अर्थशास्त्र · अध्याय 02.3
चतुर्दिशं जन.पद.अन्ते साम्परायिकं दैव.कृतं दुर्गं कारयेत्, अन्तर्.द्वीपं स्थलं वा निम्न.अवरुद्धम् औदकम्, प्रास्तरं गुहां वा पार्वतम्, निरुदक.स्तम्बम् इरिणं वा धान्वनम्, खञ्जन.उदकं स्तम्ब.गहनं वा वन.दुर्गम् ॥
तेषां नदी.पर्वत.दुर्गं जन.पद.आरक्ष.स्थानम्, धान्वन.वन.दुर्गम् अटवी.स्थानम् आपद्य् अपसारो वा ॥
जन.पद.मध्ये समुदय.स्थानं स्थानीयं निवेशयेत्, वास्तुक.प्रशस्ते देशे नदी.सङ्गमे ह्रदस्य^अविशोषस्य^अङ्के सरसस् तटाकस्य वा, वृत्तं दीर्घं चतुर्.अश्रं वा वास्तु.वशेन वा प्रदक्षिण.उदकं पण्य.पुट.भेदनम् अंसपथ.वारि.पथाभ्याम् उपेतम् ॥
तस्य परिखास् तिस्रो दण्ड.अन्तराः कारयेत् चतुर्दश द्वादश दश^इति दण्डान् विस्तीर्णाः, विस्ताराद् अवगाढाः पाद.ऊनम् अर्धं वा, त्रिभाग.मूलाः, मूल.चतुर्.अश्रा वा, पाषाण.उपहिताः पाषाण.इष्टका.बद्ध.पार्श्वा वा, तोय.अन्तिकीर् आगन्तु.तोय.पूर्णा वा सपरिवाहाः पद्म.ग्राहवतीश् च ॥
चतुर्दण्ड.अपकृष्टं परिखायाः षड्दण्ड.उच्छ्रितम् अवरुद्धं तद्.द्विगुण.विष्कम्भं खाताद् वप्रं कारयेद् ऊर्ध्व.चयं मञ्च.पृष्ठं कुम्भ.कुक्षिकं वा हस्तिभिर् गोभिश् च क्षुण्णं कण्टकि.गुल्म.विष.वल्ली.प्रतानवन्तम् ॥
पांसु.शेषेण वास्तुच्.छिद्रं राज.भवनं वा पूरयेत् ॥
वप्रस्य^उपरि प्राकारं विष्कम्भ.द्विगुण.उत्सेधम् ऐष्टकं द्वादश.हस्ताद् ऊर्ध्वम् ओजं युग्मं वा आ चतुर्विंशति.हस्ताद् इति कारयेत् -
रथ.चर्या.संचारं ताल.मूलं मुरजकैः कपि.शीर्षकैश् च^आचित.अग्रम् ॥
पृथु.शिला.संहतं वा शैलं कारयेत्, न त्व् एव काष्टमयम् ॥
अग्निर् अवहितो हि तस्मिन् वसति ॥
विष्कम्भ.चतुर्.अश्रम् अट्टालकम् उत्सेध.सम.अवक्षेप.सोपानं कारयेत् त्रिंशद्.दण्ड.अन्तरं च ॥
द्वयोर् अट्टालकयोर् मध्ये सहर्म्य.द्वि.तलाम् अध्यर्धाय.आयामां प्रतोलीं कारयेत् ॥
अट्टालक.प्रतोली.मध्ये त्रि.धानुष्क.अधिष्ठानं स-अपिधानच्.छिद्र.फलक.संहतम् इन्द्र.कोशं कारयेत् ॥
अन्तरेषु द्विहस्त.विष्कम्भं पार्श्वे चतुर्.गुण.आयामं देव.पथं कारयेत् ॥
दण्ड.अन्तरा द्वि.दण्ड.अन्तरा वा चर्याः कारयेत्, अग्राह्ये देशे प्रधावनिकां निष्किर.द्वारं च ॥
बहिर्.जानु.भञ्जनी.शूल.प्रकर.कूप.कूट.अवपात.कण्टक.प्रतिसर.अहि.पृष्ठ.ताल.पत्त्र.शृङ्ग.अटक.श्व.दंष्ट्र.अर्गल.उपस्कन्दन.पादुक.अम्बरीष.उद.पानकैः प्रतिच्छन्नं छन्न.पथं कारयेत् ॥
प्राकारम् उभयतो मेण्ढकम् अध्यर्ध.दण्डं कृत्वा प्रतोली.षट्.तुला.अन्तरं द्वारं निवेशयेत् पञ्च.दण्डाद् एक.उत्तरम् आ.अष्ट.दण्डाद् इति चतुर्.अश्रं षड्.भागम् आयामाद्.अधिकम् अष्ट.भागं वा ॥
पञ्च.दश.हस्ताद् एक.उत्तरम् आ.अष्टादश.हस्ताद् इति तल.उत्सेधः ॥
स्तम्भस्य परिक्षेपः षड्.आयामो, द्विगुणो निखातः, चूलिकायाश् चतुर्.भागः ॥
आदि.तलस्य पञ्च.भागाः शाला वापी सीमा.गृहं च ॥
दश.भागिकौ द्वौ प्रतिमञ्चौ, अन्तरम् आणी.हर्म्यं च ॥
समुच्छ्रयाद् अर्ध.तले स्थूणा.बन्धश् च ॥
अर्ध.वास्तुकम् उत्तम.अगारम्, त्रिभाग.अन्तरं वा, इष्टका.अवबद्ध.पार्श्वम्, वामतः प्रदक्षिण.सोपानं गूढ.भित्ति.सोपानम् इतरतः ॥
द्वि.हस्तं तोरण.शिरः ॥
त्रि.पञ्च.भागिकौ द्वौ कपाट.योगौ ॥
द्वौ परिघौ ॥
अरत्निर् इन्द्र.कीलः ॥
पञ्च.हस्तम् आणि.द्वारम् ॥
चत्वारो हस्ति.परिघाः ॥
निवेश.अर्धं हस्ति.नखम् ॥
मुख.समः संक्रमः संहार्यो भूमिमयो वा निरुदके ॥
प्राकार.समं मुखम् अवस्थाप्य त्रि.भाग.गोधा.मुखं गोपुरं कारयेत् ॥
प्राकार.मध्ये वापीं कृत्वा पुष्करिणी.द्वारम्, चतुः.शालम् अध्यर्ध.अन्तरं साणिकं कुमारी.पुरम्, मुण्ड.हर्म्य.द्वि.तलं मुण्डक.द्वारम्, भूमि.द्रव्य.वशेन वा निवेशयेत् ॥
त्रि.भाग.अधिक.आयामा भाण्ड.वाहिनीः कुल्याः कारयेत् ॥
कz02.3.34अब्। तासु पाषाण.कुद्दालाः कुठारी.काण्ड.कल्पनाः ।[श्]
कz02.3.34च्द्। मुषुण्ढी.मुद्गरा दण्डाश् चक्र.यन्त्र.शतघ्नयः ॥[श्]
कz02.3.35अब्। कार्याः कार्मारिकाः शूला वेधन.अग्राश् च वेणवः ।[श्]
कz02.3.35च्द्। उष्ट्र.ग्रीव्यो^अग्नि.सम्योगाः कुप्य.कल्पे च यो विधिः ॥[श्] ए
(ळय्-ओउत् ओf थे fओर्तिfइएद् चित्य्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0