भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 03.10

03.10.01

कर्म.उदक.मार्गम् उचितं रुन्धतः कुर्वतो^अनुचितं वा पूर्वः साहस.दण्डः, सेतु.कूप.पुण्य.स्थान.चैत्य.देव.आयतनानि च पर.भूमौ निवेशयतः ॥

03.10.02

पूर्व.अनुवृत्तं धर्म.सेतुम् आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहस.दण्डः, श्रोतृऋणाम् उत्तमः, अन्यत्र भग्न.उत्सृष्टात् ॥

03.10.03

स्वाम्य् अभावे ग्रामाः पुण्य.शीला वा प्रतिकुर्युः ॥

03.10.04

पथि.प्रमाणं दुर्ग.निवेशे व्याख्यातम् ॥

03.10.05

क्षुद्र.पशु.मनुष्य.पथं रुन्धतो द्वादश.पणो दण्डः, महा.पशु.पथं चतुर्.विंशति.पणः, हस्ति.क्षेत्र.पथं चतुष्.पञ्चाशत्.पणः, सेतु.वन.पथं षट्.शतः, श्मशान.ग्राम.पथं द्विशतः, द्रोण.मुख.पथं पञ्च.शतः, स्थानीय.राष्ट्र.विवीत.पथं साहस्रः ॥

03.10.06

अतिकर्षणे च^एषां दण्ड.चतुर्था दण्डाः ॥

03.10.07

कर्षणे पूर्व.उक्ताः ॥

03.10.08

क्षेत्रिकस्य^अक्षिपतः क्षेत्रम् उपवासस्य वा त्यजतो बीज.काले द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥

03.10.09

करदाः करदेष्व् आधानं विक्रयं वा कुर्युः, ब्रह्म.देयिका ब्रह्म.देयिकेषु ॥

03.10.10

अन्यथा पूर्वः साहस.दण्डः ॥

03.10.11

करदस्य वा^अकरद.ग्रामं प्रविशतः ॥

03.10.12

करदं तु प्रविशतः सर्व.द्रव्येषु प्राकाम्यं स्यात्, अन्यत्र^अगारात् ॥

03.10.13

तद् अप्य् अस्मै दद्यात् ॥

03.10.14

अनादेयम् अकृषतो^अन्यः पञ्च.वर्षाण्य् उपभुज्य प्रयास.निष्क्रयेण दद्यात् ॥

03.10.15

अकरदाः परत्र वसन्तो भोगम् उपजीवेयुः ॥

03.10.16

ग्राम.अर्थेन ग्रामिकं व्रजन्तम् उपवासाः पर्यायेण^अनुगच्छेयुः ॥

03.10.17

अननुगच्छन्तः पण.अर्ध.पणिकं योजनं दद्युः ॥

03.10.18

ग्रामिकस्य ग्रामाद् अस्तेन.पारदारिकं निरस्यतश् चतुर्.विंशति.पणो दण्डः, ग्रामस्य^उत्तमः ॥

03.10.19

निरस्तस्य प्रवेशो ह्य् अभिगमेन व्याख्यातः ॥

03.10.20

स्तम्भैः समन्ततो ग्रामाद् धनुः.शत.अपकृष्टम् उपसालं कारयेत् ॥

03.10.21

पशु.प्रचार.अर्थं विवीतम् आलवनेन^उपजीवेयुः ॥

03.10.22

विवीतं भक्षयित्वा^अपसृतानाम् उष्ट्र.महिषाणां पादिकं रूपं गृह्णीयुः, गव.अश्व.खराणां च^अर्ध.पादिकम्, क्षुद्र.पशूनां षोडश.भागिकम् ॥

03.10.23

भक्षयित्वा निषण्णानाम् एत एव द्वि.गुणा दण्डाः, परिवसतां चतुर्.गुणाः ॥

03.10.24

ग्राम.देव.वृषा वा^अनिर्दश.अहा वा धेनुर् उक्षाणो गो.वृषाश् च^अदण्ड्याः ॥

03.10.25

सस्य.भक्षणे सस्य.उपघातं निष्पत्तितः परिसंख्याय द्वि.गुणं दापयेत् ॥

03.10.26

स्वामिनश् च^अनिवेद्य चारयतो द्वादश.पणो दण्दः, प्रमुञ्चतश् चतुर्.विंशति.पणः ॥

03.10.27

पालिनाम् अर्ध.दण्डाः ॥

03.10.28

तद् एव षण्ड.भक्षणे कुर्यात् ॥

03.10.29

वाट.भेदे द्वि.गुणः वेश्म.खल.वलय.गतानां च धान्यानां भक्षणे ॥

03.10.30

हिंसा.प्रतीकारं कुर्यात् ॥

03.10.31

अभय.वन.मृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथा^अवध्यास् तथा प्रतिषेद्धव्याः ॥

03.10.32

पशवो रश्मि.प्रतोदाभ्यां वारयितव्याः ॥

03.10.33

तेषाम् अन्यथा हिंसायां दण्ड.पारुष्य.दण्डाः ॥

03.10.34

प्रार्थयमाना दृष्ट.अपराधा वा सर्व.उपायैर् नियन्तव्याः ॥ इति क्षेत्र.पथ.हिंसा ।

03.10.35

कर्षकस्य ग्रामम् अभ्युपेत्य^अकुर्वतो ग्राम एव^अत्ययं हरेत् ॥

03.10.36

कर्म.अकरणे कर्म.वेतन.द्वि.गुणम्, हिरण्य.अदाने प्रत्यंश.द्वि.गुणम्, भक्ष्य.पेय.अदाने च प्रहवणेषु द्वि.गुणम् अंशं दद्यात् ॥

03.10.37

प्रेक्षायाम् अनंशदः, स-स्व.जनो न प्रेक्षेत ॥

03.10.38

प्रच्छन्न.श्रवण.ईक्षणे च सर्व.हिते च कर्मणि निग्रहेण द्वि.गुणम् अंशं दद्यात् ॥

03.10.39

सर्व.हितम् एकस्य ब्रुवतः कुर्युर् आज्ञाम् ॥

03.10.40

अकरणे द्वादश.पणो दण्डः ॥

03.10.41

तं चेत् सम्भूय वा हन्युः पृथग् एषाम् अपराध.द्वि.गुणो दण्डः ॥

03.10.42

उपहन्तृषु विशिष्टः ॥

03.10.43

ब्राह्मणश् च^एषां ज्यैष्ठ्यं नियम्येत ॥

03.10.44

प्रहवणेषु च^एषां ब्राह्मणा न^अकामाः कुर्युः, अंशं च लभेरन् ॥

03.10.45

तेन देश.जाति.कुल.संघानां समयस्य^अनपाकर्म व्याख्यातम् ॥
कz03.10.46अब्। राजा देश.हितान् सेतून् कुर्वतां पथि संक्रमान् ।
कz03.10.46च्द्। ग्राम.शोभाश् च रक्षाश् च तेषां प्रिय.हितं चरेत् ॥ए
(णोन्-पय्मेन्त् ओf देब्त्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc