भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 02.34

02.34.01

मुद्रा.अध्यक्षो मुद्रां माषकेण दद्यात् ॥

02.34.02

स-मुद्रो जन.पदं प्रवेष्टुं निष्क्रमितुं वा लभेत ॥

02.34.03

द्वादश.पणम् अमुद्रो जानपदो दद्यात् ॥

02.34.04

कूट.मुद्रायां पूर्वः साहस.दण्डः तिरो.जन.पदस्य^उत्तमः ॥

02.34.05

विवीत.अध्यक्षो मुद्रां पश्येत् ॥

02.34.06

ग्राम.अन्तरेषु च विवीतं स्थापयेत् ॥

02.34.07

चोर.व्याल.भयान्.निम्न.अरण्यानि शोधयेत् ॥

02.34.08

अनुदके कूप.सेतु.बन्ध.उत्सान् स्थापयेत्, पुष्प.फल.वाटांश् च ॥

02.34.09

लुब्धक.श्व.गणिनः परिव्रजेयुर् अरण्यानि ॥

02.34.10

तस्कर.अमित्र.अभ्यागमे शङ्ख.दुन्दुभि.शब्दम् अग्राह्याः कुर्युः शैल.वृक्ष.अधिरूढा वा शीघ्र.वाहना वा ॥

02.34.11

अमित्र.अटवी.संचारं च राज्ञो गृह.कपोतैर् मुद्रा.युक्तैर् हारयेत्, धूम.अग्नि.परम्परया वा ॥
कz02.34.12अब्। द्रव्य.हस्ति.वन.आजीवं वर्तनीं चोर.रक्षणम् ।
कz02.34.12च्द्। सार्थ.अतिवाह्यं गो.रक्ष्यं व्यवहारं च कारयेत् ॥ए
(अच्तिवित्य् ओf थे अदिमिनिस्त्रतोर्)
(षेच्रेत् अगेन्त्स् इन् थे दिस्गुइसे ओf होउसेहोल्देर्स्, त्रदेर्स्, अन्द् अस्चेतिच्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc