भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 03.15

03.15.01

विक्रीय पण्यम् अप्रयच्छतो द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥

03.15.02

पण्य.दोषो दोषः ॥

03.15.03

राज.चोर.अग्न्य्.उदक.बाध उपनिपातः ॥

03.15.04

बहु.गुण.हीनम् आर्त.कृतं वा^अविषह्यम् ॥

03.15.05

वैदेहकानाम् एक.रात्रम् अनुशयः, कर्षकाणां त्रि.रात्रं, गो.रक्षकाणां पञ्च.रात्रम् ॥

03.15.06

व्यामिश्राणाम् उत्तमानां च वर्णानां वृत्ति.विक्रये सप्त.रात्रम् ॥

03.15.07

आतिपातिकानां पण्यानां "अन्यत्र.अविक्रेयम्" इत्य् अवरोधेन^अनुशयो देयः ॥

03.15.08

तस्य^अतिक्रमे चतुर्.विंशति.पणो दण्डः, पण्य.दश.भागो वा ॥03.15.09। क्रीत्वा पण्यम् अप्रतिगृह्णतो द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥

03.15.10

समानश् च^अनुशयो विक्रेतुर् अनुशयेन ॥

03.15.11

विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणि.ग्रहणात् सिद्धम् उपावर्तनं, शूद्राणां च प्रकर्मणः ॥

03.15.12

वृत्त.पाणि.ग्रहणयोर् अपि दोषम् औपशायिकं दृष्ट्वा सिद्धम् उपावर्तनम् ॥

03.15.13

न त्व् एव^अभिप्रजातयोः ॥

03.15.14

कन्या.दोषम् औपशायिकम् अनाख्याय प्रयच्छतः कन्यां षण्.णवतिर् दण्डः, शुल्क.स्त्री.धन.प्रतिदानं च ॥

03.15.15

वरयितुर् वा वर.दोषम् अनाख्याय विन्दतो द्वि.गुणः, शुल्क.स्त्री.धन.नाशश् च ॥

03.15.16

द्विपद.चतुष्पदानां तु कुण्ठ.व्याधित.अशुचीनाम् उत्साह.स्वास्थ्य.शुचीनाम् आख्याने द्वादश.पणो दण्डः ॥

03.15.17

आ.त्रि.पक्षाद् इति चतुष्पदानाम् उपावर्तनम्, आ.संवत्सराद् इति मनुष्याणाम् ॥

03.15.18

तावता हि कालेन शक्यं शौच.आशौचे ज्ञातुम् ॥
कz03.15.19अब्। दाता प्रतिग्रहीता च स्यातां न^उपहतौ यथा ।
कz03.15.19च्द्। दाने क्रये वा^अनुशयं तथा कुर्युः सभासदः ॥ए
(णोन्-चोन्वेयन्चे ओf गिfत्स्)
(षले wइथोउत् ओwनेर्स्हिप्)
(ऋएलतिओन् ओf ओwनेर्स्हिप्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc