भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 10.6

10.6.01

पक्षाव् उरस्यं प्रतिग्रह इत्य् औशनसो व्यूह.विभागः ॥

10.6.02

पक्षौ कक्षाव् उरस्य्म् प्रतिग्रह इति बार्हस्प्त्यः ॥

10.6.03

प्रपक्ष.कक्ष.उरस्या उभयोः दण्ड.भोग.मण्डल.असंहताः प्रकृति.व्यूहाः ॥

10.6.04

तत्र तिर्यग्.वृत्तिर् दण्डः ॥

10.6.05

समस्तानाम् अन्वावृत्तिर् भोगः ॥

10.6.06

सरतां सर्वतो.वृत्तिर् मण्डलः ॥

10.6.07

स्थितानां पृथग्.अनीक.वृत्तिर् असंहतः ॥

10.6.08

पक्ष.कक्ष.उरस्यैः समं वर्तमानो दण्डः ॥

10.6.09

स कक्ष.अतिक्रान्तः प्रदरः ॥

10.6.10

स एव पक्ष.कक्षाभ्यां प्रतिक्रान्तो दृढकः ॥

10.6.11

स एव^अतिक्रान्तः पक्षाभ्याम् असह्यः ॥

10.6.12

पक्षाव् अवस्थाप्य^उरस्य.अतिक्रान्तः श्येनः ॥

10.6.13

विपर्यये चापं चाप.कुकुषिः प्रतिष्ठः सुप्रतिष्ठश् च ॥

10.6.14

चाप.पक्षः संजयः ॥

10.6.15

स एव^उरस्य.अतिक्रान्तो विजयः ॥

10.6.16

स्थूल.कर्ण.पक्षः स्थूण.अकर्णः ॥

10.6.17

द्वि.गुण.पक्ष.स्थूणो विशाल.विजयः ॥

10.6.18

त्र्य्.अभिक्रान्त.पक्षश् चमू.मुखः ॥

10.6.19

विपर्यये झष.आस्यः ॥

10.6.20

ऊर्ध्व.राजिर् दण्डः सूची ॥

10.6.21

द्वौ दण्डौ वलयः ॥

10.6.22

चत्वारो दुर्जयः ॥

10.6.23

इति दण्ड.व्यूहाः ॥

10.6.24

पक्ष.कक्ष.उरस्यैर् विषमं वर्तमानो भोगः ॥

10.6.25

स सर्प.सारी गो.मूत्रिका वा ॥

10.6.26

स युग्म.उरस्यो दण्ड.पक्षः शकटः ॥

10.6.27

विपर्यये मकरः ॥

10.6.28

हस्त्य्.अश्व.रथैर् व्यतिकीर्णः शकटः पारिपतन्तकः ॥

10.6.29

इति भोग.व्यूहाः ॥

10.6.30

पक्ष.कक्ष.उरस्यानाम् एकी.भावे मण्डलः ॥

10.6.31

स सर्वतो.मुखः सर्वतो.भद्रः ॥

10.6.32

अष्ट.अनीको दुर्जयः ॥

10.6.33

इति मण्डल.व्यूहाः ॥

10.6.34

पक्ष.कक्ष.उरस्यानाम् असंहताद् असंहतः ॥

10.6.35

स पञ्च.अनीकानाम् आकृति.स्थापनाद् वज्रो गोधा वा ॥

10.6.36

चतुर्णाम् उद्धानकः काकपदी वा ॥

10.6.37

त्रयाणाम् अर्ध.चन्द्रकः कर्कटक.शृङ्गी वा ॥

10.6.38

इत्य् असंहत.व्यूहाः ॥

10.6.39

रथ.उरस्यो हस्ति.कक्षो^अश्व.पृष्ठो^अरिष्टः ॥

10.6.40

पत्तयो^अश्वा रथा हस्तिनश् च^अनुपृष्ठम् अचलः ॥

10.6.41

हस्तिनो^अश्वा रथाः पत्तयश् च^अनुपृष्ठम् अप्रतिहतः ॥

10.6.42

तेषां प्रदरं दृढकेन घातयेत्, दृढकम् असह्येन, श्येनं चापेन, प्रतिष्ठं सुप्रतिष्ठेन, संजयं विजयेन, स्थूण.आकर्णं विशाल.विजयेन, पारिपतन्तकं सर्वतो.भद्रेण ॥

10.6.43

दुर्जयेन सर्वान् प्रतिव्यूहेत ॥

10.6.44

पत्त्य्.अश्व.रथ.द्विपानां पूर्वं पूर्वम् उत्तरेण घातयेत्, हीन.अङ्गम् अधिक.अङ्गेन च^इति ॥

10.6.45

अङ्ग.दशकस्य^एकः पतिः पतिकः, पतिक.दशकस्य^एकः सेना.पतिः, तद्.दशकस्य^एको नायक इति ॥

10.6.46

स तूर्य.घोष.ध्वज.पताकाभिर् व्यूह.अङ्गानां संज्ञाः स्थापयेद् अङ्ग.विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ॥

10.6.47

समे व्यूहे देश.काल.सार.योगात् सिद्धिः ॥
कz10.6.48अब्। यन्त्रैर् उपनिषद्.योगैस् तीक्ष्णैर् व्यासक्त.घातिभिः ।
कz10.6.48च्द्। मायाभिर् देव.सम्योगैः शकटैर् हस्ति.भीषणैः ॥
कz10.6.49अब्। दूष्य.प्रकोपैर् गो.यूथैः स्कन्ध.आवार.प्रदीपनैः ।
कz10.6.49च्द्। कोटी.जघन.घातैर् वा दूत.व्यञ्जन.भेदनैः ॥
कz10.6.50अब्। "दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः ।
कz10.6.50च्द्। शत्रुर् आटविको वा" इति परस्य^उद्वेगम् आचरेत् ॥
कz10.6.51अब्। एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।
कz10.6.51च्द्। प्रज्ञानेन तु मतिः क्षिप्ता हन्याद् गर्भ.गतान् अपि ॥ए
(भेद.उपादानानि - उपाम्शु.दण्डाह्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc