अर्थशास्त्र · अध्याय 07.13
संहत्य^अरि.विजिगीष्वोर् अमित्रयोः पर.अभियोगिनोः पार्ष्णिं गृह्णतोर् यः शक्ति.सम्पन्नस्य पार्ष्णिं गृह्णाति सो^अतिसंधत्ते ॥
शक्ति.सम्पन्नो ह्य् अमित्रम् उच्छिद्य पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न हीन.शक्तिर् अलब्ध.लाभः ॥
शक्ति.साम्ये यो विपुल.आरम्भस्य पार्ष्णिं गृह्णाति सो^अतिसंधत्ते ॥
विपुल.आरम्भो ह्य् अमित्रम् उच्छिद्य पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न^अल्प.आरम्भः सक्त.चक्रः ॥
आरम्भ.साम्ये यः सर्व.संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सो^अतिसंधत्ते ॥
शून्य.मूलो ह्य् अस्य सुकरो भवति, नैक.देश.बल.प्रयातः कृत.पार्ष्णि.प्रतिविधानः ॥
बल.उपादान.साम्ये यश् चल.अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति सो^अतिसंधत्ते ॥
चल.अमित्रं प्रयातो हि सुखेन^अवाप्त.सिद्धिः पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न स्थित.अमित्रं प्रयातः ॥
असौ हि दुर्ग.प्रतिहतः पार्ष्णि.ग्राहे च प्रतिनिवृत्तः स्थितेन^अमित्रेण^अवगृह्यते ॥
तेन पूर्वे व्याख्याताः ॥
शत्रु.साम्ये यो धार्मिक.अभियोगिनः पार्ष्णिं गृह्णाति सो^अतिसंधत्ते ॥
धार्मिक.अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति, अधार्मिक.अभियोगी सम्प्रियः ॥
तेन मूल.हर.तादात्विक.कदर्य.अभियोगिनां पार्ष्णि.ग्रहणं व्याख्यातम् ॥
मित्र.अभियोगिनोः पार्ष्णि.ग्रहणे त एव हेतवः ॥
मित्रम् अमित्रं च^अभियुञ्जानयोर् यो मित्र.अभियोगिनः पार्ष्णिं गृह्णाति सो^अतिसंधत्ते ॥
मित्र.अभियोगी हि सुखेन^अवाप्त.सिद्धिः पार्ष्णि.ग्राहम् उच्छिन्द्यात् ॥
सुकरो हि मित्रेण संधिर् न^अमित्रेण ॥
मित्रम् अमित्रं च^उद्धरतोर् यो^अमित्र.उद्धारिणः पार्ष्णिं गृह्णाति सो^अतिसंधत्ते ॥
वृद्ध.मित्रो ह्य् अमित्र.उद्धारी पार्ष्णि.ग्राहम् उच्छिन्द्यात्, न^इतरः स्व.पक्ष.उपघाती ॥
तयोर् अलब्ध.लाभ.अपगमने यस्य.अमित्रो महतो लाभाद् वियुक्तः क्षय.व्यय.अधिको वा स पार्ष्णि.ग्राहो^अतिसंधत्ते ॥
लब्ध.लाभ.अपगमने यस्य^अमित्रो लाभेन शक्त्या हीनः स पार्ष्णि.ग्राहो^अतिसंधत्ते, यस्य वा यातव्यः शत्रोर् विग्रह.अपकार.समर्थः स्यात् ॥
पार्ष्णि.ग्राहयोर् अपि यः शक्य.आरम्भ.बल.उपादान.अधिकः स्थित.शत्रुः पार्श्व.स्थायी वा सो^अतिसंधत्ते ॥
पार्श्व.स्थायी हि यातव्य.अभिसारो मूल.आबाधकश् च भवति, मूल.आबाधक एव पश्चात्.स्थायी ॥
कz07.13.24अब्। पार्ष्णि.ग्राहास् त्रयो ज्ञेयाः शत्रोश् चेष्टा.निरोधकाः ।
कz07.13.24च्द्। सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ॥
कz07.13.25अब्। अरेर् नेतुश् च मध्यस्थो दुर्बलो^अन्तर्धिर् उच्यते ।
कz07.13.25च्द्। प्रतिघातो बलवतो दुर्ग.अटव्य्.अपसारवान् ॥
मध्यमं त्वरि.विजिगीष्वोर् लिप्समानयोर् मध्यमस्य पार्ष्णिं गृह्णतोर् लब्ध.लाभ.अपगमने यो मध्यमं मित्राद् वियोजयत्य् अमित्रं च मित्रम् आप्नोति सो^अतिसंधत्ते ॥
संधेयश् च शत्रुर् उपकुर्वाणो, न मित्रं मित्र.भावाद् उत्क्रान्तम् ॥
तेन^उदासीन.लिप्सा व्याख्याता ॥
"पार्ष्णि.ग्रहण.अभियानयोस् तु मन्त्र.युद्धाद् अभ्युच्चयः ॥
कश्07.13.30। व्यायाम.युद्धे हि क्षय.व्ययाभ्याम् उभयोर् अवृद्धिः ॥
जित्वा^अपि हि क्षिण.दण्ड.कोशः पराजितो भवति" इत्य् आचार्याः ॥
न^इति कौटिल्यः ॥
सुमहता^अपि क्षय.व्ययेन शत्रु.विनाशो^अभ्युपगन्तव्यः ॥
तुल्ये क्षय.व्यये यः पुरस्ताद् दूष्य.बलं घातयित्वा निह्शल्यः पश्चाद् वश्य.बलो युध्येत सो^अतिसंधत्ते ॥
द्वयोर् अपि पुरस्ताद् दूष्य.बल.घातिनोर् यो बहुलतरं शक्तिमत्तरम् अत्यन्त.दूष्यं च घातयेत् सो^अतिसंधत्ते ॥
तेन^अमित्र.अटवी.बल.घातो व्याख्यातः ॥
कz07.13.37अब्। पार्ष्णि.ग्राहो^अभियोक्ता वा यातव्यो वा यदा भवेत् ।
कz07.13.37च्द्। विजिगीषुस् तदा तत्र नेत्रम् एतत् समाचरेत् ॥
कz07.13.38अब्। पार्ष्णि.ग्राहो भवेन् नेता शत्रोर् मित्र.अभियोगिनः ।
कz07.13.38च्द्। विग्राह्य पूर्वम् आक्रन्दं पार्ष्णि.ग्राह.अभिसारिणा ॥
कz07.13.39अब्। आक्रन्देन^अभियुञ्जानः पार्ष्णि.ग्राहं निवारयेत् ।
कz07.13.39च्द्। तथा^आक्रन्द.अभिसारेण पार्ष्णि.ग्राह.अभिसारिणम् ॥
कz07.13.40अब्। अरि.मित्रेण मित्रं च पुरस्ताद् अवघट्टयेत् ।
कz07.13.40च्द्। मित्र.मित्रम् अरेश् च^अपि मित्र.मित्रेण वारयेत् ॥
कz07.13.41अब्। मित्रेण ग्राहयेत् पार्ष्णिम् अभियुक्तो^अभियोगिनः ।
कz07.13.41च्द्। मित्र.मित्रेण च^आक्रन्दं पार्ष्णि.ग्राहान् निवारयेत् ॥
कz07.13.42अब्। एवं मण्डलम् आत्म.अर्थं विजिगीषुर् निवेशयेत् ।
कz07.13.42च्द्। पृष्ठतश् च पुरस्ताच् च मित्र.प्रकृति.सम्पदा ॥
कz07.13.43अब्। कृत्स्ने च मण्डले नित्यं दूतान् गूढांश् च वासयेत् ।
कz07.13.43च्द्। मित्र.भूतः सपत्नानां हत्वा हत्वा च संवृतः ॥
कz07.13.44अब्। असंवृतस्य कार्याणि प्राप्तान्य् अपि विशेषतः ।
कz07.13.44च्द्। निह्संशयं विपद्यन्ते भिन्न.प्लव इव^उदधौ ॥ए
(हीन.शक्ति.पूरणम्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0