अर्थशास्त्र · अध्याय 03.14
गृहीत्वा वेतनं कर्म^अकुर्वतो भृतकस्य द्वादश.पणो दण्डः, संरोधश् च^आ.करणात् ॥
अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वा^अनुशयं लभेत, परेण वा कारयितुम् ॥
तस्य.व्यय.कर्मणा लभेत भर्ता वा कारयितुम् ॥
"न^अन्यस् त्वया कारयितव्यो, मया वा न^अन्यस्य कर्तव्यम्" इत्य् अवरोधे भर्तुर् अकारयतो भृतकस्य^अकुर्वतो वा द्वादश.पणो दण्डः ॥
कर्म.निष्ठापने भर्तुर् अन्यत्र गृहीत.वेतनो न^असकामः कुर्यात् ॥
"उपस्थितम् अकारयतः कृतम् एव विद्याद्" इत्य् आचार्याः ॥
न^इति कौटिल्यः ॥
कृतस्य वेतनं न^अकृतस्य^अस्ति ॥
स चेद् अल्पम् अपि कारयित्वा न कारयेत् कृतम् एव^अस्य विद्यात् ॥
देश.काल.अतिपातनेन कर्मणाम् अन्यथा.करणे वा न^असकामः कृतम् अनुमन्येत ॥
सम्भाषिताद् अधिक.क्रियायां प्रयासं न मोघं कुर्यात् ॥
तेन संघ.भृता व्याख्याताः ॥
तेषाम् आधिः सप्त.रात्रम् आसीत ॥
ततो^अन्यम् उपस्थापयेत्, कर्म.निष्पाकं च ॥
न च^अनिवेद्य भर्तुः संघः कंचित् परिहरेद् उपनयेद् वा ॥
तस्य^अतिक्रमे चतुर्.विंशति.पणो दण्डः ॥
संघेन परिहृतस्य^अर्ध.दण्डः ॥ इति भृतक.अधिकारः ॥
संघ.भृताः सम्भूय.समुत्थातारो वा यथा.सम्भाषितं वेतनं समं वा विभजेरन् ॥
कर्षण.वैदेहका वा सस्य.पण्य.आरम्भ.पर्यवसान.अन्तरे सन्नस्य यथा.कृतस्य कर्मणः प्रत्यंशं दद्युः ॥
पुरुष.उपस्थाने समग्रम् अंशं दद्युः ॥
संसिद्धे तु^उद्धृत.पण्ये सन्नस्य तदानीम् एव प्रत्यंशं दद्युः ॥
सामान्या हि पथि.सिद्धिश् च^असिद्धिश् च ॥
प्रक्रान्ते तु कर्मणि स्वस्थस्य^अपक्रामतो द्वादश.पणो दण्डः ॥
न च प्राकाम्यम् अपक्रमणे ॥
चोरं त्व् अभय.पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद्, दद्यात् प्रत्यंशम् अभयं च ॥
पुनः.स्तेये प्रवासनम्, अन्यत्र.गमने च ॥
महा.अपराधे तु दूष्यवद् आचरेत् ॥
याजकाः स्वा.प्रचार.द्रव्य.वर्जं यथा.सम्भाषितं वेतनं समं वा विभजेरन् ॥
अग्निष्टोम.आदिषु च क्रतुषु दीक्षणाद् ऊर्ध्वं तृतीयम् अंशं, मध्यम.उपसद ऊर्ध्वम् अर्धम् अंशं, सुत्ये प्रातः.सवनाद् ऊर्ध्वं पाद.ऊनम् अंशम् ॥
माध्यन्दिनात् सवनाद् ऊर्ध्वं समग्रम् अंशं लभेत ॥
नीता हि दक्षिणा भवन्ति ॥
बृहस्पति.सव.वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ॥
तेन^अहर्.गण.दक्षिणा व्याख्याताः ॥
सनानाम् आ.दश.अहो.रात्रात्^शेष.भृताः कर्म कुर्युः, अन्ये वा स्व.प्रत्ययाः ॥
कर्मण्य् असमाप्ते तु यजमानः सीदेद्, ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ॥
असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस.दण्डः ॥
कz03.14.37अब्। अनाहित.अग्निः शत.गुरु.यज्वा च सहस्रगुः ।
कz03.14.37च्द्। सुरापो वृषली.भर्ता ब्रह्महा गुरु.तल्पगः ॥
कz03.14.38अब्। असत्.प्रतिग्रहे युक्तः स्तेनः कुत्सित.याजकः ।
कz03.14.38च्द्। अदोषस् त्यक्तुम् अन्योन्यं कर्म.संकर.निश्चयात् ॥ए
(ऋएस्चिस्सिओन् ओf सले अन्द् पुर्छसे)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0