अर्थशास्त्र · अध्याय 04.7
तैल.अभ्यक्तम् आशु.मृतकं परीक्षेत ॥
निष्कीर्ण.मूत्र.पुरीषं वात.पूर्ण.कोष्ठ.त्वक्कं शून.पाद.पाणिमान् मीलित.अक्षं सव्यञ्जन.कण्ठं पीटन.निरुद्ध.उच्छ्वास.हतं विद्यात् ॥
तम् एव संकुचित.बाहु.सक्थिम् उद्बन्ध.हतं विद्यात् ॥
शून.पाणि.पाद.उदरम् अपगत.अक्षम् उद्वृत्त.नाभिम् अवरोपितं विद्यात् ॥
निस्तब्ध.गुद.अक्षं संदष्ट.जिह्वम् आध्मात.उदरम् उदक.हतं विद्यात् ॥
शोणित.अनुसिक्तं भग्न.भिन्न.गात्रं काष्ठैर् अश्मभिर् वा हतं विद्यात् ॥
सम्भग्न.स्फुटित.गात्रम् अवक्षिप्तं विद्यात् ॥
श्याव.पाणि.पाद.दन्त.नखं शिथिल.मांस.रोम.चर्माणं फेन.उपदिग्ध.मुखं विष.हतं विद्यात् ॥
तम् एव स-शोणित.दंशं सर्प.कीट.हतं विद्यात् ।
विक्षिप्त.वस्त्र.गात्रम् अतिवन्त.विरिक्तं मदन.योग.हतं विद्यात् ॥
अतो^अन्यतमेन कारणेन हतं हत्वा वा दण्ड.भयाद् उद्बद्ध.निकृत्त.कण्ठं विद्यात् ॥
विष.हतस्य भोजन.शेषं वयोभिः परीक्षेत ॥
हृदयाद् उद्धृत्य^अग्नौ प्रक्षिप्तं चिटिचिटायद्.इन्द्र.धनुर्.वर्णं वा विष.युक्तं विद्यात्, दग्धस्य हृदयम् अदग्धं दृष्ट्वा वा ॥
तस्य परिचारक.जनं वाग्.दण्ड.पारुष्य.अतिलब्धं मार्गेत, दुःख.उपहतम् अन्य.प्रसक्तं वा स्त्री.जनं, दाय.वृत्ति.स्त्री.जन.अभिमन्तारं वा बन्धुम् ॥
तद् एव हत.उद्बद्धस्य परीक्षेत ॥
स्वयम् उद्बद्धस्य वा विप्रकारम् अयुक्तं मार्गेत ॥
सर्वेषां वा स्त्री.दायाद्य.दोषः कर्म.स्पर्धा प्रतिपक्ष.द्वेषः पण्य.संस्था.समवायो वा विवाद.पदानाम् अन्यतमद् वा रोष.स्थानम् ॥
रोष.निमित्तो घातः ॥
स्वयं.आदिष्ट.पुरुषैर् वा, चोरैर् अर्थ.निमित्तं, सादृश्याद् अन्य.वैरिभिर् वा हतस्य घातम् आसन्नेभ्यः परीक्षेत ॥
येन^आहूतः सह स्थितः प्रस्थितो हत.भूमिम् आनीतो वा तम् अनुयुञ्जीत ॥
ये च^अस्य हत.भूमाव् आसन्न.चरास् तान् एक.एकशः पृच्छेत् "केन^अयम् इह^आनीतो हतो वा, कः स.शस्त्रः संगूहमान उद्विग्नो वा युष्माभिर् दृष्टः" इति ॥
ते यथा ब्रूयुस् तथा^अनुयुञ्जीत ॥
कz04.7.23अब्। अनाथस्य शरीर.स्थम् उपभोगं परिच्छदम् ।
कz04.7.23च्द्। वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्.व्यवहारिणः ॥
कz04.7.24अब्। अनुयुञ्जीत संयोगं निवासं वास.कारणम् ।
कz04.7.24च्द्। कर्म च व्यवहारं च ततो मार्गणम् आचरेत् ॥
कz04.7.25अब्। रज्जु.शस्त्र.विषैर् वा^अपि काम.क्रोध.वशेन यः ।
कz04.7.25च्द्। घातयेत् स्वयम् आत्मानं स्त्री वा पापेन मोहिता ॥
कz04.7.26अब्। रज्जुना राज.मार्गे तांश् चण्डालेन^अपकर्षयेत् ।
कz04.7.26च्द्। न श्मशान.विधिस् तेषां न सम्बन्धि.क्रियास् तथा ॥
कz04.7.27अब्। बन्धुस् तेषां तु यः कुर्यात् प्रेत.कार्य.क्रिया.विधिम् ।
कz04.7.27च्द्। तद्.गतिं स चरेत् पश्चात् स्व.जनाद् वा प्रमुच्यते ॥
कz04.7.28अब्। संवत्सरेण पतति पतितेन समाचरन् ।
कz04.7.28च्द्। याजन.अध्यापनाद् यौनात् तैश् च^अन्यो^अपि समाचरन् ॥ए
(इन्वेस्तिगतिओन् थ्रोउघ् इन्तेर्रोगतिओन् अन्द् थ्रोउघ् तोर्तुरे)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0