भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 02.33

02.33.01

अश्व.अध्यक्षेण रथ.अध्यक्षो व्याख्यातः ॥

02.33.02

स रथ.कर्म.अन्तान् कारयेत् ॥

02.33.03

दश.पुरुषो द्वादश.अन्तरो रथः ॥

02.33.04

तस्माद् एक.अन्तर.अवरा आ.षड्.अन्तराद् इति सप्त रथाः ॥

02.33.05

देव.रथ.पुष्य.रथ.सांग्रामिक.पारियाणिक.पर.पुर.अभियानिक.वैनयिकांश् च रथान् कारयेत् ॥

02.33.06

इष्व्.अस्त्र.प्रहरण.आवरण.उपकरण.कल्पनाः सारथि.रथिक.रथ्यानां च कर्मस्व् आयोगं विद्यात्, आ.कर्मभ्यश् च भक्त.वेतनं भृतानाम् अभृतानां च योग्या.रक्षा.अनुष्ठानम् अर्थ.मान.कर्म च ॥

02.33.07

एतेन पत्त्य्.अध्यक्षो व्याख्यातः ॥

02.33.08

स मौल.भृत.श्रेणि.मित्र.अमित्र.अटवी.बलानां सार.फल्गुतां विद्यात्, निम्न.स्थल.प्रकाश.कूट.खनक.आकाश.दिवा.रात्रि.युद्ध.व्यायामं च, आयोगम् अयोगं च कर्मसु ॥

02.33.09

तेद् एव सेना.पतिः सर्व.युद्ध.प्रहरण.विद्या.विनीतो हस्त्य्.अश्व.रथ.चर्या.संघुष्टश् चतुर्.अङ्गस्य बलस्य^अनुष्ठान.अधिष्ठानं विद्यात् ॥

02.33.10

स्व.भूमिं युद्ध.कालं प्रत्यनीकम् अभिन्न.भेदनं भिन्न.संधानं संहत.भेदनं भिन्न.वधं दुर्ग.वधं यात्रा.कालं च पश्येत् ॥
कz02.33.11अब्। तूर्य.ध्वज.पताकाभिर् व्यूह.संज्ञाः प्रकल्पयेत् ।
कz02.33.11च्द्। स्थाने याने प्रहरणे सैन्यानां विनये रतः ॥ए
(षुपेरिन्तेन्देन्त् ओf पस्स्पोर्त्स्)
(षुपेरिन्तेन्देन्त् ओf पस्तुरे लन्द्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc