भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 01.18

01.18.01

विनीतो राज.पुत्रः कृच्छ्र.वृत्तिर् असदृशे कर्मणि नियुक्तः पितरम् अनुवर्तेत, अन्यत्र प्राण.आबाधक.प्रकृति.कोपक.पातकेभ्यः ॥

01.18.02

पुण्ये कर्मणि नियुक्तः पुरुषम् अधिष्ठातारं याचेत् ॥

01.18.03

पुरुष.अधिष्ठितश् च सविशेषम् आदेशम् अनुतिष्ठेत् ॥

01.18.04

अभिरूपं च कर्म.फलम् औपायनिकं च लाभं पितुर् उपनाययेत् ॥

01.18.05

तथा^अप्य् अतुष्यन्तम् अन्यस्मिन् पुत्रे दारेषु वा स्निह्यन्तम् अरण्याय^आपृच्छेत ॥

01.18.06

बन्ध.वध.भयाद् वा यः सामन्तो न्याय.वृत्तिर् धार्मिकः सत्य.वाग्.अविसंवादकः प्रतिग्रहीता मानयिता च^अभिपन्नानां तम् आश्रयेत ॥

01.18.07

तत्रस्थः कोश.दण्ड.सम्पन्नः प्रवीर.पुरुष.कन्या.सम्बन्धम् अटवी.सम्बन्धं कृत्य.पक्ष.उपग्रहं च कुर्यात् ॥

01.18.08

एक.चरः सुवर्ण.पाक.मणि.राग.हेम.रूप्य.पण्य.आकर.कर्म.अन्तान् आजीवेत् ॥

01.18.09

पाषण्ड.संघ.द्रव्यम् अश्रोत्रिय.उपभोग्यं वा देव.द्रव्यम् आढ्य.विधवा.द्रव्यं वा गूढम् अनुप्रविश्य सार्थ.यान.पात्राणि च मदन.रस.योगेन^अतिसंधाय^अपहरेत् ॥

01.18.10

पारग्रामिकं वा योगम् आतिष्ठेत् ॥

01.18.11

मातुः परिजन.उपग्रहेण वा चेष्टेत ॥

01.18.12

कारु.शिल्पि.कुशीलव.चिकित्सक.वाग्.जीवन.पाषण्डच्.छद्मभिर् वा नष्ट.रूपस् तद्.व्यञ्जन.सखश्.छिद्रेषु प्रविश्य राज्ञः शस्त्र.रसाभ्यां प्रहृत्य ब्रूयात् - "अहम् असौ कुमारः, सह.भोग्यम् इदं राज्यम्, एको न^अर्हति भोक्तुम्, ये कामयन्ते मां भर्तुं तान् अहं द्विगुणेन भक्त.वेतनेन^उपस्थास्यामि" इति ॥ इत्य् अपरुद्ध.वृत्तम् ।

01.18.13

अपरुद्धं तु मुख्य.पुत्र.अपसर्पाः प्रतिपाद्य^आनयेयुः, माता वा प्रतिगृहीता ॥

01.18.14

त्यक्तं गूढ.पुरुषाः शस्त्र.रसाभ्यां हन्युः ॥

01.18.15

अत्यक्तं तुल्य.शीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्राव् उपगृह्य^आनयेयुः ॥
कz01.18.16अब्। उपस्थितं च राज्येन मद्.ऊर्ध्वम् इति सान्त्वयेत् ।
कz01.18.16च्द्। एकस्थम् अथ सम्रुन्ध्यात् पुत्रवांस् तु प्रवासयेत् ॥ए
(ऋउलेस् fओर् थे किन्ग्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc