भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 07.11

07.11.01

"त्वं च^अहं च शून्यं निवेशयावहे" इत्य् अनवसित.संधिः ॥

07.11.02

तयोर् यः प्रत्युपस्थित.अर्थो यथा.उक्त.गुणां भूमिं निवेशयति सो^अतिसंधत्ते ॥

07.11.03

तत्र^अपि स्थलम् औदकं वा^इति महतः स्थलाद् अल्पम् औदकं श्रेयः, सातत्याद् अवस्थितत्वाच् च फलानाम् ॥

07.11.04

स्थलयोर् अपि प्रभूत.पूर्व.अपर.सस्यम् अल्प.वर्ष.पाकम् असक्त.आरम्भं श्रेयः ॥

07.11.05

औदकयोर् अपि धान्य.वापम् अधान्य.वापात्^श्रेयः ॥

07.11.06

तयोर् अल्प.बहुत्वे धान्य.कान्ताद् अल्पान् महद् अधान्य.कान्तं श्रेयः ॥

07.11.07

महत्य् अवकाशे हि स्थाल्याश् च^अनूप्याश् च^ओषधयो भवन्ति ॥

07.11.08

दुर्ग.आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ॥

07.11.09

कृत्रिमा हि भूमि.गुणाः ॥

07.11.10

खनि.धान्य.भोगयोः खनि.भोगः कोश.करः, धान्य.भोगः कोश.कोष्ठ.अगार.करः ॥

07.11.11

धान्य.मूला हि दुर्ग.आदीनां कर्मणाम् आरम्भाः ॥

07.11.12

महा.विषय.विक्रयो वा खनि.भोगः श्रेयान् ॥

07.11.13

"द्रव्य.हस्ति.वन.भोगयोर् द्रव्य.वन.भोगः सर्व.कर्मणां योनिः प्रभूत.निधान.क्षमश् च, विपरीतो हस्ति.वन.भोगः" इत्य् आचार्याः ॥

07.11.14

न^इति कौटिल्यः ॥

07.11.15

शक्यं द्रव्य.वनम् अनेकम् अनेकस्यां भूमौ वापयितुम्, न हस्ति.वनम् ॥

07.11.16

हस्ति.प्रधानो हि पर.अनीक.वध इति ॥

07.11.17

वारि.स्थल.पथ.भोगयोर् अनित्यो वारि.पथ.भोगः, नित्यः स्थल.पथ.भोगः ॥

07.11.18

भिन्न.मनुष्या श्रेणी.मनुष्या वा भूमिर् इति भिन्न.मनुष्या श्रेयसी ॥

07.11.19

भिन्न.मनुष्या भोग्या भवति, अनुपजाप्या च^अन्येषाम्, अनापत्.सहा तु ॥

07.11.20

विपरीता श्रेणी.मनुष्या, कोपे महा.दोषा ॥

07.11.21

तस्यां चातुर्वर्ण्य.निवेशे सर्व.भोग.सहत्वाद् अवर.वर्ण.प्राया श्रेयसी, बाहुल्याद् ध्रुवत्वाच् च कृष्याः कर्षकवती, कृष्याश् च^अन्येषां च^आरम्भाणां प्रयोजकत्वात् गो.रक्षकवती, पण्य.निचय.ऋण.अनुग्रहाद् आढ्य.वणिग्वती ॥

07.11.22

भूमि.गुणानाम् अपाश्रयः श्रेयान् ॥

07.11.23

दुर्ग.अपाश्रया पुरुष.अपाश्रया वा भूमिर् इति पुरुष.अपाश्रया श्रेयसी ॥

07.11.24

पुरुषवद् धि राज्यम् ॥

07.11.25

अपुरुषा गौर् वन्ध्य् एव किं दुहीत ॥

07.11.26

महा.क्षय.व्यय.निवेशां तु भूमिम् अवाप्तु.कामः पूर्वम् एव क्रेतारं पणेत दुर्बलम् अराज.बीजिनं निरुत्साहम् अपक्षम् अन्याय.वृत्तिं व्यसनिनं दैव.प्रमाणं यत्.किंचन.कारिणं वा ॥

07.11.27

महा.क्षय.व्यय.निवेशायां हि भूमौ दुर्बलो राज.बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय.व्ययेन^अवसीदति ॥

07.11.28

बलवान् अराज.बीजी क्षय.व्यय.भयाद् असगन्धाभिः प्रकृतिभिस् त्यज्यते ॥

07.11.29

निरुत्साहस् तु दण्डवान् अपि दण्डस्य^अप्रणेता सदण्डः क्षय.व्ययेन^अवभज्यते ॥

07.11.30

कोशवान् अप्य् अपक्षः क्षय.व्यय.अनुग्रह.हीनत्वान् न कुतश्चित् प्राप्नोति ॥

07.11.31

अन्याय.वृत्तिर् निविष्टम् अप्य् उत्थापयेत् ॥

07.11.32

स कथम् अनिविष्टं निवेशयेत् ॥

07.11.33

तेन व्यसनी व्याख्यातः ॥

07.11.34

दैव.प्रमाणो मानुष.हीनो निरारम्भो विपन्न.कर्म.आरम्भो वा^अवसीदति ॥

07.11.35

यत्.किंचन.कारी न किंचिद् आसादयति ॥

07.11.36

स च^एषां पापिष्ठतमो भवति ॥

07.11.37

"यत्.किंचिद्.आरभमाणो हि विजिगीषोः कदाचिच् छिद्रम् आसादयेद्" इत्य् आचार्याः ॥

07.11.38

यथा छिद्रं तथा विनाशम् अप्य् आसादयेद् इति कौटिल्यः ॥

07.11.39

तेषाम् अलाभे यथा पार्ष्णि.ग्राह.उपग्रहे वक्ष्यामस् तथा भूमिम् अवस्थापयेत् ॥

07.11.40

इत्य् अभिहित.संधिः ॥

07.11.41

गुणवतीम् आदेयां वा भूमिं बलवता क्रयेण याचितः संधिम् अवस्थाप्य दद्यात् ॥

07.11.42

इत्य् अनिभृत.संधिः ॥

07.11.43

समेन वा याचितः कारणम् अवेक्ष्य दद्यात् "प्रत्यादेया मे भूमिर् वश्या वा, अनया प्रतिबद्धः परो मे वश्यो भविष्यति^ भूमि.विक्रयाद् वा मित्र.हिरण्य.लाभः कार्य.सामर्थ्य.करो मे भविष्यति" इति ॥

07.11.44

तेन हीनः क्रेता व्याख्यातः ॥
कz07.11.45अब्। एवं मित्रं हिरण्यं च सजनाम् अजनां च गाम् ।
कz07.11.45च्द्। लभमानो^अतिसंधत्ते शास्त्रवित् सामवायिकान् ॥ए
(मित्र.हिरण्य.भूमि.कर्म.सम्धयह्, तत्र कर्म.सम्धिह्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc