अर्थशास्त्र · अध्याय 02.2
अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ॥
प्रदिष्ट.अभय.स्थावर.जङ्गमानि च ब्रह्म.सोम.अरण्यानि तपस्विभ्यो गो.रुत.पराणि प्रयच्छेत् ॥
तावन्.मात्रम् एक.द्वारं खात.गुप्तं स्वादु.फल.गुल्म.गुच्छम् अकण्टकि.द्रुमम् उत्तान.तोय.आशयं दान्त.मृग.चतुष्पदं भग्न.नख.दंष्ट्र.व्यालं मार्गयुक.हस्ति.हस्तिनीक.लभं मृग.वनं विहार.अर्थं राज्ञः कारयेत् ॥
सर्व.अतिथि.मृगं प्रत्यन्ते च^अन्यन्.मृग.वनं भूमि.वशेन वा निवेशयेत् ॥
कुप्य.प्रदिष्टानां च द्रव्याणाम् एक.एकशो वनानि निवेशयेत्, द्रव्य.वन.कर्म.अन्तान् अटवीश् च द्रव्य.वन.अपाश्रयाः ॥
प्रत्यन्ते हस्ति.वनम् अटव्य्.आरक्षं निवेशयेत् ॥
नाग.वन.अध्यक्षः पार्वतं न^आदेयं सार.सम.अनूपं च नाग.वनं विदित.पर्यन्त.प्रवेश.निष्कासं नाग.वन.पालैः पालयेत् ॥
हस्ति.घातिनं हन्युः ॥
दन्त.युगं स्वयं.मृतस्य^आहरतः सपाद.चतुष्पणो लाभः ॥
नाग.वन.पाला हस्तिपक.पाद.पाशिक.सैमिक.वन.चरक.पारिकर्मिक.सखा हस्ति.मूत्र.पुरीषच्.छन्न.गन्धा भल्लातकी.शाखा.प्रच्छन्नाः पञ्चभिः सप्तभिर् वा हस्ति.बन्धकीभिः सह चरन्तः शय्या.स्थान.पद्या.लेण्ड.कूल.घात.उद्देशेन हस्ति.कुल.पर्यग्रं विद्युः ॥
यूथ.चरम् एक.चरं निर्यूथं यूथ.पतिं हस्तिनं व्यालं मत्तं पोतं बन्ध.मुक्तं च निबन्धेन विद्युः ॥
अनीकस्थ.प्रमाणैः प्रशस्त.व्यञ्जन.आचारान् हस्तिनो गृह्णीयुः ॥
हस्ति.प्रधानं विजयो राज्ञः ॥
पर.अनीक.व्यूह.दुर्ग.स्कन्ध.आवार.प्रमर्दना ह्य् अतिप्रमाण.शरीराः प्राण.हर.कर्माणो हस्तिनः ॥
कz02.2.15अब्। कालिङ्ग.अङ्गरजाः श्रेष्ठाः प्राच्याश् चेदि.करूषजाः ।[श्]
कz02.2.15च्द्। दाशार्णाश् च^अपर.अन्ताश् च द्विपानां मध्यमा मताः ॥[श्]
कz02.2.16अब्। सौराष्ट्रिकाः पाञ्चनदास् तेषां प्रत्यवराः स्मृताः ।[श्]
कz02.2.16च्द्। सर्वेषां कर्मणा वीर्यं जवस् तेजश् च वर्धते ॥[श्] ए
(चोन्स्त्रुच्तिओन् ओf fओर्त्स्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0