अर्थशास्त्र · अध्याय 03.9
ज्ञाति.सामन्त.धनिकाः क्रमेण भूमि.परिग्रहान् क्रेतुम् अभ्याभवेयुः ॥
ततो^अन्ये बाह्याः ॥
सामन्त.चत्वारिंशत्.कुल्येषु गृह.प्रतिमुखे वेश्म श्रावयेयुः, सामन्त.ग्राम.वृद्धेषु क्षेत्रम् आरामं सेतु.बन्धं तटाकम् आधारं वा मर्यादासु यथा.सेतु.भोगं "अनेन^अर्घेण कः क्रेता" इति ॥
त्रिर् आघुषितम् अव्याहतं क्रेता क्रेतुं लभेत ॥
स्पर्धया वा मूल्य.वर्धने मूल्य.वृद्धिः स-शुल्का कोशं गच्छेत् ॥
विक्रय.प्रतिक्रोष्टा शुल्कं दद्यात् ॥
अस्वामि.प्रतिक्रोशे चतुर्.विंशति.पणो दण्डः ॥
सप्त.रात्राद् ऊर्ध्वम् अनभिसरतः प्रतिक्रुष्टो विक्रीणीत ॥
प्रतिक्रुष्ट.अतिक्रमे वास्तुनि द्विशतो दण्डः, अन्यत्र चतुर्.विंशति.पणो दण्डः ॥ इति वास्तु.विक्रयः ।
सीम.विवादं ग्रामयोर् उभयोः सामन्ता पञ्च.ग्रामी दश.ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर् वा कुर्यात् ॥
कर्षक.गो.पालक.वृद्धाः पूर्व.भुक्तिका वा बाह्याः सेतूनाम् अभिज्ञा बहव एको वा निर्दिश्य सीम.सेतून् विपरीत.वेषाः सीमानं नयेयुः ॥
उद्दिष्टानां सेतूनाम् अदर्शने सहस्रं दण्डः ।
तद् एव नीते सीम.अपहारिणां सेतुच्.छिदां च कुर्यात् ॥
प्रनष्ट.सेतु.भोगं वा सीमानं राजा यथा.उपकारं विभजेत् ॥ इति सीम.विवादः ।
क्षेत्र.विवादं सामन्त.ग्राम.वृद्धाः कुर्युः ॥
तेषां द्वैधी.भावे यतो बहवः शुचयो^अनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ॥
तद्.उभय.परा.उक्तं वास्तु राजा हरेत्, प्रनष्ट.स्वामिकं च ॥
यथा.उपकारं वा विभजेत् ॥
प्रसह्य.आदाने वास्तुनि स्तेय.दण्डः ॥
कारण.आदाने प्रयासम् आजीवं च परिसंख्याय बन्धं दद्यात् ॥ इति क्षेत्र.विवादः ।
मर्यादा.अपहरणे पूर्वः साहस.दण्डः ॥
मर्यादा.भेदे चतुर्.विंशति.पणः ॥
तेन तपो.वन.विवीत.महा.पथ.श्मशान.देव.कुल.यजन.पुण्य.स्थान.विवादा व्याख्याताः ॥ इति मर्यादा.स्थापनम् ।
सर्व एव विवादाः सामन्त.प्रत्ययाः ॥
विवीत.स्थल.केदार.षण्ड.खल.वेश्म.वाहन.कोष्ठानां पूर्वं.पूर्वम् आबाधं सहेत ॥
ब्रह्म.सोम.अरण्य.देव.यजन.पुण्य.स्थान.वर्जाः स्थल.प्रदेशाः ॥
आधार.परिवाह.केदार.उपभोगैः पर.क्षेत्र.कृष्ट.बीज.हिंसायां यथा.उपघातं मूल्यं दद्युः ॥
केदार.आराम.सेतु.बन्धानां परस्पर.हिंसायां हिंसा.द्वि.गुणो दण्डः ॥
पश्चान्.निविष्टम् अधर.तटाकं न^उपरि.तटाकस्य केदारम् उदकेन^आप्लावयेत् ॥
उपरि.निविष्टं न^अधर.तटाकस्य पूर.आस्रावं वारयेद्, अन्यत्र त्रि.वर्ष.उपरत.कर्मणः ॥
तस्य^अतिक्रमे पूर्वः साहस.दण्डः, तटाक.वामनं च ॥
पञ्च.वर्ष.उपरत.कर्मणः सेतु.बन्धस्य स्वाम्यं लुप्येत, अन्यत्र^आपद्भ्यः ॥
तटाक.सेतु.बन्धानां नव.प्रवर्तने पाञ्चवर्षिकः परिहारः, भग्न.उत्सृष्टानां चातुर्वर्षिकः, समुपारूढानां त्रैवर्षिकः, स्थलस्य द्वैवर्षिकः ॥
स्व.आत्म.आधाने विक्रये च ॥
खात.प्रावृत्तिम् अनदी.निबन्ध.आयतन.तटाक.केदार.आराम.षण्ड.वापानां सस्य.वर्ण.भाग.उत्तरिकम् अन्येभ्यो वा यथा.उपकारं दद्युः ॥
प्रक्रय.अवक्रय.अधिभाग.भोगनिषृष्ट.उपभोक्तारश् च^एषां प्रतिकुर्युः ॥
अर्पतीकारे हीन.द्वि.गुणो दण्डः ॥
कz03.9.38अब्। सेतुभ्यो मुञ्चतस् तोयम् अवारे षट्.पणो दमः ।
कz03.9.38च्द्। वारे वा तोयम् अन्येषां प्रमादेन^उपरुन्धतः ॥ए
(डमगे तो पस्तुरेस्, fइएल्द्स् अन्द् रोअद्स्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0