अर्थशास्त्र · अध्याय 14.3
मार्जार.उष्ट्र.वृक.वराह.श्व.अवि.द्वागुली.नप्तृ.काक.उलूकानाम् अन्येषां वा निशा.चराणां सत्त्वानाम् एकस्य द्वयोर् बहूनां वा दक्षिणानि वामानि च^अक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् ॥
ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ॥
कz14.3.03अब्। एक.आम्लकं वराह.अक्षि ख.द्योतः काल.शारिवा ।
कz14.3.03च्द्। एतेन^अभ्यक्त.नयनो रात्रौ रूपाणि पश्यति ॥
त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां यवान् आवास्य^अविक्षीरेण सेचयेत् ॥
ततो यव.विरूढ.मालाम् आबध्य नष्टच्.छाया.रूपश् चरति ॥
त्रि.रत्र.उपोषितः पुष्येण श्व.मार्जार.उलूक.वागुलीनां दक्षिणानि वामानि च^अक्षीणि द्विधा चूर्णं कारयेत् ॥
ततो यथा.स्वम् अभ्यक्त.अक्षो नष्टच्.छाया.रूपश् चरति ॥
त्रि.रात्र.उपोषितः पुष्येण पुरुष.घातिनः काण्डकस्य शलाकाम् अञ्जनीं च कारयेत् ॥
ततो अन्यतमेन^अक्षि.चूर्णेन^अभ्यक्त.अक्षो नष्टच्.छाया.रूपश् चरति ॥
त्रि.रात्र.उपोषितः पुष्येण कालायसीम् अञ्जनीं शलाकां च कारयेत् ॥
ततो निशा.चराणां सत्त्वानाम् अन्यतमस्य शिरः.कपालम् अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् ॥
तद् अञ्जनं पुष्येण^उद्धृत्य तस्याम् अञ्जन्यां निदध्यात् ॥
तेन^अभ्यक्त.अक्षो नष्ट.छाया.रूपश् चरति ॥
यत्र ब्राह्मणम् आहित.अग्निं दग्धं दह्यमानं वा पश्येत् तत्र त्रि.रात्र.उपोषितः पुष्येण स्वयं.मृतस्य वाससा प्रसेवं कृत्वा चिता.भस्मना पूरयित्वा तम् आबध्य नष्टच्.छाया.रूपश् चरति ॥
ब्राह्मणस्य प्रेत.कार्ये यो गौर् मार्यते तस्य^अस्थि.मज्ज.चूर्ण.पूर्णा^अहि.भस्त्रा पशूनाम् अन्तर्.धानम् ॥
सर्प.दष्टस्य भस्मना पूर्णा प्रचलाक.भस्त्रा मृगाणाम् अन्तर्.धानम् ॥
उलूक.वागुली.पुच्छ.पुरीष.जान्व्.अस्थि.चूर्ण.पूर्णा^अहि.भस्त्रा पक्षिणाम् अन्तर्.धानम् ॥
इत्य् अष्टाव् अन्तर्.धान.योगः ॥
कz14.3.19अब्। "बलिं वैरोचनं वन्दे शत.मायं च शम्बरम् ।
कz14.3.19च्द्। भण्डीर.पाकं नरकं निकुम्भं कुम्भम् एव च ॥
कz14.3.20अब्। देवलं नारदं वन्दे वन्दे सावर्णि.गालवम् ।
कz14.3.20च्द्। एतेषाम् अनुयोगेन कृतं ते स्वापनं महत् ॥
कz14.3.21अब्। यथा स्वपन्त्य् अजगराः स्वपन्त्य् अपि चमू.खलाः ।
कz14.3.21च्द्। तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः ॥
कz14.3.22अब्। भण्डकानां सहस्रेण रथ.नेमि.शतेन च ।
कz14.3.22च्द्। इमं गृहं प्रवेक्ष्यामि तूष्णीम् आसन्तु भाण्डकाः ॥
कz14.3.23अब्। नमस्.कृत्वा च मनवे बद्ध्वा शुनक.फेलकाः ।
कz14.3.23च्द्। ये देवा देव.लोकेषु मानुषेषु च ब्राह्मणाः ॥
कz14.3.24अब्। अध्ययन.पारगाः सिद्धा ये च कौलास तापसाः ।
कz14.3.24च्द्। एतेभ्यः सर्व.सिद्धेभ्यः कृतं ते स्वापनं महत् ॥
अतिगच्छन्ति च मय्य् अपगच्छन्तु संहताः ॥
अलिते, वलिते, मनवे स्वाहा ॥
एतस्य प्रयोगः ॥
त्रि.रात्र.उपोषितः कृष्ण.चतुर्.दश्यां पुष्य.योगिन्यां श्व.पाकी.हस्ताद् विलख.अवलेखनं क्रीणीयात् ॥
तन्.माषैः सह कण्डोलिकायां कृत्वा^असंकीर्ण आदहने निखानयेत् ॥
द्वितीयस्यां चतुर्दश्याम् उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ॥
तत एकां गुलिकाम् अभिमन्त्रयित्वा यत्र^एतन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति ॥
एतेन^एव कल्पेन श्वा.विधः शल्यकं त्रि.कालं त्रिश्वेतम् असंकीर्ण आदहने निखानयेत् ॥
द्वितीयस्यां चतुर्दश्याम् उद्धृत्य^आदहन.भस्मना सह यत्र.एतेन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति ॥
कz14.3.34अब्। "सुवर्ण.पुष्पीं ब्रह्माणीं ब्रह्माणं च कुश.ध्वजम् ।
कz14.3.34च्द्। सर्वाश् च देवता वन्दे वन्दे सर्वांश् च तापसान् ॥
कz14.3.35अब्। वशं मे ब्राह्मणा यान्तु भूमि.पालाश् च क्षत्रियाः ।
कz14.3.35च्द्। वशं वैश्याश् च शूद्राश् च वशतां यान्तु मे सदा ॥
स्वाहा - अमिले किमिले वयु.चारे प्रयोगे फक्के वयुह्वे विहाले दन्त.कटके स्वाहा ॥
कz14.3.37अब्। सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।
कz14.3.37च्द्। श्वा.विधः शल्यकं च^एतत् त्रि.श्वेतं ब्रह्म.निर्मितम् ॥
कz14.3.38अब्। प्रसुप्ताः सर्व.सिद्धा हि एतत् ते स्वापनं कृतम् ।
कz14.3.38च्द्। यावद् ग्रामस्य सीमान्तः सूर्यस्य^उद्गमनाद् इति ॥
स्वाहा" ॥
एतस्य प्रयोगः ॥
श्वा.विधः शल्यकानि त्रि.श्वेतानि, सप्त.रात्र.उपोषितः कृष्ण.चतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निम् एतेन मन्त्रेण^अष्ट.शत.सम्पातं कृत्वा मधु.घृताभ्याम् अभिजुहुयात् ॥
तत एकम् एतेन मन्त्रेण ग्राम.द्वारि गृह.द्वारि वा यत्र निखन्यते तत् सर्वं प्रस्वापयति ॥
कz14.3.43अब्। "बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।
कz14.3.43च्द्। निकुम्भं नरकं कुम्भं तन्तु.कच्छं महा.असुरम् ॥
कz14.3.44अब्। अर्मालवं प्रमीलं च मण्ड.उलूकं घट.उबलम् ।
कz14.3.44च्द्। कृष्ण.कंस.उपचारं च पौलोमीं च यशस्विनीम् ॥
कz14.3.45अब्। अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्.अर्थं शव.शारिकाम् ।
कz14.3.45च्द्। जयतु जयति च नमः शलक.भूतेभ्यः स्वाहा ॥
कz14.3.46अब्। सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।
कz14.3.46च्द्। सुखं स्वपन्तु सिद्ध.अर्था यम् अर्थं मार्गयामहे ।
कz14.3.46एच्। यावद् अस्तम् अयाद् उदयो यावद् अर्थं फलं मम ॥
इति स्वाहा ॥
एतस्य प्रयोगः ॥
चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्याम् असंकीर्ण आदहने बलिं कृत्वा^एतेन मन्त्रेण शव.शारिकां गृहीत्वा पौत्री.पोट्टलिकं बध्नीयात् ॥
तन्.मध्ये श्वा.विधः शल्यकेन विद्ध्वा यत्र^एतेन मन्त्रेण निखन्यते तत् सर्वं प्रस्वापयति ॥
कz14.3.51अब्। "उपैमि शरणं च^अग्निं दैवतानि दिशो दश ।
कz14.3.51च्द्। अपयान्तु च सर्वाणि वशतां यान्तु मे सदा ॥
स्वाहा" ॥
एतस्य प्रयोगः ॥
त्रि.रात्र.उपोस्षितः पुष्येण शर्करा एक.विंशति.सम्पातं कृत्वा मधु.घृताभ्याम् अभिजुहुयात् ॥
ततो गन्ध.माल्येन पूजयित्वा निखानयेत् ॥
द्वितीयेन पुष्येण^उद्धृत्य^एकां शर्कराम् अभिमन्त्रयित्वा कपाटम् आहन्यात् ॥
अभ्यन्तर्म् चतसृणां शर्कराणां द्वारम् अपाव्रियते ॥
चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्यां भग्नस्य पुरुषस्य^अस्थ्ना ऋषभं कारयेत्, अभिमन्त्रयेच् च^एतेन ॥
द्वि.गो.युक्तं गो.यानम् आहृतं भवति ॥
ततः परम.आकाशे विरामति ॥
रवि.सगन्धः परिघमति सर्वं पृणाति ॥
"चण्डाली.कुम्भी.तुम्ब.कटुक.सार.ओघः सनारी.भगो^असि - स्वाहा ॥
ताल.उद्घाटनं प्रस्वापनं च ॥
त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां तुवरी.रावास्य^उदकेन सेचयेत् ॥(?)
जातानां पुष्येण^एव गृहीत्वा रज्जुकां वर्तयेत् ॥
ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच् छेदनं ज्याच्.छेदनं करोति ॥
उदक.अहि.भस्त्राम् उच्छ्वास.मृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत्, नासिका.बन्धनं मुख.ग्रहश् च ॥
वराह.भस्त्राम् उच्छ्वासमृत्तिकया पूरयित्वा मर्कट.स्नायुना^अवबध्नीयात्, आनाह.कारणम् ॥
कृष्ण.चतुर्दश्यां शस्त्र.हताया गोः कपिलायाः पित्तेन राज.वृक्षमयीम् अमित्र.प्रतिमाम् अञ्ज्यात्, अन्धी.करणम् ॥
चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्यां बलिं कृत्वा शूल.प्रोतस्य पुरुषस्य^अस्थ्ना कीलकान् कारयेत् ॥
एतेषाम् एकः पुरीषे मूत्रे वा निखात आनाहं करोति, पदे^अस्य^आसने वा निखातः शोषेण मारयति, आपणे क्षेत्रे गृहे वा वृत्तिच्.छेदं करोति ॥
एतेन^एव कल्पेन विद्युद्.दग्धस्य वृक्षस्य कीलका व्याख्याताः ॥
कz14.3.73अब्। पुनर् नवम् अवाचीनं निम्बः काम.मधुश् च यः ।
कz14.3.73च्द्। कपि.रोम मनुष्य.अस्थि बद्ध्वा मृतक.वाससा ॥
कz14.3.74अब्। निखन्यते गृहे यस्य दृष्ट्वा वा यत् पदं नयेत् ।
कz14.3.74च्द्। सपुत्र.दारः सधन.स्त्रीन् पक्षान् न^अतिवर्तते ॥
कz14.3.75अब्। पुनर् नवम् अवाचीनं निम्बः काम.मधुश् च यः ।
कz14.3.75च्द्। स्वयं.गुप्ता मनुष्य.अस्थि पदे यस्य निखन्यते ॥
कz14.3.76अब्। द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा ।
कz14.3.76च्द्।सपुत्र.दारः सधन.स्त्रीन् पक्षान् न^अतिवर्तते ॥
कz14.3.77अब्। अज.मर्कट.रोमाणि मार्जार.नकुलस्य च ।
कz14.3.77च्द्। ब्राह्मणानां श्व.पाकानां काक.उलूकस्य च^आहरेत् ।
कz14.3.77च्द्। एतेन विष्ठा^अवक्षुण्णा सद्य उत्साद.कारिका ॥
कz14.3.78अब्। प्रेत.निर्मालिका किण्वं रोमाणि नकुलस्य च ।
कz14.3.78च्द्। वृश्चिक.आल्य्(?).अहि.कृत्तिश् च पदे यस्य निखन्यते ।
कz14.3.78एf। भवत्य् अपुरुषः सद्यो यावत् तन् न^अपनीयते ॥
त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां गुञ्जा आवास्य^उदकेन सेचयेत् ॥
जातानाम् अमावास्यायां पौर्णमास्यां वा पुष्य.योगिन्यां गुञ्ज.वल्लीर् ग्राहयित्वा मण्डलिकानि कारयेत् ॥
तेष्व् अन्न.पान.भाजनानि न्यस्तानि न क्षीयन्ते ॥
रात्रि.प्रेक्षायां प्रवृत्तायां प्रदीप.अग्निषु मृत.धेनोः स्तनान् उत्कृत्य दाहयेत् ॥
दग्धान् वृष.मूत्रेण पेषयित्वा नव.कुम्भम् अन्तर्.लेपयेत् ॥
तं ग्रामम् अपसव्यं परिणीय यत् तत्र न्यस्तं नव.नीतम् एषां तत् सर्वम् आगच्छति ॥
कृष्ण.चतुर्दश्यां पुष्य.योगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् ॥
तां स्वयं पतितां गृह्णीयात् ॥
तया वृक्ष.फलान्य् आकारितान्य् आगच्छन्ति ॥
कz14.3.88अब्। मन्त्र.भैषज्य.सम्युक्ता योगा माया.कृताश् च ये ।
कz14.3.88च्द्। उपहन्याद् अमित्रांस् तैः स्व.जनं च^अभिपालयेत् ॥ए
(स्व.बल.उपघात.प्रतीकारह्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0