भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 10.5

10.5.01

पञ्च.धनुः.शत.अपकृष्टं दुर्गम् अवस्थाप्य युद्धम् उपेयात्, भूमि.वशेन वा ॥

10.5.02

विभक्त.मुख्याम् अचक्षुर्.विषये मोक्षयित्वा सेनां सेना.पति.नायकौ व्यूहेयाताम् ॥

10.5.03

शम.अन्तरं पत्तिं स्थापयेत्, त्रि.शम.अन्तरम् अश्वम्, पञ्च.शम.अन्तरं रथं हस्तिनं वा ॥

10.5.04

द्वि.गुण.अन्तरं त्रि.गुण.अन्तरं वा व्यूहेत ॥

10.5.05

एवं यथा.सुखम् असम्बाधं युध्येत ॥

10.5.06

पञ्च.अरत्नि धनुः ॥

10.5.07

तस्मिन् धन्विनं स्थापयेत्, त्रि.धनुष्य् अश्वम्, पञ्च.धनुषि रथं हस्तिनं वा ॥

10.5.08

पञ्च.धनुर् अनीक.संधिः पक्ष.कक्ष.उरस्यानाम् ॥

10.5.09

अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ॥

10.5.10

पञ्च.दश रथस्य हस्तिनो वा, पञ्च च^अश्वाः ॥

10.5.11

तावन्तः पाद.गोपा वाजि.रथ.द्विपानां विधेयाः ॥

10.5.12

त्रीणि त्रिकाण्य् अनीकं रथानाम् उरस्यं स्थापयेत्, तावत् कक्षं पक्षं च^उभयतः ॥

10.5.13

पञ्च.चत्वारिंशद् एवं रथा रथ.व्यूहे भवन्ति, द्वे शते पञ्च.विंशतिश् च^अश्वाः, षट्.शतानि पञ्च.सप्ततिश् च पुरुषाः प्रतियोधारः, तावन्तः पाद.गोपाः ॥

10.5.14

एष सम.व्यूहः ॥

10.5.15

तस्य द्वि.रथ.उत्तरा वृद्धिर् आ.एक.विंशति.रथाद् इति ॥

10.5.16

एवम् ओजा दश सम.व्यूह.प्रकृतयो भवन्ति ॥

10.5.17

पक्ष.कक्ष.उरस्यानां मिथो विषम.संख्याने विषम.व्यूहः ॥

10.5.18

तस्य^अपि द्वि.रथ^उत्तरा वृद्धिर् आ.एक.विंशति.रथाद् इति ॥

10.5.19

एवम् ओजा दश विषम.व्यूह.प्रकृतयो भवन्ति ॥

10.5.20

अतः सैन्यानां व्यूह.शेषम् आवापः कार्यः ॥

10.5.21

रथानां द्वौ त्रि.भागाव् अङ्गेष्व् आवापयेत्, शेषम् उरस्यं स्थापयेत् ॥

10.5.22

एवं त्रि.भाग.ऊनो रथानाम् आवापः कार्यः ॥

10.5.23

तेन हस्तिनाम् अश्वानाम् आवापो व्याख्यातः ॥

10.5.24

यावद्.अश्व.रथ.द्विपानां युद्ध.सम्बाधन्म् न कुर्यात् तावद् आवापः कार्यः ॥

10.5.25

दण्ड.बाहुल्यम् आवापः ॥

10.5.26

पत्ति.बाहुल्यं प्रत्यापावः ॥

10.5.27

एक.अङ्ग.बाहुल्यम् अन्वावापः ॥

10.5.28

दूष्य.बाहुल्यम् अत्यावापः ॥

10.5.29

पर.आवापात् प्रत्यावापाच् च चतुर्.गुणाद् आ.अष्ट.गुणाद् इति वा विभवतः सैन्यानाम् आवापः ॥

10.5.30

रथ.व्यूहेन हस्ति.व्यूहो व्याख्यातः ॥

10.5.31

व्यामिश्रो वा हस्ति.रथ.अश्वानां - चक्र.अन्तेषु हस्तिनः पार्श्वयोर् अश्वा रथा उरस्ये ॥

10.5.32

हस्तिनाम् उरस्यं रथानां कक्षाव् अश्वानां पक्षाव् इति मध्य.भेदी ॥

10.5.33

विपरीतो^अन्त.भेदी ॥

10.5.34

हस्तिनाम् एव तु शुद्धः - साम्नाह्यानाम् उरस्यम् औपवाह्यानां जघनं व्यालानां कोट्याव् इति ॥

10.5.35

अश्व.व्यूहो - वर्मिणाम् उरस्यं शुद्धानां कक्ष.पक्षाव् इति ॥

10.5.36

पत्ति.व्यूहः - पुरस्ताद् आवरणिनः पृष्ठतो धन्विनः ॥

10.5.37

इति शुद्धाः ॥

10.5.38

पत्तयः पक्षयोर् अश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात्, पर.व्यूह.वशेन वा विपर्यासः ॥

10.5.39

इति द्व्य्.अङ्ग.बल.विभागः ॥

10.5.40

तेन त्र्.अङ्ग.बल.विभागो व्याख्यातः ॥

10.5.41

दण्ड.सम्पत् सार.बलं पुंसां

10.5.42

हस्त्य्.अश्वयोर् विशेषः कुलं जातिः सत्त्वं वयः.स्थता प्राणो वर्ष्म जवस् तेजः शिल्पं स्तैर्यम् उदग्रता विधेयत्वं सुव्यञ्जन.आचारता^इति ॥

10.5.43

पत्त्य्.अश्व.रथ.द्विपानां सार.त्रि.भागम् उरस्यं स्थापयेत्, द्वौ त्रि.भागौ कक्षं पक्षं च^उभयतः, अनुलोमम् अनुसारम्, प्रतिलोमं तृतीय.सारम्, फल्गु प्रतिलोमम् ॥

10.5.44

एवं सर्वम् उपयोगं गमयेत् ॥

10.5.45

फल्गु.बलम् अन्तेष्व् अवधाय वेग.अभिहूलिको भवति ॥

10.5.46

सार.बलम् अग्रतः कृत्वा कोटीष्व् अनुसारं कुर्यात्, जघने तृतियिय.सारम्, मध्ये फल्गु.बलम् ॥

10.5.47

एवम् एतत् सहिष्णु भवति ॥

10.5.48

व्यूहं तु स्थापयित्वा पक्ष.कक्ष.उरस्यानाम् एकेन द्वाभ्यां वा प्रहरेत्, शेषैः प्रतिगृह्णीयात् ॥

10.5.49

यत् परस्य दुर्बलं वीत.हस्त्य्.अश्वं दूष्य.अमात्यं कृत.उपजापं वा तत्.प्रभूत.सारेण^अभिहन्यात् ॥

10.5.50

यद् वा परस्य सारिष्ठं तद्.द्वि.गुण.सारेण^अभिहन्यात् ॥

10.5.51

यद् अङ्गम् अल्प.सारम् आत्मनस् तद् बहुना^उपचिनुयात् ॥

10.5.52

यतः परस्य^अपचयस् ततो^अभ्याशे व्यूहेत, यतोत् वा भयं स्यात् ॥

10.5.53

अभिसृतं परिसृतम् अतिसृतम् अपसृतम् उन्मथ्य.अवधानं वलयो गो.मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त.पृष्ठम् अनुवंशम् अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न.रक्षा भग्न.अनुपात इत्य् अश्व.युद्धानि ॥

10.5.54

प्रकीर्णिक.आवर्जान्य् एतान्य् एव चतुर्णाम् अङ्गानां व्यस्त.समस्तानां वा घातः, पक्ष.कक्ष.उरस्यानां च प्रभञ्जनम् अवस्कन्दः सौप्तिकं च^इति हसित्.युद्धानि ॥

10.5.55

उन्मथ्य.अवधान.वर्जान्य् एतान्य् एव स्व.भूमाव् अभियान.अपयान.स्थित.युद्धानि^इति रथ.युद्धानि ॥

10.5.56

सर्व.देश.काल.प्रहरणम् उपांशु.दण्डश् च^इति पत्ति.युद्धानि ॥
कz10.5.57अब्। एतेन विधिना व्यूहान् ओजान् युग्मांश् च कारयेत् ।
कz10.5.57च्द्। विभवो यावद् अङ्गानां चतुर्णां सदृशो भवेत् ॥
कz10.5.58अब्। द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहे ।
कz10.5.58च्द्। भिन्न.संघातनं तस्मान् न युध्येत^अप्रतिग्रहः ॥ए
(दण्ड.भोग.मण्डल.असम्हत.व्यूह.व्यूहनम् - तस्य प्रतिव्यूह.स्थानम्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc