अर्थशास्त्र · अध्याय 03.1
धर्मस्थास् त्रयस् त्रयो^अमात्या जन.पद.संधि.संग्रहण.द्रोण.मुख.स्थानीयेषु व्यावहारिकान् अर्थान् कुर्युः ॥
तिरोहित.अन्तर्.अगार.नक्त.अरण्य.उपध्य्.उपह्वर.कृतांश् च व्यवहारान् प्रतिषेधयेयुः ॥
कर्तुः कारयितुः पूर्वः साहस.दण्डः ॥
श्रोतृऋणाम् एक.एकं प्रत्यर्ध.दण्डाः ॥
श्रद्धेयानां तु द्रव्य.व्यपनयः ॥
परोक्षेण^अधिक.ऋण.ग्रहणम् अवक्तव्य.करा वा तिरोहिताः सिध्येयुः ॥
दाय.निक्षेप.उपनिधि.विवाह.युक्ताः स्त्रीणाम् अनिष्कासिनीनां व्याधितानां च^अमूढ.संज्ञानाम् अन्तर्.अगार.कृताः सिध्येयुः ॥
साहस.अनुप्रवेश.कलह.विवाह.राज.नियोग.युक्ताः पूर्व.रात्र.व्यवहारिणां च रात्रि.कृताः सिध्येयुः ॥
सार्थ.व्रज.आश्रम.व्याध.चारण.मध्येष्व् अरण्य.चराणाम् अरण्य.कृताः सिध्येयुः ॥
गूढ.आजीविषु च^उपधि.कृताः सिध्येयुः ॥
मिथः.समवाये च^उपह्वर.कृताः सिध्येयुः ॥
अतो^अन्यथा न सिध्येयुः, अपाश्रयवद्भिश् च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, कनिष्ठेन^अविभक्त.अंशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दास.आहितकाभ्याम्, अप्राप्त.अतीत.व्यवहाराभ्याम्, अभिशस्त.प्रव्रजित.न्यङ्ग.व्यसनिभिश् च, अन्यत्र निषृष्ट.व्यवहारेभ्यः ॥
तत्र^अपि क्रुद्धेन^आर्तेन मत्तेन.उन्मत्तेन^अवगृहीतेन वा कृता व्यवहारा न सिध्येयुः ॥
कर्तृ.कारयितृ.श्रोतृऋणां पृथग् यथा.उक्ता दण्डाः ॥
स्वे स्वे तु वर्गे देशे काले च स्व.करण.कृताः सम्पूर्ण.आचाराः शुद्ध.देशा दृष्ट.रूप.लक्षण.प्रमाण.गुणाः सर्व.व्यवहाराः सिध्येयुः ॥
पश्चिमं च^एषां करणम् आदेश.आधिवर्जं श्रद्धेयम् ॥ इति व्यवहार.स्थापना ।
संवत्सरम् ऋतुं मासं पक्षं दिवसं करणम् अधिकरणम् ऋणं वेदक.आवेदकयोः कृत.समर्थ.अवस्थयोर् देश.ग्राम.जाति.गोत्र.नाम.कर्माणि च^अभिलिख्य वादि.प्रतिवादि.प्रश्नान् अर्थ.आनुपूर्व्या निवेशयेत् ॥
निविष्टांश् च^अवेक्षेत ॥
निबद्धं वादम् उत्सृज्य^अन्यं वादं संक्रामति, पूर्व.उक्तं पश्चिमेन^अर्थेन न^अभिसंधत्ते, पर.वाक्यम् अनभिग्राह्यम् अभिग्राह्य^अवतिष्ठते, प्रतिज्ञाय देशं निर्दिश^इत्य् उक्ते न निर्दिशति, हीन.देशम् अदेशं वा निर्दिशति, निर्दिष्टाद् देशाद् अन्यं देशम् उपस्थापयति, उपस्थिते देशे^अर्थ.वचनं न^एवम् इत्य् अपव्ययते, साक्षिभिर् अवधृतं न^इच्छति,
असम्भाष्ये देशे साक्षिभिर् मिथः सम्भाषते, इति परा.उक्त.हेतवः ॥
परा.उक्त.दण्डः पञ्च.बन्धः ॥
स्वयं.वादि.दण्डो दश.बन्धः ॥
पुरुष.भृतिर् अष्ट.अंशः ॥
पथि.भक्तम् अर्घ.विशेषतः ॥
तद् उभयं नियम्यो दद्यात् ॥
अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलह.साहस.सार्थ.समवायेभ्यः ॥
न च^अभियुक्ते^अभियोगे^अस्ति ॥
अभियोक्ता चेत् प्रत्युक्तस् तद्.अहर् एव न प्रतिब्रूयात् परा.उक्तः स्यात् ॥
कृत.कार्य.विनिश्चयो ह्य् अभियोक्ता न^अभियुक्तः ॥
तस्य^अप्रतिब्रुवतस् त्रि.रात्रं सप्त.रात्रम् इति ॥
अत ऊर्ध्वं त्रि.पण.अवर.अर्ध्यं द्वादश.पण.परं दण्डं कुर्यात् ॥
त्रि.पक्षाद् ऊर्ध्वम् अप्रतिब्रुवतः परा.उक्त.दण्डं कृत्वा यान्य् अस्य द्रव्याणि स्युस् ततो^अभियोक्तारं प्रतिपादयेद्, अन्यत्र वृत्त्य्.उपकरणेभ्यः ॥
तद् एव निष्पततो^अभियुक्तस्य कुर्यात् ॥
अभियोक्तुर् निष्पात.सम.कालः परा.उक्त.भावः ॥
प्रेतस्य व्यसनिनो वा साक्षि.वचनम् असारम् ॥
अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ॥
आधिं वा स कामं प्रवेशयेत् ॥
रक्षोघ्न.रक्षितं वा कर्मणा प्रतिपादयेद्, अन्यत्र ब्राह्मणात् ॥
कz03.1.38अब्। चतुर्.वर्ण.आश्रमस्य^अयं लोकस्य^आचार.रक्षणात् ।
कz03.1.38च्द्। नश्यतां सर्व.धर्माणां राजा धर्म.प्रवर्तकः ॥
कz03.1.39अब्। धर्मश् च व्यवहारश् च चरित्रं राज.शासनम् ।
कz03.1.39च्द्। विवाद.अर्थश् चतुष्पादः पश्चिमः पूर्व.बाधकः ॥
कz03.1.40अब्। तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु ।
कz03.1.40च्द्। चरित्रं संग्रहे पुंसां राज्ञाम् आज्ञा तु शासनम् ॥
कz03.1.41अब्। राज्ञः स्व.धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः ।
कz03.1.41च्द्। अरक्षितुर् वा क्षेप्तुर् वा मिथ्या.दण्डम् अतो^अन्यथा ॥
कz03.1.42अब्। दण्डो हि केवलो लोकं परं च^इमं च रक्षति ।
कz03.1.42च्द्। राज्ञा पुत्रे च शत्रौ च यथा.दोषं समं धृतः ॥
कz03.1.43अब्। अनुशासद्द् हि धर्मेण व्यवहारेण संस्थया ।
कz03.1.43च्द्। न्यायेन च चतुर्थेन चतुर्.अन्तां वा महीं जयेत् ॥
कz03.1.44अब्। संस्था या धर्म.शास्त्रेण शास्त्रं वा व्यावहारिकम् ।
कz03.1.44च्द्। यस्मिन्न् अर्थे विरुध्येत धर्मेण^अर्थं विनिर्णयेत् ॥
कz03.1.45अब्। शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् ।
कz03.1.45च्द्। न्यायस् तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति ॥
कz03.1.46अब्। दृष्ट.दोषः स्वयं.वादः स्व.पक्ष.पर.पक्षयोः ।
कz03.1.46च्द्। अनुयोग.आर्जवं हेतुः शपथश् च^अर्थ.साधकः ॥
कz03.1.47अब्। पूर्व.उत्तर.अर्थ.व्याघाते साक्षि.वक्तव्य.कारणे ।
कz03.1.47च्द्। चार.हस्ताच् च निष्पाते प्रदेष्टव्यः पराजयः ॥ए
(चोन्चेर्निन्ग् मर्रिअगे)
((इ) ळw ओf मर्रिअगे^ (ई) ऋउलेस् चोन्चेर्निन्ग् wओमन्ऽस् प्रोपेर्त्य्^ (ईइ) चोन्चेर्निन्ग् सुपेर्सेस्सिओन् (ओf अ wइfए) ब्य् अ सेचोन्द् मर्रिअगे)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0