भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 04.1

04.1.01

प्रदेष्टारस् त्रयस् त्रयो^अमात्याः कण्टक.शोधनं कुर्युः ॥

04.1.02

अर्थ्य.प्रतीकाराः कारु.शासितारः संनिक्षेप्तारः स्व.वित्त.कारवः श्रेणी.प्रमाणा निक्षेपं गृह्णीयुः ॥

04.1.03

विपत्तौ श्रेणी निक्षेपं भजेत ॥

04.1.04

निर्दिष्ट.देश.काल.कार्यं च कर्म कुर्युः, अनिर्दिष्ट.देश.कालं कार्य.अपदेशम् ॥

04.1.05

काल.अतिपातने पाद.हीनं वेतनं तद्.द्वि.गुणश् च दण्डः ॥

04.1.06

अन्यत्र भ्रेष.उपनिपाताभ्यां नष्टं विनष्टं वा^अभ्यावहेयुः ॥

04.1.07

कार्यस्य^अन्यथा.करणे वेतन.नाशस् तद्.द्वि.गुणश् च दण्डः ॥

04.1.08

तन्तु.वाया दश.एकादशिकं सूत्रं वर्धयेयुः ॥

04.1.09

वृद्धिच्.छेदे छेद.द्वि.गुणो दण्डः ॥

04.1.10

सूत्र.मूल्यं वान.वेतनं, क्षौम.कौशेयानाम् अध्यर्ध.गुणं, पत्त्र.ऊर्णा.कम्बल.दुकूलानां द्वि.गुणम् ॥

04.1.11

मान.हीने हीन.अवहीनं वेतनं तद्.द्वि.गुणश् च दण्डः, तुला.हीने हीन.चतुर्.गुणो दण्डः, सूत्र.परिवर्तने मूल्य.द्वि.गुणः ॥

04.1.12

तेन द्वि.पट.वानं व्याख्यातम् ॥

04.1.13

ऊर्णा.तुलायाः पञ्च.पलिको विहननच्.छेदो रोमच्.छेदश् च ॥

04.1.14

रजकाः काष्ठ.फलक.श्लक्ष्ण.शिलासु वस्त्राणि नेनिज्युः ॥

04.1.15

अन्यत्र नेनिजतो वस्त्र.उपघातं षट्.पणं च दण्डं दद्युः ॥

04.1.16

मुद्गर.अङ्काद् अन्यद् वासः परिदधानास् त्रि.पणं दण्डं दद्युः ॥

04.1.17

पर.वस्त्र.विक्रय.अवक्रय.आधानेषु च द्वादश.पणो दण्डः, परिवर्तने मूल्य.द्वि.गुणो वस्त्र.दानं च ॥

04.1.18

मुकुल.अवदातं शिला.पट्ट.शुद्धं धौत.सूत्र.वर्णं प्रमृष्ट.श्वेतं च^एक.रात्र.उत्तरं दद्युः ॥

04.1.19

पञ्च.रात्रिकं तनु.रागं, षड्.रात्रिकं नीलं, पुष्प.लाक्षा.मञ्जिष्ठा.रक्तं गुरु.परिकर्म यत्न.उपचार्यं जात्यं वासः सप्त.रात्रिकम् ॥

04.1.20

ततः परं वेतन.हानिं प्राप्नुयुः ॥

04.1.21

श्रद्धेया राग.विवादेषु वेतनं कुशलाः कल्पयेयुः ॥

04.1.22

परार्ध्यानां पणो वेतनं, मध्यमानाम् अर्ध.पणः, प्रत्यवराणां पादः, स्थूलकानां माषक.द्वि.माषकं, द्वि.गुणं रक्तकानाम् ॥

04.1.23

प्रथम.नेजने चतुर्.भागः क्षयः, द्वितीये पञ्च.भागः ॥

04.1.24

तेन^उत्तरं व्याख्यातम् ॥

04.1.25

रजकैस् तुन्न.वाया व्याख्याताः ॥

04.1.26

सुवर्ण.काराणाम् अशुचि.हस्ताद् रूप्यं सुवर्णम् अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः, विरूपं चतुर्.विंशति.पणः, चोर.हस्ताद् अष्ट.चत्वारिंशत्.पणः ॥

04.1.27

प्रच्छन्न.विरूप.मूल्य.हीन.क्रयेषु स्तेय.दण्डः, कृत.भाण्ड.उपधौ च ॥

04.1.28

सुवर्णान् माषकम् अपहरतो द्वि.शतो दण्डः, रूप्य.धरणान् माषकम् अपहरतो द्वादश.पणः ॥

04.1.29

तेन^उत्तरं व्याख्यातम् ॥

04.1.30

वर्ण.उत्कर्षम् अपसारणं योगं वा साधयतः पञ्च.शतो दण्डः ॥

04.1.31

तयोर् अपचरणे रागस्य^अपहारं विद्यात् ॥

04.1.32

माषको वेतनं रूप्य.धरणस्य, सुवर्णस्य^अष्ट.भागः ॥

04.1.33

शिक्षा.विशेषेण द्वि.गुणो वेतन.वृद्धिः ॥

04.1.34

तेन^उत्तरं व्याख्यातम् ॥

04.1.35

ताम्र.वृत्त.कंस.वैकृन्तक.आर.कूटकानां पञ्चकं शतं वेतनम् ॥

04.1.36

ताम्र.पिण्डो दश.भाग.क्षयः ॥

04.1.37

पल.हीने हीन.द्वि.गुणो दण्डः ॥

04.1.38

तेन^उत्तरं व्याख्यातम् ॥

04.1.39

सीस.त्रपु.पिण्डो विंशति.भाग.क्षयः ॥

04.1.40

काकणी च^अस्य पल.वेतनम् ॥

04.1.41

काल.आयस.पिण्डः पञ्च.भाग.क्षयः ॥

04.1.42

काकणी.द्वयं च^अस्य पल.वेतनम् ॥

04.1.43

तेन^उत्तरं व्याख्यातम् ॥

04.1.44

रूप.दर्शकस्य स्थितां पण.यात्राम् अकोप्यां कोपयतः कोप्याम् अकोपयतो द्वादश.पणो दण्डः ॥

04.1.45

व्याजी.परिशुद्धौ पण.यात्रा ॥

04.1.46

पणान् माषकम् उपजीवतो द्वादश.पणो दण्डः ॥

04.1.47

तेन^उत्तरं व्याख्यातम् ॥

04.1.48

कूट.रूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः, कोशे प्रक्षिपतो वधः ॥

04.1.49

चरक.पांसु.धावकाः सार.त्रि.भागं, द्वौ राजा रत्नं च ॥

04.1.50

रत्न.अपहार उत्तमो दण्डः ॥

04.1.51

खनि.रत्न.निधि.निवेदनेषु षष्ठम् अंशं निवेत्ता लभेत, द्वादशम् अंशं भृतकः ॥

04.1.52

शत.सहस्राद् ऊर्ध्वं राज.गामी निधिः ॥

04.1.53

ऊने षष्ठम् अंशं दद्यात् ॥

04.1.54

पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व.करणेन समग्रं लभेत ॥

04.1.55

स्व.करण.अभावे पञ्च.शतो दण्डः, प्रच्छन्न.आदाने सहस्रम् ॥

04.1.56

भिषजः प्राण.आबाधिकम् अनाख्याय^उपक्रममाणस्य विपत्तौ पूर्वः साहस.दण्डः, कर्म.अपराधेन विपत्तौ मध्यमः ॥

04.1.57

मर्म.वध.वैगुण्य.करणे दण्ड.पारुष्यं विद्यात् ॥

04.1.58

कुशीलवा वर्षा.रात्रम् एकस्था वसेयुः ॥

04.1.59

काम.दानम् अतिमात्रम् एकस्य^अतिवादं च वर्जयेयुः ॥

04.1.60

तस्य^अतिक्रमे द्वादश.पणो दण्डः ॥

04.1.61

कामं देश.जाति.गोत्र.चरण.मैथुन.अवहासेन नर्मयेयुः ॥

04.1.62

कुशीलवैश् चारणा भिक्षुकाश् च व्याख्याताः ॥

04.1.63

तेषाम् अयः.शूलेन यावतः पणान् अभिवदेयुस् तावन्तः शिफा.प्रहारा दण्डाः ॥

04.1.64

शेषाणां कर्मणां निष्पत्ति.वेतनं शिल्पिनां कल्पयेत् ॥
कz04.1.65अब्। एवं चोरान् अचोर.आख्यान् वणिक्.कारु.कुशीलवान् ।
कz04.1.66च्द्। भिक्षुकान् कुहकांश् च^अन्यान् वारयेद् देश.पीडनात् ॥ए
(केएपिन्ग् अ wअत्छ् ओवेर् त्रदेर्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc