भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 03.16

03.16.01

दत्तस्य^अप्रदानम् ऋण.आदानेन व्याख्यातम् ॥

03.16.02

दत्तम् अव्यवहार्यम् एकत्र^अनुशये वर्तेत ॥

03.16.03

सर्व.स्वं पुत्र.दारम् आत्मानं वा प्रदाय^अनुशयिनः प्रयच्छेत् ॥

03.16.04

धर्म.दानम् असाधुषु कर्मसु च^औपघातिकेषु वा, अर्थ.दानम् अनुपकारिष्व् अपकारिषु वा, काम.दानम् अनर्हेषु च ॥

03.16.05

यथा च दाता प्रतिग्रहीता च न^उपहतौ स्यातां तथा^अनुशयं कुशलाः कल्पयेयुः ॥

03.16.06

दण्ड.भयाद् आक्रोश.भयाद् अनर्थ.भयाद् वा भय.दानं प्रतिगृह्णतः स्तेय.दण्डः, प्रयच्छतश् च ॥

03.16.07

रोष.दानं पर.हिंसायां, राज्ञाम् उपरि दर्प.दानं च ॥

03.16.08

तत्र^उत्तमो दण्डः ॥

03.16.09

प्रातिभाव्यं दण्ड.शुल्क.शेषम् आक्षिकं सौरिकं च न^अकामः पुत्रो दायादो वा रिक्थ.हरो दद्यात् ॥ इति दत्तस्य^अनपाकर्म ।

03.16.10

अस्वामि.विक्रयस् तु - नष्ट.अपहृतम् आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ॥

03.16.11

देश.काल.अतिपत्तौ वा स्वयं गृहीत्वा^उपहरेत् ॥

03.16.12

धर्मस्थश् च स्वामिनम् अनुयुञ्जीत "कुतस् ते लब्धम्" इति ॥

03.16.13

स चेद् आचार.क्रमं दर्शयेत, न विक्रेतारं, तस्य द्रव्यस्य^अतिसर्गेण मुच्येत ॥

03.16.14

विक्रेता चेद् दृश्येत, मूल्यं स्तेय.दण्डं च दद्यात् ॥

03.16.15

स चेद् अपसारम् अधिगच्छेद् अपसरेद् आ.अपसार.क्षयात् ॥

03.16.16

क्षये मूल्यं स्तेय.दण्डं च दद्यात् ॥

03.16.17

नाष्टिकश् च स्व.करणं कृत्वा नष्ट.प्रत्याहृतं लभेत ॥

03.16.18

स्व.करण.अभावे पञ्च.बन्धो दण्डः ॥

03.16.19

तच् च द्रव्यं राज.धर्म्यं स्यात् ॥

03.16.20

नष्ट.अपहृतम् अनिवेद्य^उत्कर्षतः स्वामिनः पूर्वः साहस.दण्डः ॥

03.16.21

शुल्क.स्थाने नष्ट.अपहृत.उत्पन्नं तिष्ठेत् ॥

03.16.22

त्रि.पक्षाद् ऊर्ध्वम् अनभिसारं राजा हरेत्, स्वामी वा स्व.करणेन ॥

03.16.23

पञ्च.पणिकं द्विपद.रूपस्य निष्क्रयं दद्यात्, चतुष्पणिकम् एक.खुरस्य, द्विपणिकं गोमहिषस्य, पादिकं क्षुद्र.पशूनाम् ॥

03.16.24

रत्न.सार.फल्गु.कुप्यानां पञ्चकं शतं दद्यात् ॥

03.16.25

पर.चक्र.अटवी.हृतं तु प्रत्यानीय राजा यथा.स्वं प्रयच्छेत् ॥

03.16.26

चोर.हृतम् अविद्यमानं स्व.द्रव्येभ्यः प्रयच्छेत्, प्रत्यानेतुम् अशक्तो वा ॥

03.16.27

स्वयं.ग्राहेण^आहृतं प्रत्यानीय तन्.निष्क्रयं वा प्रयच्छेत् ॥

03.16.28

पर.विषयाद् वा विक्रमेण^आनीतं यथा.प्रदिष्टं राज्ञा भुञ्जीत, अन्यत्र^आर्य.प्राणेभ्यो देव.ब्राह्मण.तपस्वि.द्रव्येभ्यश् च ॥ इत्य् अस्वामि.विक्रयः ।

03.16.29

स्व.स्वामि.सम्बन्धस् तु - भोग.अनुवृत्तिर् उच्छिन्न.देशानां यथा.स्वं द्रव्याणाम् ॥

03.16.30

यत् स्वं द्रव्यम् अन्यैर् भुज्यमानं दश वर्षाण्य् उपेक्षेत, हीयेत^अस्य, अन्यत्र बाल.वृद्ध.व्याधित.व्यसनि.प्रोषित.देश.त्याग.राज्य.विभ्रमेभ्यः ॥

03.16.31

विंशति.वर्ष.उपेक्षितम् अनवसितं वास्तु न^अनुयुञ्जीत ॥

03.16.32

ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञाम् असंनिधौ पर.वास्तुषु विवसन्तो न भोगेन हरेयुः, उपनिधिम् आधिं निधिं निक्षेपं स्त्रियं सीमानं राज.श्रोत्रिय.द्रव्याणि च ॥

03.16.33

आश्रमिणः पाषण्डा वा महत्य् अवकाशे परस्परम् अबाधमाना वसेयुः ॥

03.16.34

अल्पां बाधां सहेरन् ॥

03.16.35

पूर्व.आगतो वा वास.पर्यायं दद्यात् ॥

03.16.36

अप्रदाता निरस्येत ॥

03.16.37

वानप्रस्थ.यति.ब्रह्म.चारिणाम् आचार्य.शिष्य.धर्म.भ्रातृ.समान.तीर्थ्या रिक्थ.भाजः क्रमेण ॥

03.16.38

विवाद.पदेषु च^एषां यावन्तः पणा दण्डास् तावती रात्रीः क्षपण.अभिषेक.अग्नि.कार्य.महा.कच्छ.वर्धनानि राज्ञश् चरेयुः ॥

03.16.39

अहिरण्य.सुवर्णाः पाषढाः साधवः ॥

03.16.40

ते यथा.स्वम् उपवास.व्रतैर् आराधयेयुः, अन्यत्र पारुष्य.स्तेय.साहस.संग्रहणेभ्यः ॥

03.16.41

तेषु यथा.उक्ता दण्डाः कार्याः ॥
कz03.16.42अब्। प्रव्रज्यासु वृथा.आचारान् राजा दण्डेन वारयेत् ।
कz03.16.42च्द्। धर्मो ह्य् अधर्म.उपहतः शास्तारं हन्त्य् उपेक्षितः ॥ए
(fओर्चिब्ले सेइशुरे)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc