भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 02.32

02.32.01

कर्म.स्कन्धाश् चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश् च ॥

02.32.02

तत्र दम्यः पञ्च.विधः स्कन्ध.गतः स्तम्भ.गतो वारि.गतो^अवपात.गतो यूथ.गतश् च^इति ॥

02.32.03

तस्य^उपविचारो विक्क.कर्म ॥

02.32.04

साम्नाह्यः सप्त.क्रिया.पथ उपस्थानं संवर्तनं सम्यानं वध.आवधो हस्ति.युद्धं नाग.रायणं सांग्रामिकं च ॥

02.32.05

तस्य^उपविचारः कक्ष्या.कर्म ग्रैवेय.कर्म यूथ.कर्म च ॥

02.32.06

औपवाह्यो^अष्ट.विध आचरणः कुञ्जर.औपवाह्यो धोरण आधान.गतिको यष्ट्य्.उपवाह्यस् तोत्र.उपवाह्यः शुद्ध.उपवाह्यो मार्गयुकश् च^इति ॥

02.32.07

तस्य^उपविचारः शारद.कर्म हीन.कर्म नार.उष्ट्र.कर्म च ॥

02.32.08

व्याल^एक.क्रिया.पथः शङ्कितो^अवरुद्धो विषमः प्रभिन्नः प्रभिन्न.विनिश्चयो मद.हेतु.विनिश्चयश् च ॥

02.32.09

तस्य-उपविचार आयम्य^एक.रक्षा.कर्म ॥

02.32.10

क्रिया.विपन्नो व्यालः शुद्धः सु.व्रतो विषमः सर्व.दोष.प्रदुष्टश् च ॥

02.32.11

तेषां बन्धन.उपकरणम् अनीक.स्थ.प्रमाणम् ॥

02.32.12

आलान.ग्रैवेय.कक्ष्या.पार.अयण.परिक्षेप.उत्तर.आदिकं बन्धनम् ॥

02.32.13

अङ्कुश.वेणु.यन्त्र.आदिकम् उपकरणम् ॥

02.32.14

वैजयन्ती.क्षुर.प्रमाल.आस्तरण.कुथा.आदिकं भूषणम् ॥

02.32.15

वर्म.तोमर.शर.आवाप.यन्त्र.आदिकः सांग्रामिक.अलंकारः ॥

02.32.16

चिकित्सक.अनीकस्थ.आरोहक.आधोरण.हस्तिप.कौपचारिक.विधा.पाचक.यावसिक.पादपाशिक.कुटीर्.रक्षक.औपशयैक.आदिर् औपस्थायिक.वर्गः ॥

02.32.17

चिकित्सक.कुटी.रक्ष.विधा.पाचकाः प्रस्थ.ओदनं स्नेह.प्रसृतिं क्षार.लवणयोश् च द्वि.पलिकं हरेयुः, दश.पलं मांसस्य, अन्यत्र चिकित्सकेभ्यः ॥

02.32.18

पथि.व्याधि.कर्म.मद.जरा.अभितप्तानां चिकित्सकाः प्रतिकुर्युः ॥

02.32.19

स्थानस्य^अशुद्धिर् यवसस्य^अग्रहणं स्थले शायनम् अभागे घातः पर.आरोहणम् अकाले यानम् अभूमाव् अतीर्थे^अवतारणं तरु.षण्ड इत्य् अत्यय.स्थानानि ॥

02.32.20

तम् एषां भक्त.वेतनाद् आददीत ॥
कz02.32.21अब्। तिस्रो नीराजनाः कार्याश् चातुर्मास्य.ऋतु.संधिषु ।
कz02.32.21च्द्। भूतानां कृष्ण.संधी^इज्याः सेनान्यः शुक्ल.संधुषु ॥
कz02.32.22अब्। दन्त.मूल.परीणाह.द्वि.गुणं प्रोज्झ्य कल्पयेत् ।
कz02.32.22च्द्। अब्दे द्व्य्.अर्धे नदी.जानां पञ्च.अब्दे पर्वत.ओकसाम् ॥ए
(षुपेरिन्तेन्देन्त् ओf छरिओत्स्)
(षुपेरिन्तेन्देन्त् ओf fओओत्-सोल्दिएर्स्)
(अच्तिवित्य् ओf थे चोम्मन्दन्त् ओf थे अर्म्य्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc