भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 03.20

03.20.01

द्यूत.अध्यक्षो द्यूतम् एक.मुखं कारयेत् ॥

03.20.02

अन्यत्र दीव्यतो द्वादश.पणो दण्डो गूढ.आजीवि.ज्ञापन.अर्थम् ॥

03.20.03

"द्यूत.अभियोगे जेतुः पूर्वः साहस.दण्डः, पराजितस्य मध्यमः ॥

03.20.04

बालिश.जातीयो ह्य् एष जेतु.कामः पराजयं न क्षमते" इत्य् आचार्याः ॥

03.20.05

न^इत्य् कौटिल्यः ॥

03.20.06

पराजितश् चेद् द्वि.गुण.दण्डः क्रियेत न कश्चन राजानम् अभिसरिष्यति ॥

03.20.07

प्रायशो हि कितवाः कूट.देविनः ॥

03.20.08

तेषाम् अध्यक्षाः शुद्धाः काकणीर् अक्षांश् च स्थापयेयुः ॥

03.20.09

काकण्य्.अक्षाणाम् अन्य.उपधाने द्वादश.पणो दण्डः, कूट.कर्मणि पूर्वः साहस.दण्डो जित.प्रत्यादानम्, उपधौ स्तेय.दण्डश् च ॥

03.20.10

जित.द्रव्याद् अध्यक्षः पञ्चकं शतम् आददीत, काकण्य्.अक्ष.अराला.शलाका.अवक्रयम् उदक.भूमि.कर्म.क्रयं च ॥

03.20.11

द्रव्याणाम् आधानं विक्रयं च कुर्यात् ॥

03.20.12

अक्ष.भूमि.हस्त.दोषाणां च^अप्रतिषेधने द्वि.गुणो दण्डः ॥

03.20.13

तेन समाह्वयो व्याख्यातः, अन्यत्र विद्या.शिल्प.समाह्वयात् । इति ॥

03.20.14

प्रकीर्णकं तु - याचितक.अवक्रीतक.आहितक.निक्षेपकाणां यथा.देश.कालम् अदाने, यामच्.छाया.समुपवेश.संस्थितीनां वा देश.काल.अतिपातने, गुल्मतर.देयं ब्राह्मणं साधयतः, प्रतिवेश.अनुवेशयोर् उपरि निमन्त्रणे च द्वादश.पणो दण्डः ॥

03.20.15

संदिष्टम् अर्थम् अप्रयच्छतो, भ्रातृ.भार्यां हस्तेन लङ्घयतो, रूप.आजीवाम् अन्य.उपरुद्धां गच्छतः, पर.वक्तव्यं पण्यं क्रीणानस्य, समुद्रं गृहम् उद्भिन्दतः, सामन्त.चत्वारिंशत्.कुल्य.आबाधाम् आचरतश् च^अष्ट.चत्वारिंशत्.पणो दण्डः ॥

03.20.16

कुल.नीवी.ग्राहकस्य^अपव्ययने, विधवां छन्द.वासिनीं प्रसह्य^अधिचरतः, चण्डालस्य^आर्यां स्पृशतः, प्रत्यासन्नम् आपद्य् अनभिधावतो, निष्कारणम् अभिधावनं कुर्वतः, शाक्य.आजीवक.आदीन् वृषल.प्रव्रजितान् देव.पितृ.कार्येषु भोजयतः शत्यो दण्डः ॥

03.20.17

शपथ.वाक्य.अनुयोगम् अनिषृष्टं कुर्वतः, युक्त.कर्म च^अयुक्तस्य, क्षुद्र.पशु.वृषाणां पुंस्त्व.उपघातिनः, दास्या गर्भम् औषधेन पातयतश् च पूर्वः साहस.दण्डः ॥

03.20.18

पिता.पुत्रयोर् दम्पत्योर् भ्रातृ.भगिन्योर् मातुल.भगिनेययोः शिष्य.आचार्ययोर् वा परस्परम् अपतितं त्यजतः, सार्थ.आभिप्रयातं ग्राम.मध्ये वा त्यजतः पूर्वः साहस.दण्डः, कान्तारे मध्यमः, तन्.निमित्तं भ्रेषयत उत्तमः, सह.प्रस्थायिष्व् अन्येष्व् अर्ध.दण्डाः ॥

03.20.19

पुरुषम् अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो, बालम् अप्राप्त.व्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः ॥

03.20.20

पुरुष.अपराध.विशेषेण दण्ड.विशेषः कार्यः ॥

03.20.21

तीर्थ.करस् तपस्वी व्याधितः क्षुत्.पिपासा.अध्व.क्लान्तस् तिरो.जन.पदो दण्ड.खेदी निष्किंचनश् च^अनुग्राह्याः ॥

03.20.22

देव.ब्राह्मण.तपस्वि.स्त्री.बाल.वृद्ध.व्याधितानाम् अनाथानाम् अनभिसरतां धर्मस्थाः कार्याणि कुर्युः, न च देश.काल.भोगच्.छलेन^अतिहरेयुः ॥

03.20.23

पूज्या विद्या.बुद्धि.पौरुष.अभिजन.कर्म.अतिशयतश् च पुरुषाः ॥
कz03.20.24अब्। एवं कार्याणि धर्मस्थाः कुर्युर् अच्छल.दर्शिनः ।
कz03.20.24च्द्। समाः सर्वेषु भावेषु विश्वास्या लोक.सम्प्रियाः ॥ए
(षुप्प्रेस्सिओन् ओf च्रिमिनल्स्)
(केएपिन्ग् अ wअत्छ् ओवेर् अर्तिसन्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc