भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 03.2

03.2.01

विवाह.पूर्वो व्यवहारः ॥

03.2.02

कन्या.दानं कन्याम् अलंकृत्य ब्राह्मो विवाहः ॥

03.2.03

सह.धर्म.चर्या प्राजापत्यः ॥

03.2.04

गो.मिथुन.आदानाद् आर्षः ॥

03.2.05

अन्तर्.वेद्याम् ऋत्विजे दानाद् दैवः ॥

03.2.06

मिथः.समवायाद् गान्धर्वः ॥

03.2.07

शुल्क.आदानाद् आसुरः ॥

03.2.08

प्रसह्य.आदानाद् राक्षसः ॥

03.2.09

सुप्त.मत्त.आदानात् पैशाचः ॥

03.2.10

पितृ.प्रमाणाश् चत्वारः पूर्वे धर्म्याः, माता.पितृ.प्रमाणाः शेषाः ॥

03.2.11

तौ हि शुल्क.हरौ दुहितुः, अन्यतर.अभावे^अन्यतरो वा ॥

03.2.12

द्वितीयं शुल्कं स्त्री हरेत ॥

03.2.13

सर्वेषां प्रीत्य्.आरोपणम् अप्रतिषिद्धम् ॥ इति विवाह.धर्मः ।

03.2.14

वृत्तिर् आबन्ध्यं वा स्त्री.धनम् ॥

03.2.15

पर.द्वि.साहस्रा स्थाप्या वृत्तिः, आबन्ध्य.अनियमः ॥

03.2.16

तद् आत्म.पुत्र.स्नुषा.भर्मणि प्रवास.अप्रतिविधाने च भार्याया भोक्तुम् अदोषः, प्रतिरोधक.व्याधि.दुर्भिक्ष.भय.प्रतीकारे धर्म.कार्ये च पत्युः, सम्भूय वा दम्पत्योर् मिथुनं प्रजातयोः ॥

03.2.17

त्रि.वर्ष.उपभुक्तं च धर्मिष्ठेषु विवाहेषु न^अनुयुञ्जीत ॥

03.2.18

गान्धर्व.आसुर.उपभुक्तं स-वृद्धिकम् उभयं दाप्येत, राक्षस.पैशाच.उपभुक्तं स्तेयं दद्यात् ॥

03.2.19

मृते भर्तरि धर्म.कामा तदानीम् एव स्थाप्य^आभरणं शुल्क.शेषं च लभेत ॥

03.2.20

लब्ध्वा वा विन्दमाना स-वृद्धिकम् उभयं दाप्येत ॥

03.2.21

कुटुम्ब.कामा तु श्वशुर.पति.दत्तं निवेश.काले लभेत ॥

03.2.22

निवेश.कालं हि दीर्घ.प्रवासे व्याख्यास्यामः ॥

03.2.23

श्वशुर.प्रातिलोम्येन वा निविष्टा श्वशुर.पति.दत्तं जीयेत ॥

03.2.24

ज्ञाति.हस्ताद्.अभिमृष्टाया ज्ञातयो यथा.गृहीतं दद्युः ॥

03.2.25

न्याय.उपगतायाः प्रतिपत्ता स्त्री.धनं गोपयेत् ॥

03.2.26

पति.दायं विन्दमाना जीयेत ॥

03.2.27

धर्म.कामा भुञ्जीत ॥

03.2.28

पुत्रवती विन्दमाना स्त्री.धनं जीयेत ॥

03.2.29

तत् तु स्त्री.धनं पुत्रा हरेयुः ॥

03.2.30

पुत्र.भरण.अर्थं वा विन्दमाना पुत्र.अर्थं स्फाती.कुर्यात् ॥

03.2.31

बहु.पुरुष.प्रजानां पुत्राणां यथा.पितृ.दत्तं स्त्री.धनम् अवस्थापयेत् ॥

03.2.32

काम.करणीयम् अपि स्त्री.धनं विन्दमाना पुत्र.संस्थं कुर्यात् ॥

03.2.33

अपुत्रा पति.शयनं पालयन्ती गुरु.समीपे स्त्री.धनम् आयुः.क्षयाद् भुञ्जीत ॥

03.2.34

आपद्.अर्थं हि स्त्री.धनम् ॥

03.2.35

ऊर्ध्वं दायादं गच्छेत् ॥

03.2.36

जीवति भर्तरि मृतायाः पुत्रा दुहितरश् च स्त्री.धनं विभजेरन्, अपुत्राया दुहितरः, तद्.अभावे भर्ता ॥

03.2.37

शुल्कम् अन्वाधेयम् अन्यद् वा बन्धुभिर् दत्तं बान्धवा हरेयुः ॥ इति स्त्री.धन.कल्पः ।

03.2.38

वर्षाण्य् अष्टाव् अप्रजायमानाम् अपुत्रां वन्ध्यां च^आकाङ्क्षेत, दश निन्दुम्, द्वादश कन्या.प्रसविनीम् ॥

03.2.39

ततः पुत्र.अर्थी द्वितीयां विन्देत ॥

03.2.40

तस्य^अतिक्रमे शुल्कं स्त्री.धनम् अर्धं च^आधिवेदनिकं दद्यात्, चतुर्.विंशति.पण.परं च दण्डम् ॥

03.2.41

शुल्कं स्त्री.धनम् अशुल्क.स्त्री.धनायास् तत्.प्रमाणम् आधिवेदनिकम् अनुरूपां च वृत्तिं दत्त्वा बह्वीर् अपि विन्देत ॥

03.2.42

पुत्र.अर्था हि स्त्रियः ॥

03.2.43

तीर्थ.समवाये च^आसां यथा.विवाहं पूर्व.ऊढां जीवत्.पुत्रां वा पूर्वं गच्छेत् ॥

03.2.44

तीर्थ.गूहन.आगमने षण्.णवतिर् दण्डः ॥

03.2.45

पुत्रवतीं धर्म.कामां वन्ध्यां निन्दुं नीरजस्कां वा न^अकामाम् उपेयात् ॥

03.2.46

न च^अकामः पुरुषः कुष्ठिनीम् उन्मत्तां वा गच्छेत् ॥

03.2.47

स्त्री तु पुत्र.अर्थम् एवं.भूतं वा^उपगच्छेत् ॥
कz03.2.48अब्। नीचत्वं पर.देशं वा प्रस्थितो राज.किल्बिषी ।
कz03.2.48च्द्। प्राण.अभिहन्ता पतितस् त्याज्यः क्लीबो^अपि वा पतिः ॥ए
((इव्) ंअरितल् दुत्य्^ (व्) ंऐन्तेनन्चे^ (वि) च्रुएल्त्य्^ (वी) डिसffएच्तिओन्^ (वीइ) ंइस्चोन्दुच्त्^ (इx) प्रोहिबितिओन् ओf fअवोउर्स् अन्द् देअलिन्ग्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc