भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 14.4

14.4.01

स्व.पक्षे पर.प्रयुक्तानां दूषी.विष.गराणां प्रतीकारः ॥

14.4.02

श्लेष्मातक.कपित्थ.दन्ति.दन्त.शठ.गोजि.शिरीष.पाटली.बलास्योनाग.पुनर्.नवा.श्वेत.वारण.क्वाथ.युक्तम्(?) चन्दन.साला.वृकी.लोहित.युक्तं नेजन.उदकं राज.उपभोग्यानां गुह्य.प्रक्षालनं स्त्रीणाम्, सेनायाश् च विष.प्रतीकारः ॥

14.4.03

पृषत.नकुल.नील.कण्ठ.गोधा.पित्त.युक्तं मही.राजी.चूर्णं सिन्दु.वारित.वरण.वारुणी.तण्डुलीयक.शत.पर्व.अग्र.पिण्डीतक.योगो मदन.दोष.हरः ॥

14.4.04

सृगाल.विन्ना.मदन.सिन्दु.वारित.वरण.वारण.वली.मूल.कषायाणाम् अन्यतमस्य समस्तानां वा क्षीर.युक्तं पानं मदन.दोष.हरम् ॥

14.4.05

कैडर्य.पूति.तिल.तैलम् उन्माद.हरं नस्तः.कर्म ॥

14.4.06

प्रियङ्गु.नक्त.माल.योगः कुष्ठ.हरः ॥

14.4.07

कुष्ठ.लोध्र.योगः पाक.शोषघ्नः ॥

14.4.08

कट.फल.द्रवन्ती.विलङ्ग.चूर्णं नस्तः.कर्म शिरो.रोग.हरम् ॥

14.4.09

प्रियङ्गु.मञ्जिष्ठात.गरला.क्षार.समधुक.हरिद्रा.क्षौद्र.योगो रज्जु.उदक.विष.प्रहार.पतन.निह्संज्ञानां पुनः.प्रत्यानयनाय ॥

14.4.10

मनुष्याणाम् अक्ष.मात्रम्, गव.अश्वानां द्वि.गुणम्, चतुर्.गुणं हस्त्य्.उष्ट्राणाम् ॥

14.4.11

रुक्म.गर्भश् च^एषां मणिः सर्व.विष.हरः ॥

14.4.12

जीवन्ती.श्वेता.मुष्कक.पुष्प.वन्दाकानाम् अक्षीवे जातस्य^अश्वत्थस्य मणिः सर्व.विष.हरः ॥
कz14.4.13अब्। तूर्याणां तैः प्रलिप्तानां शब्दो विष.विनाशनः ।
कz14.4.13च्द्। लिप्त.ध्वजं पताकां वा दृष्ट्वा भवति निर्विषः ॥
कz14.4.14अब्। एतैः कृत्वा प्रतीकारं स्व.सैन्यानाम् अथ^आत्मनः ।
कz14.4.14च्द्। अमित्रेषु प्रयुञ्जीत विष.धूम.अम्बु.दूषणान् ॥ए
(तन्त्र.युक्तयह्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc