भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 07.14

07.14.01

सामवायिकैर् एवम् अभियुक्तो विजिगीषुर् यस् तेषां प्रधानस् तं ब्रूयात् "त्वया मे संधिः, इदं हिरण्यम्, अहं च मित्रम्, द्वि.गुणा ते वृद्धिः, न^अर्हस्य् आत्म.क्षयेण मित्र.मुखान् अमित्रान् वर्धयितुम्, एते हि वृद्धास् त्वाम् एव परिभविष्यन्ति" इति ॥

07.14.02

भेदं वा ब्रूयात् "अनपकारो यथा^अहम् एतैः सम्भूय^अभियुक्तस् तथा त्वाम् अप्य् एते संहित.बलाः स्वस्था व्यसने वा^अभियोक्ष्यन्ते, बलं हि चित्तं विकरोति, तद् एषां विघातय" इति ॥

07.14.03

भिन्नेषु प्रधानम् उपगृह्य हीनेषु विक्रमयेत्, हीनान् अनुग्राह्य वा प्रधाने, यथा वा श्रेयो^अभिमन्येत तथा ॥

07.14.04

वैरं वा परैर् ग्राहयित्वा विसंवादयेत् ॥

07.14.05

फल.भूयस्त्वेन वा प्रधानम् उपजाप्य संधिं कारयेत् ॥

07.14.06

अथ^उभय.वेतनाः फल.भूयस्त्वं दर्शयन्तः सामवायिकान् "अतिसंहिताः स्थ" इत्य् उद्द्दूषयेयुः ॥

07.14.07

दुष्टेषु संधिं दूषयेत् ॥

07.14.08

अथ^उभय.वेतना भूयो भेदम् एषां कुर्युः "एवं तद् यद् अस्माभिर् दर्शितम्" इति ॥

07.14.09

भिन्नेष्व् अन्यतम.उपग्रहेण चेष्टेत ॥

07.14.10

प्रधान.अभावे सामवायिकानाम् उत्साहयितारं स्थिर.कर्माणम् अनुरक्त.प्रकृक्तिं लोभाद् भयाद् वा संघातम् उपागतं विजिगीषोर् भीतं राज्य.प्रतिसम्बद्धं मित्रं चल.अमित्रं वा पूर्वान् उत्तर.अभावे साधयेत् - उत्साहयितारम् आत्म.निसर्गेण, स्थिर.कर्माणं सान्त्व.प्रणिपातेन, अनुरक्त.प्रकृतिं कन्या.दान.यापनाभ्याम्, लुब्धम् अंश.द्वैगुण्येन,
भीतम् एभ्यः कोश.दण्ड.अनुग्रहेण, स्वतो भीतं विश्वास्य प्रतिभू.प्रदानेन, राज्य.प्रतिसम्बद्धम् एकी.भाव.उपगमनेन, मित्रम् उभयतः प्रिय.हिताभ्याम्, उपकार.त्यागेन वा, चल.अमित्रम् अवधृतम् अनपकार.उपकाराभ्याम्
॥

07.14.11

यो वा यथा^अयोगं भजेत तं तथा साधयेत्, साम.दान.भेद.दण्डैर् वा यथा^आपत्सु व्याख्यास्यामः ॥

07.14.12

व्यसन.उपघात.त्वरितो वा कोश.दण्डाभ्यां देशे काले कार्ये वा^अवधृतं संधिम् उपेयात् ॥

07.14.13

कृत.संधिर् हीनम् आत्मानं प्रतिकुर्वीत ॥

07.14.14

पक्षे हीनो बन्धु.मित्र.पक्षं कुर्वीत, दुर्गम् अविषह्यं वा ॥

07.14.15

दुर्ग.मित्र.प्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति ॥

07.14.16

मन्त्र.शक्ति.हीनः प्राज्ञ.पुरुष.उपचयं विद्या.वृद्ध.सम्योगं वा कुर्वीत ॥

07.14.17

तथा हि सद्यः श्रेयः प्राप्नोति ॥

07.14.18

प्रभाव.हीनः प्रकृति.योग.क्षेम.सिद्धौ यतेत ॥

07.14.19

जन.पदः सर्व.कर्मणां योनिः, ततः प्रभावः ॥

07.14.20

तस्य स्थानम् आत्मनश् च^आपदि दुर्गम् ॥

07.14.21

सेतु.बन्धः सस्यानां योनिः ॥

07.14.22

नित्य.अनुषक्तो हि वर्ष.गुण.लाभः सेतु.वापेषु ॥

07.14.23

वणिक्.पथः पर.अतिसंधानस्य योनिः ॥

07.14.24

वणिक्.पथेन हि दण्ड.गूढ.पुरुष.अतिनयनं शस्त्र.आवरण.यान.वाहन.क्रयश् च क्रियते, प्रवेशो निर्णयनं च ॥

07.14.25

खनिः संग्राम.उपकरणानां योनिः, द्रव्य.वनं दुर्ग.कर्मणां यान.रथयोश् च, हस्ति.वनं हस्तिनाम्, गव.अश्व.खर.उष्ट्राणां च व्रजः ॥

07.14.26

तेषाम् अलाभे बन्धु.मित्र.कुलेभ्यः समार्जनम् ॥

07.14.27

उत्साह.हीनः श्रेणी.प्रवीर.पुरुषाणां चोर.गण.आटविक.म्लेच्छ.जातीनां पर.अपकारिणां गूढ.पुरुषाणां च यथा.लाब्भम् उपचयं कुर्वीत ॥

07.14.28

पर.मिश्र.अप्रतीकारम् आबलीयसं वा परेषु प्रयुञ्जीत ॥
कz07.14.29अब्। एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च ।
कz07.14.29च्द्। सम्पन्नः प्रतिनिर्गच्छेत् पर.अवग्रहम् आत्मनः ॥ए
(विगृह्य.उपरोध.हेतवह् - दण्ड.उपनत.वृत्तम्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc