भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 04.8

04.8.01

मुषित.संनिधौ बाह्यानाम् अभ्यन्तराणां च साक्षिणाम् अभिशस्तस्य देश.जाति.गोत्र.नाम.कर्म.सार.सहाय.निवासान् अनुयुञ्जीत ॥

04.8.02

तांश् च^अपदेशैः प्रतिसमानयेत् ॥

04.8.03

ततः पूर्वस्य^अह्नः प्रचारं रात्रौ निवासं च<चा> ग्रहणाद् इत्य् अनुयुञ्जीत ॥

04.8.04

तस्य^अपसार.प्रतिसंधाने शुद्धः स्यात्, अन्यथा कर्म.प्राप्तः ॥

04.8.05

त्रि.रात्राद् ऊर्ध्वम् अग्राह्यः शङ्कितकः पृच्छा.अभावाद् अन्यत्र^उपकरण.दर्शनात् ॥

04.8.06

अचोरं चोर इत्य् अभिव्याहरतश् चोर.समो दण्डः, चोरं प्रच्छादयतश् च ॥

04.8.07

चोरेण^अभिशस्तो वैर.द्वेषाभ्याम् अपदिष्टकः शुद्धः स्यात् ॥

04.8.08

शुद्धं परिवासयतः पूर्वः साहस.दण्डः ॥

04.8.09

शङ्का.निष्पन्नम् उपकरण.मन्त्रि.सहाय.रूप.वैयावृत्य.करान् निष्पादयेत् ॥

04.8.10

कर्मणश् च प्रदेश.द्रव्य.आदान.अंश.विभागैः प्रतिसमानयेत् ॥

04.8.11

एतेषां कारणानाम् अनभिसंधाने विप्रलपन्तम् अचोरं विद्यात् ॥

04.8.12

दृश्यते ह्य् अचोरो^अपि चोर.मार्गे यदृच्छया संनिपाते चोर.वेष.शस्त्र.भाण्ड.सामान्येन गृह्यमाणश् चोर.भाण्डस्य^उपवासेन वा, यथा^अणि.माण्डव्यः कर्म.क्लेश.भयाद् अचोरः "चोरो^अस्मि" इति ब्रुवाणः ॥

04.8.13

तस्मात् समाप्त.करणं नियमयेत् ॥

04.8.14

मन्द.अपराधं बालं वृद्धं व्याधितं मत्तम् उन्मत्तं क्षुत्.पिपासा.अध्व.क्लान्तम् अत्याशितम् आमक.अशितं दुर्बलं वा न कर्म कारयेत् ॥

04.8.15

तुल्य शील.पुंश्चली.प्रापाविक.कथा.अवकाश.भोजन.दातृभिर् अपसर्पयेत् ॥

04.8.16

एवम् अतिसंदध्यात्, यथा वा निक्षेप.अपहारे व्याख्यातम् ॥

04.8.17

आप्त.दोषं कर्म कारयेत्, न त्व् एव स्त्रियं गर्भिणीं सूतिकां वा मास.अवर.प्रजाताम् ॥

04.8.18

स्त्रियास् त्व् अर्ध.कर्म, वाक्य.अनुयोगो वा ॥

04.8.19

ब्राह्मणस्य सत्त्रि.परिग्रहः श्रुतवतस् तपस्विनश् च ॥

04.8.20

तस्य^अतिक्रम उत्तमो दण्डः कर्तुः कारयितुश् च, कर्मणा व्यापादनेन च ॥

04.8.21

व्यावहारिकं कर्म.चतुष्कं - षड् दण्डाः, सप्त कशाः, द्वाव् उपरि.निबन्धौ, उदक.नालिका च ॥

04.8.22

परं पाप.कर्मणां नव वेत्र.लताः, द्वादश कशाः, द्वाव् ऊरु.वेष्टौ, विंशतिर् नक्त.माल.लताः, द्वात्रिंशत्.तलाः, द्वौ वृश्चिक.बन्धौ, उल्लंबने च द्वे, सूची हस्तस्य, यवागू.पीतस्य एक.पर्व.दहनम् अङ्गुल्याः, स्नेह.पीतस्य प्रतापनम् एकम् अहः, शिशिर.रात्रौ बल्बज.अग्र.शय्या च ॥

04.8.23

इत्य् अष्टादशकं कर्म ॥

04.8.24

तस्य.उपकरणं प्रमाणं प्रहरणं प्रधरणम् अवधारणं च खर.पट्टाद् आगमयेत् ॥

04.8.25

दिवस.अन्तरम् एक.एकं च कर्म कारयेत् ॥

04.8.26

पूर्व.कृत.अपदानं प्रतिज्ञाय^अपहरन्तम् एक.देश.दृष्ट.द्रव्यं कर्मणा रूपेण वा गृहीतं राज.कोशम् अवस्तृणन्तं कर्म.वध्यं वा राज.वचनात् समस्तं व्यस्तम् अभ्यस्तं वा कर्म कारयेत् ॥

04.8.27

सर्व.अपराधेष्व् अपीडनीयो ब्राह्मणः ॥

04.8.28

तस्य^अभिशस्त.अङ्को ललाटे स्याद् व्यवहार.पतनाय, स्तेयो श्वा, मनुष्य.वधे कबन्धः, गुरु.तल्पे भगम्, सुरा.पाने मद्य.ध्वजः ॥
कz04.8.29अब्। ब्राह्मणं पाप.कर्माणम् उद्घुष्य^अङ्क.कृत.व्रणम् ।
कz04.8.29च्द्। कुर्यान् निर्विषयं राजा वासयेद् आकरेषु वा ॥ए
(केएपिन्ग् अ wअत्छ् ओवेर् ओffइचेर्स् ओf अल्ल् देपर्त्मेन्त्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc