भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 15.1

15.1.01

मनुष्याणां वृत्तिर् अर्थः, मनुष्यवती भूमिर् इत्य् अर्थः ॥

15.1.02

तस्याः पृथिव्या लाभ.पालन.उपायः शास्त्रम् अर्थ.शास्त्रम् इति ॥

15.1.03

तद्.द्वात्रिंशद् युक्ति.युक्तं - अधिकरणम्, विधानम्, योगः, पद.अर्थः, हेत्व्.अर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानम्, अर्थ.आपत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वाक्य.शेषः, अनुमतम्, व्याख्यानम्, निर्वचनम्, निदर्शनम्, अपवर्गः, स्व.संज्ञा, पूर्व.पक्षः, उत्तर.पक्षः, एक.अन्तः, अनागत.अवेक्षणम्,
अतिक्रान्त.अवेक्षणम्, नियोगः, विकल्पः, समुच्चयः ऊह्यम् इति ॥

15.1.04

यम् अर्थम् अधिकृत्य^उच्यते तद् अधिकरणम् ॥

15.1.05

"पृथिव्या लाभे पालने च यावन्त्य् अर्थ.शास्त्राणि पूर्व.आचार्यैः प्रस्थापितानि प्रायशस् तानि संहृत्य^एकम् इदम् अर्थ.शास्त्रं कृतम्" इति ॥

15.1.06

शास्त्रस्य प्रकरण.अनुपूर्वी विधानम् ॥

15.1.07

"विद्या.समुद्देशः, वृद्ध.सम्योगः, इन्द्रिय.जयः, अमात्य.उत्पत्तिः" इत्य् एवं.आदिकम् इति ॥

15.1.08

वाक्य.योजना योगः ॥

15.1.09

"चतुर्.वर्ण.आश्रमो लोकः" इति ॥

15.1.10

पद.अवधिकः पद.अर्थः ॥

15.1.11

मूल.हर इति पदम् ॥

15.1.12

"यः पितृ.पैतामहम् अर्थम् अन्यायेन भक्षयति स मूल.हरः" इत्य् अर्थः ॥

15.1.13

हेतुर् अर्थ.साधको हेत्व्.अर्थः ॥

15.1.14

"अर्थ.मूलौ हि धर्म.कामौ" इति ॥

15.1.15

समास.वाक्यम् उद्देशः ॥

15.1.16

"विद्या.विनय.हेतुर् इन्द्रिय.जयः" इति ॥

15.1.17

व्यास.वाक्यं निर्देशः ॥

15.1.18

"कर्ण.त्वग्.अक्षि.जिह्वा.घ्राण.इन्द्रियाणां शब्द.स्पर्श.रूप.रस.गन्धेष्व् अविप्रतिपत्तिर् इन्द्रिय.जयः"इति ॥

15.1.19

एवं वर्तितव्यम् इत्य् उपदेशः ॥

15.1.20

"धर्म.अर्थ.विरोधेन कामं सेवेत, न निह्सुखः स्यात्" इति ॥

15.1.21

एवम् असाव् आह^इत्य् अपदेशः ॥

15.1.22

"मन्त्रि.परिषदं द्वादश.अमात्यान् कुर्वीत^इति मानवाः - षोडश^इति बार्हस्पत्याः - विंशतिम् इत्य् औशनसाः - यथा.सामर्थ्यम् इति कौटिल्यः" इति ॥

15.1.23

उक्तेन साधनम् अतिदेशः ॥

15.1.24

"दत्तस्य^अप्रदानम् ऋण.आदानेन व्याख्यातम्" इति ॥

15.1.25

वक्तव्येन साधनं प्रदेशः ॥

15.1.26

"साम.दान.भेद.दण्डैर् वा, यथा^आपत्सु व्याख्यास्यामः" इति ॥

15.1.27

दृष्टेन^अदृष्टस्य साधनम् उपमानम् ॥

15.1.28

"निवृत्त.परिहारान् पिता^इव^अनुगृह्णीयात्" इति ॥

15.1.29

यद् अनुक्तम् अर्थाद् आपद्यते सा^अर्थ.आपत्तिः ॥

15.1.30

"लोक.यात्राविद् राजानम् आत्म.द्रव्य.प्रकृति.सम्पन्नं प्रिय.हित.द्वारेण^आश्रयेत"

15.1.31

"न^अप्रिय.हित.द्वारेण^आश्रयेत" इत्य् अर्थाद् आपन्नं भवति^इति ॥

15.1.32

उभयतो.हेतुमान् अर्थः संशयः ॥

15.1.33

"क्षीण.लुब्ध.प्रकृतिम् अपचरित.प्रकृतिं वा" इति ॥

15.1.34

प्रकरण.अन्तरेण समानो^अर्थः प्रसङ्गः ॥

15.1.35

"कृषि.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण" इति ॥

15.1.36

प्रतिलोमेन साधनं विपर्ययः ॥

15.1.37

"विपरीतम् अतुष्टस्य" इति ॥

15.1.38

येन वाक्यं समाप्यते स वाक्य.शेषः ॥

15.1.39

"छिन्न.पक्षस्य^इव राज्ञश् चेष्टा.नाशश् च" इति ॥

15.1.40

तत्र "शकुनेः" इति वाक्य.शेषः ॥

15.1.41

पर.वाक्यम् अप्रतिषिद्धम् अनुमतम् ॥

15.1.42

"पक्षाव् उरस्यं प्रतिग्रह इत्य् औशनसो व्यूह.विभागः" इति ॥

15.1.43

अतिशय.वर्णना व्याख्यानम् ॥

15.1.44

"विशेषतश् च संघानां संघ.धर्मिणां च राज.कुलानां द्यूत.निमित्तो भेदस् तन्.निमित्तो विनाश इत्य् असत्.प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र.दौर्बल्यात्" इति ॥

15.1.45

गुणतः शब्द.निष्पत्तिर् निर्वचनम् ॥

15.1.46

"व्यस्यत्य् एनं श्रेयस इति व्यसनम्" इति ॥

15.1.47

दृष्ट.अन्तो दृष्ट.अन्त.युक्तो निदर्शनम् ॥

15.1.48

"विगृहीतो हि ज्यायसा हस्तिना पाद.युद्धम् इव.अभ्युपैति" इति ॥

15.1.49

अभिप्लुत.व्यपकर्षणम् अपवर्गः ॥

15.1.50

"नित्यम् आसन्नम् अरि.बलं वासयेद् अन्यत्र^अभ्यन्तर.कोप.शङ्कायाः" इति ॥

15.1.51

परैर् असमितः शब्दः स्व.संज्ञा ॥

15.1.52

"प्रथमा प्रकृतिः, तस्य भूम्य्.अनन्तरा द्वितीया, भूम्य्.एक.अन्तरा तृतीया" इति ॥

15.1.53

प्रतिषेद्धव्यं वाक्यं पूर्व.पक्षः ॥

15.1.54

"स्वाम्य्.अमात्य.व्यसनयोर् अमात्य.व्यसनं गरीयः" इति ॥

15.1.55

तस्य निर्णयन.वाक्यम् उत्तर.पक्षः ॥

15.1.56

"तद्.आयत्तत्वात्, तत्.कूट.स्थानीयो हि स्वामी" इति ॥

15.1.57

सर्वत्र.आयत्तम् एक.अन्तः ॥

15.1.58

"तस्माद् उत्थानम् आत्मनः कुर्वीत" इति ॥

15.1.59

पश्चाद् एवं विहितम् इत्य् अनागत.अवेक्षणम् ॥

15.1.60

"तुला.प्रतिमानं पौतव.अध्यक्षे वक्ष्यामः" इति ॥

15.1.61

पुरस्ताद् एवं विहितम् इत्य् अतिक्रान्त.अवेष्कणम् ॥

15.1.62

"अमात्य.सम्पद् उक्ता पुरस्तात्" इति ॥

15.1.63

एवं न^अन्यथा^इति नियोगः ॥

15.1.64

"तस्माद् धर्म्यम् अर्थ्यं च^अस्य^उपदिशेत्, न^अधर्म्यम् अनर्थय्म् च" इति ॥

15.1.65

अनेन वा^अनेन वा^इति विकल्पः ॥

15.1.66

"दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः" इति ॥

15.1.67

अनेन च^अनेन च^इति समुच्चयः ॥

15.1.68

"स्वयंजातः पितुर् बन्धूनां च दायादः" इति ॥

15.1.69

अनुक्त.करणम् ऊह्यम् ॥

15.1.70

"यथा च दाता प्रतिग्रहीता च न^उपहतौ स्यातां तथा^अनुशयं कुशलाः कल्पयेयुः" इति
कz15.1.71अब्। एवं शास्त्रम् इदं युक्तम् एताभिस् तन्त्र.युक्तिभिः ।
कz15.1.71च्द्। अवाप्तौ पालने च^उक्तं लोकस्य^अस्य परस्य च ॥
कz15.1.72अब्। धर्मम् अर्थं च कामं च प्रवर्तयति पाति च ।
कz15.1.72च्द्। अधर्म.अनर्थ.विद्वेषान् इदं शास्त्रं निहन्ति च ॥
कz15.1.73अब्। येन शास्त्रं च शस्त्रं च नन्द.राज.गता च भूः ।
कz15.1.73च्द्। अमर्षेण^उद्धृतान्य् आशु तेन शास्त्रम् इदं कृतम् ॥
एएए =एन्द् ओf थे अर्थशास्त्र=

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc