अर्थशास्त्र · अध्याय 02.7
अक्ष.पटलम् अध्यक्षः प्रान्.मुखम् उदन्.मुखं वा विभक्त.उपस्थानं निबन्ध.पुस्तक.स्थानं कारयेत् ॥
तत्र^अधिकरणानां संख्या.प्रचार.संजात.अग्रम्, कर्म.अन्तानां द्रव्य.प्रयोग.वृद्धि.क्षय.व्यय.प्रयाम.व्याजी.योग.स्थान.वेतन.विष्टि.प्रमाणम्, रत्न.सार.फल्गु.कुप्यानाम् अर्घ.प्रतिवर्णक.मान.प्रतिमान.उन्मान.अवमान.भाण्डम्, देश.ग्राम.जाति.कुल.संघानां धर्म.व्यवहार.चरित्र.संस्थानम्, राज.उपजीविनां
प्रग्रह.प्रदेश.भोग.परिहार.भक्त.वेतन.लाभम्, राज्ञश् च पत्नी.पुत्राणां रत्न.भूमि.लाभं निर्देश.उत्पातिक.प्रतीकार.लाभम्, मित्र.अमित्राणां च संधि.विग्रह.प्रदान.आदानं निबन्ध.पुस्तकस्थं कारयेत् ॥
ततः सर्व.अधिकरणानां करणीयं सिद्धं शेषम् आय.व्ययौ नीवीम् उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् ॥
उत्तम.मध्यम.अवरेषु च कर्मसु तज्.जातिकम् अध्यक्षं कुर्यात्, सामुदयिकेष्व् अवक्लृप्तिकम्(अवकॢप्तिकम्) यम् उपहत्य राजा न^अनुतप्येत ॥
सहग्राहिणः प्रतिभुवः कर्म.उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश् च^अस्य कर्मच्.छेदं वहेयुः ॥
त्रि.शतं चतुः.पञ्चाशत्^ च^अहोरात्राणां कर्म.संवत्सरः ॥
तम् आषाढी.पर्यवसानम् ऊनं पूर्णं वा दद्यात् ॥
करण.अधिष्ठितम् अधिमासकं कुर्यात् ॥
अपसर्प.अधिष्ठितंच प्रचारम् ॥
प्रचार.चरित्र.संस्थानान्य् अनुपलभमानो हि प्रकृतः समुदयम् अज्ञानेन परिहापयति, उत्थान.क्लेश.असहत्वाद् आलस्येन, शब्दादिष्व् इन्द्रिय.अर्थेषु प्रसक्तः प्रमादेन, संक्रोश.अधर्म.अनर्थ.भीरु.भायेन, कार्य.अर्थिष्व् अनुग्रह.बुद्धिः कामेन, हिंसा.बुद्धिः कोपेन, विद्या.द्रव्य.वल्लभ.अपाश्रयाद् दर्पेण, तुला.मान.तर्क.गणित.अन्तर.उपधानात्^
लोभेन ॥
"तेषाम् आनुपूर्व्या यावान् अर्थ.उपघातस् तावान् एक.उत्तरो दण्डः" इति मानवाः ॥
"सर्वत्र^अष्ट.गुणः" इति पाराशराः ॥
"दश.गुणः" इति बार्हस्पत्याः ॥
"विंशति.गुणः" इत्य् औशनसाः ॥
यथा.अपराधम् इति कौटिल्यः ॥
गाणनिक्यानि आषाढीम् आगच्छेयुः ॥
आगतानां समुद्र.पुस्तक.भाण्ड.नीवीकानाम् एकत्र.असम्भाषा.अवरोधं कारयेत् ॥
आय.व्यय.नीवीनाम् अग्राणि श्रुत्वा नीवीम् अवहारयेत् ॥
यच् च^अग्राद् आयस्य^अन्तर.पर्णे नीव्यां वर्धेत व्ययस्य वा यत् परिहापयेत्, तद् अष्ट.गुणम् अध्यक्षं दापयेत् ॥
विपर्यये तम् एव प्रति स्यात् ॥
यथा.कालम् अनागतानाम् अपुस्तक.भाण्ड.नीवीकानां वा देय.दश.बन्धो दण्डः ॥
कार्मिके च^उपस्थिते कारणिकस्य^अप्रतिबध्नतः पूर्वः साहस.दण्डः ॥
विपर्यये कार्मिकस्य द्वि.गुणः ॥
प्रचार.समं महा.मात्राः समग्राः श्रावयेयुर् अविषम.मन्त्राः ॥
पृथग्.भूतो मिथ्या.वादी च^एषाम् उत्तमं दण्डं दद्यात् ॥
अकृत.अहो.रूप.हरं मासम् आकाङ्क्षेत ॥
मासाद् ऊर्ध्वं मास.द्विशत.उत्तरं दण्डं दद्यात् ॥
अल्प.शेष.लेख्य.नीवीकं पञ्च.रात्रम् आकाङ्क्षेत ॥
ततः परं कोश.पूर्वम् अहो.रूप.हरं धर्म.व्यवहार.चरित्र.संस्थान.संकलन.निर्वर्तन.अनुमान.चार.प्रयोगैर् अवेक्षेत ॥
दिवस.पञ्च.रात्र.पक्ष.मास.चातुर्मास्य.संवत्सरैश् च प्रतिसमानयेत् ॥
व्युष्ट.देश.काल.मुख.उत्पत्ति.अनुवृत्ति.प्रमाण.दायक.दापक.निबन्धक.प्रतिग्राहकैश् च^अयं समानयेत् ॥
व्युष्ट.देश.काल.मुख.लाभ.कारण.देय.योग.प्रमाण.आज्ञापक.उद्धारक.विधातृक.प्रतिग्राहकैश् च व्ययं समानयेत् ॥
व्युष्ट.देश.काल.मुख.अनुवर्तन.रूप.लक्षण.प्रमाण.निक्षेप.भाजन.गोपायकैश् च नीवीं समानयेत् ॥
राज.अर्थे कारणिकस्य^अप्रतिबध्नतः प्रतिषेधयतो वा^आज्ञां निबन्धाद् आय.व्ययम् अन्यथा नीवीम् अवलिखतो द्वि.गुणः ॥
क्रम.अवहीनम् उत्क्रमम् अविज्ञातं पुनर्.उक्तं वा वस्तुकम् अवलिखतो द्वादश.पणो दण्डः ॥
नीवीम् अवलिखतो द्वि.गुणः ॥
भक्षयतो^अष्ट.गुणः ॥
नाशयतः पञ्च.बन्धः प्रतिदानं च ॥
मिथ्या.वादे स्तेय.दण्डः ॥
पश्चात्.प्रतिज्ञाते द्वि.गुणः, प्रस्मृत.उत्पन्ने च ॥
कz02.7.41अब्। अपराधं सहेत^अल्पं तुष्येद् अल्पे^अपि च^उदये । [श्]
कz02.7.41च्द्। महा.उपकारं च^अध्यक्षं प्रग्रहेण^अभिपूजयेत् ॥[श्] ए
(ऋएचोवेर्य् ओf रेवेनुए मिसप्प्रोप्रिअतेद् ब्य् स्तते एम्प्लोयेएस्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0