भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 07.9

07.9.01

संहित.प्रयाणे मित्र.हिरण्य.भूमि.लाभानाम् उत्तर.उत्तरो लाभः श्रेयान् ॥

07.9.02

मित्र.हिरण्ये हि भूमि.लाभाद् भवतः, मित्रं हिरण्य.लाभात् ॥

07.9.03

यो वा लाभः सिद्धः शेषयोर् अन्यतरं साधयति ॥

07.9.04

"त्वं च^अहं च मित्रं लभावहे" इत्य् एवं.आदिध् सम.संधिः ॥

07.9.05

"त्वं मित्रम्" इत्य् एवं.आदिर् विषम.संधिः ॥

07.9.06

तयोर् विशेष.लाभाद् अतिसंधिः ॥

07.9.07

सम.संधौ तु यः सम्पन्नं मित्रं मित्र.कृच्छ्रे वा मित्रम् अवाप्नोति सो^अतिसंधत्ते ॥

07.9.08

आपद्द् हि सौहृद.स्थैर्यम् उत्पादयति ॥

07.9.09

मित्र.कृच्छ्रे^अपि नित्यम् अवश्यम् अनित्यं वश्यं वा^इति "नित्यम् अवश्यं श्रेयः, तद्द् हि अनुपकुर्वद् अपि न^अपकरोति" इत्य् आचार्याः ॥

07.9.10

न^इति कौटिल्यः ॥

07.9.11

वश्यम् अनित्यं श्रेयः ॥

07.9.12

यावद् उपकरोति तावन् मित्रं भवति, उपकार.लक्षणं मित्रम् इति ॥

07.9.13

वश्ययोर् अपि महा.भोगम् अनित्यम् अल्प.भोगं वा नित्यम् इति ॥ महा.भोगम् अनित्यं श्रेयः, महा.भोगम् अनित्यम् अल्प.कालेन महद्.उपकुर्वन् महान्ति व्यय.स्थानानि प्रतिकरोति" इत्य् आचार्याः ॥

07.9.14

न^इति कौटिल्यः ॥

07.9.15

नित्यम् अल्प.भोगं श्रेयः ॥

07.9.16

महा.भोगम् अनित्यम् उपकार.भयाद् अपक्रामति, उपकृत्य वा प्रत्यादातुम् ईहते ॥

07.9.17

नित्यम् अल्प.भोगं सातत्याद् अल्पम् उपकुर्वन् महता कालेन महद् उपकरोति ॥

07.9.18

गुरु.समुत्थं महन् मित्रं लघु.समुत्थम् अल्पं वा^इति "गुरु.समुत्थं महन् मित्रं प्रताप.करं भवति, यदा च^उत्तिष्ठते तदा कार्यं साधयति" इत्य् आचार्याः ॥

07.9.19

न^इति कौटिल्यः ॥

07.9.20

लघु.समुत्थम् अल्पं श्रेयः ॥

07.9.21

लगु.समुत्थम् अल्पं मित्रं कार्य.कालं न^अतिपातयति दौर्बल्याच् च यथा.इष्ट.भोग्यं भवति, न^इतरत् प्रकृष्ट.भौमम् ॥

07.9.22

विक्षिप्त.सैन्यम् अवश्य.सैन्यं वा^इति "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्य् आचार्याः ॥

07.9.23

न^इति कौटिल्यः ॥

07.9.24

अवश्य.सैन्यं श्रेयः ॥

07.9.25

अवश्यं हि शक्यं साम.आदिभिर् वश्यं कर्तुम्, न^इतरत् कार्य.व्यासक्तं प्रतिसंहर्तुम् ॥

07.9.26

पुरुष.भोगं हिरण्य.भोगं वा मित्रम् इति "पुरुष.भोगं मित्रं श्रेयः, प्रुष.भोगं मित्रं प्रताप.करं भवति, यदा च^उत्तिष्ठते तदा कार्यं साधयति" इत्य् आचार्याः ॥

07.9.27

न^इति कौटिल्यः ॥

07.9.28

हिरण्य.भोगं मित्रं श्रेयः ॥

07.9.29

नित्यो हि हिरण्येन योगः कदाचिद् दण्डेन ॥

07.9.30

दण्डश् च हिरण्येन^अन्ये च कामाः प्राप्यन्त इति ॥

07.9.31

हिरण्य.भोगं भूमि.भोगं वा मित्रम् इति "हिरण्य.भोगं गतिमत्त्वात् सर्व.व्यय.प्रतीकार.करम्" इत्य् आचार्याः ॥

07.9.32

न^इति कौटिल्यः ॥

07.9.33

मित्र.हिरण्ये हि भूमि.लाभाद् भवत इत्य् उक्तं पुरस्ताद् ॥

07.9.34

तस्माद् भूमि.भोगं मित्रं श्रेय इति ॥

07.9.35

तुल्ये पुरुष.भोगे विक्रमः क्लेश.सहत्वम् अनुरागः सर्व.बल.लाभो वा मित्र.कुलाद् विशेषः ॥

07.9.36

तुल्ये हिरण्य.भोगे प्रार्थित.अर्थता प्राभूत्यम् अल्प.प्रयसता सातत्यं च विशेषः ॥

07.9.37

तत्र^एतद् भवति ॥
कz07.9.38अब्। नित्यं वश्यं लघु.उत्थानं पितृ.पैतामहं महत् ।
कz07.9.38च्द्। अद्वैध्यं च^इति सम्पन्नं मित्रं षड्.गुणम् उच्यते ॥
कz07.9.39अब्। ऋते यद् अर्थं प्रणयाद् रक्ष्यते यच् च रक्षति ।
कz07.9.39च्द्। पूर्व.उपचित.सम्बन्धं तन् मित्रं नित्यम् उच्यते ॥
कz07.9.40अब्। सर्व.चित्र.महा.भोगं त्रिविधं वश्यम् उच्यते ।
कz07.9.40च्द्। एकतो.भोग्य् उभयतः सर्वतो.भोगि च^अपरम् ॥
कz07.9.41अब्। आदातृ वा दात्र्.अपि वा जीवत्य् अरिषु हिंसया ।
कz07.9.41च्द्। मित्रं नित्यम् अवश्यं तद्.दुर्ग.अटव्य्.अपसारि च ॥
कz07.9.42अब्। अन्यतो विगृहीतं यल् लघु.व्यसनम् एव वा ।
कz07.9.42च्द्। संधत्ते च^उपकाराय तन् मित्रं वश्यम् अध्रुवम् ॥
कz07.9.43अब्। एक.अर्थेन^अथ सम्बद्धम् उपकार्य.विकारि च ।
कz07.9.43च्द्। मित्र.भावि भवत्य् एतन् मित्रम् अद्वैध्यम् आपदि ॥
कz07.9.44अब्। मित्र.भावाद् ध्रुवं मित्रं शत्रु.साधारणाच् चलम् ।
कz07.9.44च्द्। न कस्यचिद् उदासीनं द्वयोर् उभय.भावि तत् ॥
कz07.9.45अब्। विजिगीषोर् अमित्रं यन् मित्रम् अन्तर्धितां गतम् ।
कz07.9.45च्द्। उपकारे^अनिविष्टं वा^अशक्तं वा^अनुपकारि तत् ॥
कz07.9.46अब्। प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धम् एव वा ।
कz07.9.46च्द्। अनुगृह्णाति यन् मित्रं शत्रु.साधारणं हि तत् ॥
कz07.9.47अब्। प्रकृष्ट.भौमं संतुष्टं बलवच् च^आलसं च यत् ।
कz07.9.47च्द्। उदासीनं भवत्य् एतद् व्यसनाद् अवमानितम् ॥
कz07.9.48अब्। अरेर् नेतुश् च यद् वृद्धिं दौर्बल्याद् अनुवर्तते ।
कz07.9.48च्द्। उभयस्य^अप्य् अविद्विष्टं विद्याद् उभय.भावि तत् ॥
कz07.9.49अब्। कारण.अकारण.ध्वस्तं कारण.अकारण.आगतम् ।
कz07.9.49च्द्। यो मित्रं समुपेक्षेत स मृत्युम् उपगूहति ॥

07.9.50

क्षिप्रम् अल्पो लाभश् चिरान् महान् इति वा "क्षिप्रम् अल्पो लाभः कार्य.देश.काल.संवादकः श्रेयान्" इत्य् आचार्याः ॥

07.9.51

न^इति कौटिल्यः ॥

07.9.52

चिराद् अविनिपाती बीज.सधर्मा महाम्ल् लाभः श्रेयान्, विपर्यये पूर्वः ॥
कz07.9.53अब्। एवं दृष्ट्वा ध्रुवे लाभे लाभ.अंशे च गुण.उदयम् ।
कz07.9.53च्द्। स्व.अर्थ.सिद्धि.परो यायात् संहितः सामवायिकैः ॥ए
(मित्र.हिरण्य.भूमि.कर्म.संधयः, तत्र भूमि.संधिह्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc