्चफलजनितः वेगः स तस्य भूताराग्रहविवरस्य अग्रे भवति इति । अतः एव भूताराग्रहविवरम् विक्षेपानयने भागहारः ।
अपरे आहुः ã न भूताराग्रहविवरम् भागहारः । कः तर्हि? व्यासार्धम् । यस्मात् एतत् अत्र त्रैराशिकम् ã यदि त्रिज्यया स्वग्रहाभिहितविक्षेपः लभ्यते, अनया अभीष्टग्रहस्वपातविवरान्तरालांशज्यया भुजज्यया किम् इति । न एतत् सम्यक् अवसीयते । यदि इदम् एव त्रैराशिकम् स्यात्, तदा नक्षत्रताराग्रहशशियोगाः सर्वदा तस्याम् एव दिशि तुल्यविक्षेपविवराः स्युः, नक्षत्रताराणाम् उच्चनीचगत्यसम्भवात् । दृश्यन्ते च अमी ग्रहनक्षत्राणाम् दूरासन्न[वशात्]
भेदांशुमर्दनसव्यापसव्ययोगगत[यः । यदि व्यासार्ध]म् एव भागहारः स्यात् तदा सर्वे एव तुल्यगतयः स्युः । भूताराग्रहविवरम् । भूताराग्रहविवरवशात् विक्षेपः अल्पः महान् च नक्षत्रताराग्रहयोगेषु लभ्यते । [अल्पे वा] महद्विक्षेपे दक्षिणोत्तरदिग्वशात् नियतविक्षेपान्तरदिशः योगाः उपपद्यन्ते । तस्मात् भूताराग्रहविवरम् एव भागहारः । एतत् अपि कर्म त्रैराशिकद्वयम् । कथम्? यदि व्यासार्धतुल्यया पातान्तरभुजज्यया यथास्वम् विक्षेपः
अल्पः महान् च लभ्यते, तदा अन[या भुज]ज्यया पातान्तरोत्पन्नया कः इति विक्षेपः लभ्यते । [अतः] पुनर् अपि व्यस्तत्रैराशिकम् ã यदि अयम् विक्षेपः कक्ष्यामण्डले व्यासार्धविष्कम्भे लभ्यते, तदा परमार्थप्रतिमण्डले भूताराग्रहविवरविष्कम्भार्धे कियान् इति । पूर्वत्रैराशिके व्यासार्धम् भागहारः आसीत्, तत् एव द्वितीयत्रैराशिके व्यस्तत्वात् गुणकारः । अतः गुणकारभागहारयोः नष्टयोः, पातान्तरभुजज्यायाः विक्षेपः गुणकारः, भूताराग्रहविवरम्
भागहारः, फलम् इष्टग्रहस्य विक्षेपः । एवम् इष्टग्रहयोः विक्षेपावभिन्नदिक्कौ विशिष्यते, यस्मात् अपक्रममण्डलात् तौ प्रवृत्तौ । ततः तद्विशेषतुल्यम् तयोः अन्तरम् भवति, तत्र अपि तयोः ऊनाधिकविक्षेपवशात् परस्परापेक्षया [तयोः याम्योत्तरदिक्त्वम्] । भिन्नदिक्कौ विक्षेपौ योज्यते । यस्मात् एकः अपक्रममण्डलात् दक्षिणेन अपरः उत्तरेण, तस्मात् तदन्तरम् [विक्षेपयोग]प्रमाणम् भवति । विक्षेपलिप्तान्तरचतुर्भागः अङ्गुलप्रमाणम् वाच्यम्
। यदा पुनर् अन्तरलिप्ताः न स्युः, अल्पाः वा [स्युः] तदा तयोः अन्योन्याशेषात् छादनम् एकदेशात् छादनम् वा [भवति] । तत्र ग्रहणवत् इष्टग्रहसंपर्कार्धतद्विक्षेप[विश्लेषेण योगेन वा] स्थित्यर्धनाडिकानयनम् ।
[ ताराग्रहाणाम् स्फुटयोजनकर्णानयनम् ]
अथ नक्षत्रताराग्रहयोगेषु नतिलम्बनपरिज्ञानार्थम् इदम् कर्म क्रियते । "शशिङञणनमांशकाः" [गीतिकाí, 7] इति अत्र शशियोजनकर्णः ङादिभिः गुणितः शुक्रादीनाम् भागहाराः भवन्ति इति व्याख्यातम् । तेन शशियोजनकर्णः पञ्चभिः गुणितः शुक्रस्य योजनकर्णः भवति दशभिः गुरोः, पञ्चदशभिः बुधस्य, विंशत्या शनेः, पञ्चविंशत्या अङ्गारकस्य । यदि एवम् तर्हि ग्रहाणाम् कक्ष्याभिधानम् विरुध्यते । न एषः दोषः । तावत् कक्ष्यास्थाः
एव ग्रहाः, अत्र पुनर् ङादिगुणकारैः दृष्टिपरिकर्म क्रियते इति । अयम् योजनकर्णः भूताराग्रहविवरगुणितः व्यासार्धहृतः स्फुटः भवति । एतत् अपि त्रैराशिकम् ã यदि व्यासार्धलिप्ताभिः एतावन्ति योजनानि लभ्यन्ते भूताराग्रहविवरलिप्ताभिः कियन्ति इति, अथवा त्रैराशिकद्वयैकीकरणेन अभीष्टग्रहस्फुटयोजनकर्णः आनीयते । कथम्? भूताराग्रहविवरानयने व्यासार्धम् भागहारः आसीत्, इह च भूताराग्रहविवरस्वमध्यमयोजनकर्णाभ्यासस्य
व्यासार्धम् एव भागहारः । अतः भागहारयोः संवर्गः मन्दोच्चशीघ्रोच्चकर्णस्वमध्यमयोजनकर्णाभ्यासस्य भागहारः । फलम् स्फुटयोजनकर्णः । तयोः अयम् अर्थः सञ्जातः ã मन्दशीघ्र[कर्ण]गुणितः मध्यमयोजनकर्णः व्यासार्धकृतिविभक्तः स्फुटयोजनकर्णः भवति । मन्दनीचोच्चे मन्दस्य मन्दोच्चस्य उच्चे नीचे च आनीतः मन्दकर्णः एव अनेन विधिना स्फुटीकृतः इति ।
[ ग्रहस्फुटीकरणे विशेषः ]
अथ विवस्वद्धनर्णोदयास्तमयवशात् सामान्यसर्वग्रहाणाम् स्फुटगणितविधिविशेषः अभिधास्यते । तत् यथा ã सवितुः भुजाफलेन रव्यादिभुक्तयः गुणिताः खखषड्घनेन विभज्य आप्तकला ग्रहेषु भुजाफलधनर्णवशात् क्रियते । तत् विचार्यते ã इदम् कर्म अनुपदिष्टम् कथम् अवगम्यते? न एषः दोषः । उपदिष्टम् एव एतत् ã "बुधाह्न्यजार्कोदयात् च लङ्कायाम्" [गीतिकाí, 4] इति । अर्कोदयावधेः गतेः एतेषाम् प्रतिपच्छेदौ इति उपदेशात्
अर्कः हि स्फुटगणितावगतगतेः एव उदयशिखरमध्यास्ते इति स्फुटस्य अर्कस्य उदयः परिगृह्यते । स्फुटगतिः च मध्यमा एव स्वभुजाफलादिलिप्ताभिः उपचितापचिता वा इति अतः भुजाफललिप्ताभिः प्राणतुल्याभिः त्रैराशिकम् क्रियते ã यदि अहोरात्रप्राणैः खखषड्घनतुल्यैः विवस्वदादिस्फुटभुक्तयः लभ्यन्ते, भुजाफललिप्ताभिः प्राणतुल्याभिः किम् इति । आसाम् भुजाफललिप्तानाम् प्राणतुल्यत्वम् इति । अत्र उच्यते ã रव्युदयात् एव ज्योतिश्चक्रादेः अपि
उदयादिः इति व्याख्यातम् । तेन प्रवहाक्षेपात् मध्यमः सर्वदा स्वभुजाफलेन अधिकः ऊनः वा भवति । यदा अधिकः तदा ज्योतिश्चक्रम् भुजाफललिप्तातुल्यम् रविगत्या जीयते, [ऊनः चेत् भुजाफललिप्तातुल्यम् रविगत्या अपचीयते] इति । अनया परिकल्पनया ज्योतिश्चक्रसम्बन्धिन्यः तदा भुजाफललिप्ताः भवन्ति, ज्योतिश्चक्रलिप्ताः प्राणाः च तुल्याः इति । अतः तासाम् प्रा[णतुल्यभुजाफललिप्तानाम् अभावः, अहर्गणात् आग]तः [सकलः सूर्यः] यदा स्वोच्चतुल्यः तदा
एव उदये भवति इति । अन्यथा तत्र अपि भुजान्तरफलम् क्रियते एव । अर्कः हि स्फुटगणि[तावगतेः एव उदय]शिखरमध्यास्ते इति ।
एवम् एतेषाम् विवस्वदादीनाम् ग्रहाणाम् स्फुटगतयः सूर्योदयावधेः भवन्ति इति अतः रवि[वशात् एव उपचयापच]यात्मकम् फलम् क्रियते । देशान्तरचरदलकर्मणी च अनया एव उपपत्त्या । अर्धरात्रास्तमयदिनमध्यसंस्थितसूर्या[त् त्रैराशिकम्] ã यदि षष्ट्या नाडीभिः यथास्वम् मध्यमा भुक्तिः लभ्यते तदा पञ्चदशभिः घटिकाभिः त्रिंशता पञ्चचत्वारिंशद्भिः च किम् इति [फललि]प्ताः औदयिकेभ्यः ग्रहेभ्यः विशोध्यन्ते, ततः तेन

रव्यादयः तात्कालिकाः भवन्ति । तेषाम् च स्फुटप्रक्रिया पूर्वाभिहिता एव । [दिनमध्यार्धरात्रयोः चर]दलकर्म न प्रवर्तते । क्षितिजमण्डलप्राप्त्यतिक्रान्ती रव्युदयास्तमययोः एव इति । एवम् आदित्यगत्यवधयः ग्रहाः ।
यदा पुनर् पर[स्य ग्रहस्य रवेः इव] कल्प्यन्ते तदा चन्द्रोद[यज्ञा]नेन उदयकालम् एव अवगत्य तदुदयकालावधयः क्रियन्ते ।
[तिथिप्रतिपच्छेदपरिज्ञानम् ]
एवम् यथोपदिष्टगणितप्रक्रिय[या तिथि]प्रतिपच्छेदपरिज्ञानाय उच्यते । तत् यथा ã स्फुटशशिनः स्फुटः रविः अपनीयते, यस्मात् तिथिः शशिमासवशात् भवति तेन "रविशशियोगाः भवन्ति [शशिमासाः" [कालक्रियाí, 5] इति स्फुटविधो]रिनः अपनीयते । यथासम्भवम् अत्र भगणः न सम्भवति इति राश्यादयः एव राश्यादिभ्यः अपनीयन्ते । अथवा क[ल्पादितः ये रविघगणाः] भुक्ताः ते शशिभगणेभ्यः विशोध्यन्ते, राश्यादिभ्यः राश्यादयः इति । तत्र
अवशिष्टाः शशिमासादयः भवन्ति । [मासानाम् प्रयोजनाभावः इ]ति मासाः त्यज्यन्ते ।
तत्र ये अवशिष्टाः राश्यादयः वर्तमानशशिमासस्य अवयवभूताः तैः लिप्तीकृतैः त्रैराशि[कम् ã यदि खखषड्घन]तुल्येन सूर्याचन्द्रमसोः विशेषेण शशिमासः लभ्यते तदा आभिः चन्द्रादित्यविशेषलिप्ताभिः कियच्छशिमास्[आः इति सम्पूर्ण]मासम् न प्रयच्छति इति दिवसाः क्रियन्ते । "त्रिंशद्दिवसः भवेत् स मासः" [कालक्रियाí, 1] इति त्रिंशत्कः गुणकारः । तत्र गुणकारभागहारयोः अपवर्तने [त्रिंशतः त्रिंशद्भागेन एकम्] खखषड्घनस्य
तावद्भागेन सप्तशतानि विंशत्यधिकानि । सप्तशत्या विंशत्युत्तरया रविचन्द्रविवरलिप्ताः विभज्यन्ते । [फलम् गततिथयः व]र्तमानशशिमासस्य शुक्लप्रतिपत्प्रवृत्ताः, तत्र शेषलिप्ताः वर्तमानतिथेः भुक्ताः, तद्विशुद्धाः भागहारलिप्ताः भोज्याः इति । अतः ताभिः भुक्तभोज्यलिप्ताभिः त्रैराशिकम् ã यदि तत् अहः सूर्याचन्द्रमसोः स्फुटभुक्त्यन्तरलिप्ताभिः एकः शशिदिवसः लभ्यते ततः आभिः भुक्तभोज्यलिप्ताभिः कियान् शशिदिवसस्य लभ्यते इति, तत्र
दिवसेषु भागम् न प्रयच्छन्ति इति नाड्यः क्रियन्ते । "षष्टिः नाड्यः दिवसः" [कालक्रियाí, 1] इति षष्ट्या सङ्गुणय्य स्फुटभुक्त्यन्तरलिप्ताभिः भागलब्धाः भुक्तभोज्याः तिथेः नाड्यः सूर्योदयावधेः गताः गन्तव्याः वा भवन्ति इति ।
[ सूर्याचन्द्रमसोः समलिप्तीकरणम् ]
इष्टकालावधेः वा पर्वणि समलिप्ताविधानम् । गतगन्तव्यताम् पर्वणः विधाय गतगन्तव्यलिप्ताभिः त्रैराशिकम् । तत् यथा ã यदि सूर्याचन्द्रमसोः तद्दिनस्फुटभुक्त्यन्तरलिप्ताभिः सूर्याचन्द्रमसोः स्फुटभुक्तिः यथास्वम् लभ्यते ततः आभिः गतगन्तव्यतिथिलिप्ताभिः कियत्यः स्फुटभुक्तिलिप्ताः इति लब्धाः लिप्ताः रवौ गन्तव्यपर्वणि प्रक्षिप्यन्ते, शशिनि च । अथ गतपर्वणि तयोः एव यथास्वम् त्रैराशिकायातलिप्ताः विशोध्यन्ते । एवम्
गन्तव्यगतपर्वणः पर्यवसानकालिकौ समलिप्तौ भवतः इति गणितपादे अपि अस्माभिः "भुक्तेः विलोमविवरे" [गणितí, 31] इति अस्याम् आर्यायाम् संक्षेपतः अभिहितम् इति कृत्वा इह तु विस्तरेण प्रदर्शितम् ।
[ चन्द्रनक्षत्रप्रतिपच्छेदपरिज्ञानम् ]
चन्द्रयुक्तेन नक्षत्रेण व्यवहारः इति प्रत्यहम् चन्द्रयुक्तनक्षत्रप्रतिपच्छेद [परिज्ञानम्] क्रियते । तत् यथा ã शशिलिप्ताभिः त्रैराशिकम् ã यदि मण्डललिप्ताभिः खखषड्घनतुल्याभिः सप्तविंशतिः नक्षत्राणि लभ्यन्ते ततः [आभिः चन्द्रगतलिप्ताभिः किम् इति । अत्र गुणकारभागहारयोः अप]वर्तनम् क्रियते । सप्तविंशतेः सप्तविंशतिभागेन एकम् खखषड्घनस्य अपि तावत्भागेन अष्टौ [शतानि, अतः शशिलिप्ता]नाम् अष्टाभिः शतैः भागे
नक्षत्राणाम् अश्विन्यादीनाम् [यानि गतानि तेषाम् संख्या] लभ्यते । शेषे गतगन्तव्यम् कृत्वा वर्तमानस्य नक्षत्रस्य गतगन्तव्याः नाड्यः साध्यन्ते । कथम्? यदि स्फुटभुक्त्या षष्टिः नाड्यः लभ्यन्ते, आभिः गतगन्तव्यलिप्ताभिः कियत्यः इति गतगन्तव्यनाड्यः लभ्यन्ते । शशिभुक्तेः अहोरात्रकालावधिनिष्पन्नत्वात्, अहोरात्रस्य च प्रमाणम् षष्टिः नाड्यः इति षष्ट्या त्रैराशिकम् क्रियते

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc