अर्थशास्त्र · अध्याय 01.19
राजानम् उत्थितम् अनूत्तिष्ठन्ते भृत्याः ॥
प्रमाद्यन्तम् अनुप्रमाद्यन्ति ॥
कर्माणि च^अस्य भक्षयन्ति ॥
द्विषद्भिश् च^अतिसंधीयते ।
तस्माद् उत्थानम् आत्मनः कुर्वीत ॥
नालिकाभिर् अहर् अष्टधा रात्रिं च विभजेत्, छाया.प्रमाणेन वा ॥
त्रिपौरुषी पौरुषी चतुर्.अङ्गुला नष्टच्.छायो मध्य.अह्न^इति चत्वारः पूर्वे दिवसस्य^अष्ट.भागाः ॥
तैः पश्चिमा व्याख्याताः ॥
तत्र पूर्वे दिवसस्य^अष्ट.भागे रक्षा.विधानम् आय.व्ययौ च शृणुयात् ॥
द्वितीये पौर.जानपदानां कार्याणि पश्येत् ॥
तृतीये स्नान.भोजनं सेवेत, स्वाध्यायं च कुर्वीत ॥
चतुर्थे हिरण्य.प्रतिग्रहम् अध्यक्षांश् च कुर्वीत ॥
पञ्चमे मन्त्रि.परिषदा पत्त्र.सम्प्रेषणेन मन्त्रयेत, चार.गुह्य.बोधनीयानि च बुध्येत ॥
षष्ठे स्वैर.विहारं मन्त्रं वा सेवेत ॥
सप्तमे हस्त्य्.अश्व.रथ.आयुधीयान् पश्येत् ॥
अष्टमे सेना.पति.सखो विक्रमं चिन्तयेत् ॥
प्रतिष्ठिते^अहनि संध्याम् उपासीत ॥
प्रथमे रात्रि.भागे गूढ.पुरुषान् पश्येत् ॥
द्वितीये स्नान.भोजनं कुर्वीत, स्वाध्यायं च ॥
तृतीये तूर्य.घोषेण संविष्टश् चतुर्थ.पञ्चमौ शयीत ॥
षष्ठे तूर्य.घोषेण प्रतिबुद्धः शास्त्रम् इतिकर्तव्यतां च चिन्तयेत् ॥
सप्तमे मन्त्रम् अध्यासीत, गूढ.पुरुषांश् च प्रेषयेत् ॥
अष्टमे ऋत्विग्.आचार्य.पुरोहित.स्वस्त्ययनानि प्रतिगृह्णीयात्, चिकित्सक.माहानसिक.मौहूर्तिकांश् च पश्येत् ॥
सवस्तां धेनुं वृषभं च प्रदक्षिणी.कृत्य^उपस्थानं गच्छेत् ॥
आत्म.बल.आनुकूल्येन वा निशा.अहर्.भागान् प्रविभज्य कार्याणि सेवेत ॥
उपस्थान.गतः कार्य.अर्थिनाम् अद्वार.आसङ्गं कारयेत् ॥
दुर्दर्शो हि राजा कार्य.अकार्य.विपर्यासम् आसन्नैः कार्यते ॥
तेन प्रकृति.कोपम् अरि.वशं वा गच्छेत् ॥
तस्माद् देवता.आश्रम.पाषण्ड.श्रोत्रिय.पशु.पुण्य.स्थानानां बाल.वृद्ध.व्याधित.व्यसन्य्.अनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत्, कार्य.गौरवाद् आत्ययिक.वशेन वा ॥
कz01.19.30अब्। सर्वम् आत्ययिकं कार्यं शृणुयान् न^अतिपातयेत् ।[श्]
कz01.19.30च्द्। कृच्छ्र.साध्यम् अतिक्रान्तम् असाध्यं वा^अपि जायते ॥[श्]
कz01.19.31अब्। अग्न्य्.अगार.गतः कार्यं पश्येद् वैद्य.तपस्विनाम् ।[श्]
कz01.19.31च्द्। पुरोहित.आचार्य.सखः प्रत्युत्थाय^अभिवाद्य च ॥[श्]
कz01.19.32अब्। तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ।[श्]
कz01.19.32च्द्। माया.योगविदां चैव न स्वयं कोप.कारणात् ॥[श्]
कz01.19.33अब्। राज्ञो हि व्रतम् उत्थानं यज्ञः कार्य.अनुशासनम् ।[श्]
कz01.19.33च्द्। दक्षिणा वृत्ति.साम्यं तु दीक्षा तस्य^अभिषेचनम् ॥[श्]
कz01.19.34अब्। प्रजा.सुखे सुखं राज्ञः प्रजानां च हिते हितम् ।[श्]
कz01.19.34च्द्। न^आत्म.प्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥[श्]
कz01.19.35अब्। तस्मान् नित्य.उत्थितो राजा कुर्याद् अर्थ.अनुशासनम् ।
कz01.19.35च्द्। अर्थस्य मूलम् उत्थानम् अनर्थस्य विपर्ययः ॥[श्]
कz01.19.36अब्। अनुत्थाने ध्रुवो नाशः प्राप्तस्य^अनागतस्य च ।[श्]
कz01.19.36च्द्। प्राप्यते फलम् उत्थानाल् लभते च^अर्थसम्पदम् ॥[श्]
ऋएगुलतिओन्स् fओर् थे रोयल् रेसिदेञ्चे
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0